18.1Arjunaअर्जुन उवाच। संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्। त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥Commentary · Sanskrit।।18.1।।अनन्तगुणपूर्णाय नमः। पूर्वोक्तं साधनं सर्वं सङ्क्षिप्योपसंहरत्यनेनाध्यायेन।Compare this verse →
18.2Krishnaश्रीभगवानुवाच। काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः। सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥Commentary · SanskritSanskrit Commentary By Sri Madhavacharya।।18.2।।फलानिच्छयाऽकरणेन वा काम्यकर्मणो न्यासः सन्न्यासः। त्यागस्तु फलत्याग एव। तथा हि प्राचीनशालश्रुतिः -- अनिच्छयाऽकर्मणा वाऽपि काम्यकर्मन्यासो न्यासः? फलत्यागस्तु त्यागः इति।Compare this verse →
18.3Krishnaत्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः। यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥Commentary · Sanskrit।।18.3।।मनीषिण इत्युक्तत्वात्पूर्वपक्षोऽपि ग्राह्य एव। फलत्यागेन त्यागो विवक्षितः। यज्ञादेस्तत्पक्षे।यस्तु कर्मफलत्यागी [18।11] इति च वक्ष्यति। अत एक एवायं पक्षः।Compare this verse →
18.4Krishnaनिश्चयं शृणु मे तत्र त्यागे भरतसत्तम। त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥Commentary · Sanskrit।।18.4।।तत्प्रकारं चाह -- निश्चयमित्यादिना। यज्ञभेद उक्तःद्रव्ययज्ञाः [4।28] इत्यादिना। दाने त्वभयदानमन्तर्भवति। एतेषां मध्ये यत्किञ्चिद्यज्ञादिकं कर्तव्यमेवेत्यर्थः। अन्यथाब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा। यदीच्छेन्मोक्षमास्थातुमुत्तमाश्रममाश्रयेत् इत्यादिव्यासस्मृतिविरोधः। ज्ञानयज्ञविद्याभयदानब्रह्मचर्यादितपसो हि ते। अतो यद्वचोऽन्यथाप्रतीयतेऽधिकारभेदेन तद्योज्यम्। अन्यथेतरेषां गत्यभावात्।Compare this verse →
18.5Krishnaयज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्। यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥Commentary · Sanskrit।।18.5।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.6Krishnaएतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च। कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥Commentary · Sanskrit।।18.6।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.7Krishnaनियतस्य तु संन्यासः कर्मणो नोपपद्यते। मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥Commentary · Sanskrit।।18.7।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.8Krishnaदुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्। स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥Commentary · Sanskrit।।18.8।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.9Krishnaकार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन। सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥Commentary · Sanskrit।।18.9।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.10Krishnaन द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते। त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥Commentary · Sanskrit।।18.10।।Sri Madhvacharya did not comment on this sloka.Compare this verse →
18.11Krishnaन हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः। यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥Commentary · Sanskrit।।18.11।।अन्यस्त्यागार्थो न युक्त इत्याह -- न हीति।Compare this verse →
18.12Krishnaअनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्। भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥Commentary · Sanskrit।।18.12।।त्यागं स्तौति -- अनिष्टमिति।Compare this verse →
18.13Krishnaपञ्चैतानि महाबाहो कारणानि निबोध मे। साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥Commentary · Sanskrit।।18.13।।पुनः सन्न्यासं प्रपञ्चयितुं कर्मकारणान्याह -- पञ्चेत्यादिना। साङ्क्ष्ये कृतान्ते ज्ञानसिद्धान्ते।Compare this verse →
18.14Krishnaअधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥Commentary · Sanskrit।।18.14 -- 18.15।।अधिष्ठानं देहादिः। कर्ता विष्णुः स हि सर्वकर्तेत्युक्तम् जीवस्य चाकर्तृत्वे प्रमाणमुक्तम्। करणमिन्द्रियादि च। चेष्टाः क्रियाः हस्तादिक्रियाभिर्होमादिकर्माणि जायन्ते। ध्यानादेरपि मानसी चेष्टा कारणम्। पूर्वतनी चेष्टाऽपि संस्कारकारणत्वेन भवति। दैवमदृष्टम्। तथा चायास्यश्रुतिः -- देहो ब्रह्मार्थेन्द्रियाद्याः क्रियाश्च तथाऽदृष्टं पञ्चमं कर्महेतुः इति।Compare this verse →
18.15Krishnaशरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः। न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥Commentary · Sanskrit।।18.14 -- 18.15।।अधिष्ठानं देहादिः। कर्ता विष्णुः स हि सर्वकर्तेत्युक्तम् जीवस्य चाकर्तृत्वे प्रमाणमुक्तम्। करणमिन्द्रियादि च। चेष्टाः क्रियाः हस्तादिक्रियाभिर्होमादिकर्माणि जायन्ते। ध्यानादेरपि मानसी चेष्टा कारणम्। पूर्वतनी चेष्टाऽपि संस्कारकारणत्वेन भवति। दैवमदृष्टम्। तथा चायास्यश्रुतिः -- देहो ब्रह्मार्थेन्द्रियाद्याः क्रियाश्च तथाऽदृष्टं पञ्चमं कर्महेतुः इति।Compare this verse →
18.16Krishnaतत्रैवं सति कर्तारमात्मानं केवलं तु यः। पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥Commentary · Sanskrit।।18.16।।केवलं निष्क्रियम्। एनं केवलमात्मानं निष्क्रियत्वाद्वदन्ति हीति तत्रैव।Compare this verse →
18.17Krishnaयस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते। हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥Commentary · Sanskrit।।18.17।।तज्ज्ञानं स्तौति -- यस्येति। यस्त्वीषद्बध्यते स ईषदहङ्कारी च।Compare this verse →
18.18Krishnaज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना। करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥Commentary · Sanskrit।।18.18।।एवं तर्हि न पुरुषमपेक्ष्य विधिः? अकर्तृत्वादित्यत आह -- ज्ञानमिति। त्रिविधा कर्मचोदना एतत् त्रिविधमपेक्ष्य कर्मविधिरिति त्रिविधेत्युच्यते। कारणानि सङ्क्षिप्याऽऽह -- करणमिति। कर्मसंग्रहः कर्मकारणसंग्रहः। अधिष्ठानादि कारण एवान्तर्भूतम्।तथा ह्यृग्वेदखिलेषु -- ज्ञानं ज्ञेयं ज्ञानिनं च ह्यपेक्ष्य विधिरुत्थितः। करणं चैव कर्ता च कर्मकारणसंग्रह इति। अकर्तृत्वेऽपि विधिद्वारेश्वरप्रसादादिच्छोत्पत्त्योक्तकारणैः कर्मद्वारा पुरुषार्थो भवतीति। ईश्वराधीनत्वेऽपि विधिद्वारा नियतस्तेनैव।यदि चेच्छादिर्जायते तर्हि कारितमेवेश्वरेण। फलं च नियतम्। वस्तुतोऽकर्तृत्वेऽपि आभिमानिकं कर्तृत्वं तस्यैव। स्वातन्त्र्यं च जडमपेक्ष्यैवेति न प्रवृत्तिविधिवैयर्थ्यम्। सर्वं चैतदनुभवोक्तप्रमाणसिद्धमिति न पृथक् प्रमाणमुच्यते।Compare this verse →
18.19Krishnaज्ञानं कर्म च कर्ताच त्रिधैव गुणभेदतः। प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥Commentary · Sanskrit।।18.19।।पुनः साधनप्रथनाय गुणभेदानाह -- ज्ञानमित्यादिना। गुणसङ्ख्याने गुणगणनप्रकरणे।Compare this verse →
18.20Krishnaसर्वभूतेषु येनैकं भावमव्ययमीक्षते। अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥Commentary · Sanskrit।।18.20।।एकं भावं विष्णुम्।Compare this verse →
18.21Krishnaपृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान्। वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥Commentary · Sanskrit।।18.21।।Sri Madhvacharya did not comment on this sloka. ,Compare this verse →
18.22Krishnaयत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम्। अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥Commentary · Sanskrit।।18.22।।Sri Madhvacharya did not comment on this sloka. ,Compare this verse →
18.23Krishnaनियतं सङ्गरहितमरागद्वेषतः कृतम्। अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥Commentary · Sanskrit।।18.23।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.24Krishnaयत्तु कामेप्सुना कर्म साहंकारेण वा पुनः। क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥Commentary · Sanskrit।।18.24।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.25Krishnaअनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्। मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥Commentary · Sanskrit।।18.25।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.26Krishnaमुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः। सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥Commentary · Sanskrit।।18.26।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.27Krishnaरागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः। हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥Commentary · Sanskrit।।18.27।।Sri Madhvacharya did not comment on this sloka.Compare this verse →
18.28Krishnaअयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः। विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥Commentary · Sanskrit।।18.28।।परकृतं दोषं दीर्घकालकृतमप्यनुचितं यः सूचयति स दीर्घसूत्री।परेण यः कृतो दोषो दीर्घकालकृतोऽपि वा। यस्तस्य सूचको दोषाद्दीर्घसूत्री स उच्यते इत्यभिधानात्।Compare this verse →
18.29Krishnaबुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु। प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥Commentary · Sanskrit।।18.29।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.30Krishnaप्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये। बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥Commentary · Sanskrit।।18.30।।Sri Madhvacharya did not comment on this sloka.Compare this verse →
18.31Krishnaयया धर्ममधर्मं च कार्यं चाकार्यमेव च। अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥Commentary · Sanskrit।।18.31।।यथार्थत्वानियमाभावे राजस्याः। अन्यथा तामस्याः? भेदाभावात्।Compare this verse →
18.32Krishnaअधर्मं धर्ममिति या मन्यते तमसावृता। सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥Commentary · Sanskrit।।18.32।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.33Krishnaधृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः। योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥Commentary · Sanskrit।।18.33।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.34Krishnaयया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन। प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥Commentary · Sanskrit।।18.34।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.35Krishnaयया स्वप्नं भयं शोकं विषादं मदमेव च। न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥Commentary · Sanskrit।।18.35।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.36Krishnaसुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ। अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥Commentary · Sanskrit।।18.36।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.37Krishnaयत्तदग्रे विषमिव परिणामेऽमृतोपमम्। तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥Commentary · Sanskrit।।18.37।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.38Krishnaविषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम्। परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥Commentary · Sanskrit।।18.38।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.39Krishnaयदग्रे चानुबन्धे च सुखं मोहनमात्मनः। निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥Commentary · Sanskrit।।18.39।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.40Krishnaन तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥Commentary · Sanskrit।।18.40।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.41Krishnaब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप। कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥Commentary · Sanskrit।।18.41।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.42Krishnaशमो दमस्तपः शौचं क्षान्तिरार्जवमेव च। ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥Commentary · Sanskrit।।18.42।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.43Krishnaशौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्। दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥Commentary · Sanskrit।।18.43।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.44Krishnaकृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्। परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥Commentary · Sanskrit।।18.44।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.45Krishnaस्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥Commentary · Sanskrit।।5.10।।सन्न्यासयोगयुक्त एव च कर्मणा न लिप्यत इत्याह ब्रह्मणीति। साधननियमस्योपचारत्वव्यावृत्त्यर्थं पुनः पुनः फलकथनम्।Compare this verse →
18.46Krishnaयतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥Commentary · Sanskrit।।18.46।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.47Krishnaश्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्। स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥Commentary · Sanskrit।।18.47।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.48Krishnaसहजं कर्म कौन्तेय सदोषमपि न त्यजेत्। सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥Commentary · Sanskrit।।18.48।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.49Krishnaअसक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः। नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥Commentary · Sanskrit।।18.49।।नैष्कर्म्यसिद्धिं? नैष्कर्म्यफलां योगसिद्धिम्।Compare this verse →
18.50Krishnaसिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे। समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥Commentary · Sanskrit।।18.50।।यथा येनोपायेन सिद्धिं प्राप्तो ब्रह्माप्नोति तथा निबोध। या सिद्धिर्ज्ञानस्य परा निष्ठा।Compare this verse →
18.51Krishnaबुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च। शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥Commentary · Sanskrit।।18.51।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.52Krishnaविविक्तसेवी लघ्वाशी यतवाक्कायमानसः। ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥Commentary · Sanskrit।।18.52।।Sri Madhvacharya did not comment on this sloka.Compare this verse →
18.53Krishnaअहंकारं बलं दर्पं कामं क्रोधं परिग्रहम्। विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥Commentary · Sanskrit।।18.53।।ब्रह्मभूयाय कल्पते। ब्रह्मणि भावो ब्रह्मभूयम्? ब्रह्मणि स्थितिः। सर्वदा तन्मनस्कतेत्यर्थः।Compare this verse →
18.54Krishnaब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति। समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥Commentary · Sanskrit।।18.54।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.55Krishnaभक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥Commentary · Sanskrit।।18.55।।Sri Madhvacharya did not comment on this sloka.Compare this verse →
18.56Krishnaसर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः। मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥Commentary · Sanskrit।।18.56।।पुनरन्तरङ्गसाधनान्युक्त्वोपसंहरति -- सर्वकर्माणीत्यादिना।Compare this verse →
18.57Krishnaचेतसा सर्वकर्माणि मयि संन्यस्य मत्परः। बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥Commentary · Sanskrit।।18.57।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.58Krishnaमच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि। अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ॥Commentary · Sanskrit।।18.58।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.59Krishnaयदहंकारमाश्रित्य न योत्स्य इति मन्यसे। मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥Commentary · Sanskrit।।18.59।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.60Krishnaस्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा। कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोपि तत् ॥Commentary · Sanskrit।।18.60।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.61Krishnaईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥Commentary · Sanskrit।।18.61।।Sri Madhvacharya did not comment on this sloka.Compare this verse →
18.62Krishnaतमेव शरणं गच्छ सर्वभावेन भारत। तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥Commentary · Sanskrit।।18.62।।परोक्षवचनं तु द्रोणं प्रति भीमवचनवत्।Compare this verse →
18.63Krishnaइति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया। विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥Commentary · Sanskrit।।18.63।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.64Krishnaसर्वगुह्यतमं भूयः शृणु मे परमं वचः। इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥Commentary · Sanskrit।।18.64।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.65Krishnaमन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥Commentary · Sanskrit।।18.65।।Sri Madhvacharya did not comment on this sloka.Compare this verse →
18.66Krishnaसर्वधर्मान्परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥Commentary · Sanskrit।।18.66।।धर्मत्यागः फलत्यागः। कथमन्यथा युद्धविधिः।यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते [18।11] इति चोक्तम्।Compare this verse →
18.67Krishnaइदं ते नातपस्काय नाभक्ताय कदाचन। न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥Commentary · Sanskrit।।18.67।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.68Krishnaय इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति। भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥Commentary · Sanskrit।।18.68।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.69Krishnaन च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः। भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥Commentary · Sanskrit।।18.69।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.70Krishnaअध्येष्यते च य इमं धर्म्यं संवादमावयोः। ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥Commentary · Sanskrit।।18.70।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.71Krishnaश्रद्धावाननसूयश्च शृणुयादपि यो नरः। सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥Commentary · Sanskrit।।18.71।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.72Krishnaकच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा। कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ॥Commentary · Sanskrit।।18.72।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.73Arjunaअर्जुन उवाच। नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत। स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥Commentary · Sanskrit।।18.73।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.74Sanjayaसञ्जय उवाच। इत्यहं वासुदेवस्य पार्थस्य च महात्मनः। संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥Commentary · Sanskrit।।18.74।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.75Sanjayaव्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्। योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥Commentary · Sanskrit।।18.75।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.76Sanjayaराजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम्। केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥Commentary · Sanskrit।।18.76।।Sri Madhvacharya did not comment on this sloka.,Compare this verse →
18.77Sanjayaतच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः। विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥Commentary · Sanskrit।।18.77।।Sri Madhvacharya did not comment on this sloka.Compare this verse →
18.78Sanjayaयत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥Commentary · Sanskrit।।18.78।। पूर्णादोषमहाविष्णोर्गीतामाश्रित्य लेशतः। निरूपणं कृतं तेन प्रीयतां मे सदा विभुः।सङ्कराख्यस्य दुयोर्नेर्निस्सृतेन रजस्वला। गीतानारी समीरेण शोधिता हंसरूपिणा।।1।।मायिनः शलभायन्ते भास्करस्तस्करायते। यस्य तस्मिन्प्राणनाथे यतीन्द्रे भक्तिरस्तु मे।।2।।Compare this verse →
अर्जुन उवाच। संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्। त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥
।।18.1।।अनन्तगुणपूर्णाय नमः। पूर्वोक्तं साधनं सर्वं सङ्क्षिप्योपसंहरत्यनेनाध्यायेन।
श्रीभगवानुवाच। काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः। सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥
Sanskrit Commentary By Sri Madhavacharya।।18.2।।फलानिच्छयाऽकरणेन वा काम्यकर्मणो न्यासः सन्न्यासः। त्यागस्तु फलत्याग एव। तथा हि प्राचीनशालश्रुतिः -- अनिच्छयाऽकर्मणा वाऽपि काम्यकर्मन्यासो न्यासः? फलत्यागस्तु त्यागः इति।
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः। यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥
।।18.3।।मनीषिण इत्युक्तत्वात्पूर्वपक्षोऽपि ग्राह्य एव। फलत्यागेन त्यागो विवक्षितः। यज्ञादेस्तत्पक्षे।यस्तु कर्मफलत्यागी [18।11] इति च वक्ष्यति। अत एक एवायं पक्षः।
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम। त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥
।।18.4।।तत्प्रकारं चाह -- निश्चयमित्यादिना। यज्ञभेद उक्तःद्रव्ययज्ञाः [4।28] इत्यादिना। दाने त्वभयदानमन्तर्भवति। एतेषां मध्ये यत्किञ्चिद्यज्ञादिकं कर्तव्यमेवेत्यर्थः। अन्यथाब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा। यदीच्छेन्मोक्षमास्थातुमुत्तमाश्रममाश्रयेत् इत्यादिव्यासस्मृतिविरोधः। ज्ञानयज्ञविद्याभयदानब्रह्मचर्यादितपसो हि ते। अतो यद्वचोऽन्यथाप्रतीयतेऽधिकारभेदेन तद्योज्यम्। अन्यथेतरेषां गत्यभावात्।
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्। यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥
।।18.5।।Sri Madhvacharya did not comment on this sloka.,
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च। कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥
।।18.6।।Sri Madhvacharya did not comment on this sloka.,
नियतस्य तु संन्यासः कर्मणो नोपपद्यते। मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥
।।18.7।।Sri Madhvacharya did not comment on this sloka.,
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्। स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥
।।18.8।।Sri Madhvacharya did not comment on this sloka.,
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन। सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥
।।18.9।।Sri Madhvacharya did not comment on this sloka.,
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते। त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥
।।18.10।।Sri Madhvacharya did not comment on this sloka.
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः। यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥
।।18.11।।अन्यस्त्यागार्थो न युक्त इत्याह -- न हीति।
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्। भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥
।।18.12।।त्यागं स्तौति -- अनिष्टमिति।
पञ्चैतानि महाबाहो कारणानि निबोध मे। साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥
।।18.13।।पुनः सन्न्यासं प्रपञ्चयितुं कर्मकारणान्याह -- पञ्चेत्यादिना। साङ्क्ष्ये कृतान्ते ज्ञानसिद्धान्ते।
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥
।।18.14 -- 18.15।।अधिष्ठानं देहादिः। कर्ता विष्णुः स हि सर्वकर्तेत्युक्तम् जीवस्य चाकर्तृत्वे प्रमाणमुक्तम्। करणमिन्द्रियादि च। चेष्टाः क्रियाः हस्तादिक्रियाभिर्होमादिकर्माणि जायन्ते। ध्यानादेरपि मानसी चेष्टा कारणम्। पूर्वतनी चेष्टाऽपि संस्कारकारणत्वेन भवति। दैवमदृष्टम्। तथा चायास्यश्रुतिः -- देहो ब्रह्मार्थेन्द्रियाद्याः क्रियाश्च तथाऽदृष्टं पञ्चमं कर्महेतुः इति।
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः। न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥
।।18.14 -- 18.15।।अधिष्ठानं देहादिः। कर्ता विष्णुः स हि सर्वकर्तेत्युक्तम् जीवस्य चाकर्तृत्वे प्रमाणमुक्तम्। करणमिन्द्रियादि च। चेष्टाः क्रियाः हस्तादिक्रियाभिर्होमादिकर्माणि जायन्ते। ध्यानादेरपि मानसी चेष्टा कारणम्। पूर्वतनी चेष्टाऽपि संस्कारकारणत्वेन भवति। दैवमदृष्टम्। तथा चायास्यश्रुतिः -- देहो ब्रह्मार्थेन्द्रियाद्याः क्रियाश्च तथाऽदृष्टं पञ्चमं कर्महेतुः इति।
तत्रैवं सति कर्तारमात्मानं केवलं तु यः। पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥
।।18.16।।केवलं निष्क्रियम्। एनं केवलमात्मानं निष्क्रियत्वाद्वदन्ति हीति तत्रैव।
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते। हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥
।।18.17।।तज्ज्ञानं स्तौति -- यस्येति। यस्त्वीषद्बध्यते स ईषदहङ्कारी च।
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना। करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥
।।18.18।।एवं तर्हि न पुरुषमपेक्ष्य विधिः? अकर्तृत्वादित्यत आह -- ज्ञानमिति। त्रिविधा कर्मचोदना एतत् त्रिविधमपेक्ष्य कर्मविधिरिति त्रिविधेत्युच्यते। कारणानि सङ्क्षिप्याऽऽह -- करणमिति। कर्मसंग्रहः कर्मकारणसंग्रहः। अधिष्ठानादि कारण एवान्तर्भूतम्।तथा ह्यृग्वेदखिलेषु -- ज्ञानं ज्ञेयं ज्ञानिनं च ह्यपेक्ष्य विधिरुत्थितः। करणं चैव कर्ता च कर्मकारणसंग्रह इति। अकर्तृत्वेऽपि विधिद्वारेश्वरप्रसादादिच्छोत्पत्त्योक्तकारणैः कर्मद्वारा पुरुषार्थो भवतीति। ईश्वराधीनत्वेऽपि विधिद्वारा नियतस्तेनैव।यदि चेच्छादिर्जायते तर्हि कारितमेवेश्वरेण। फलं च नियतम्। वस्तुतोऽकर्तृत्वेऽपि आभिमानिकं कर्तृत्वं तस्यैव। स्वातन्त्र्यं च जडमपेक्ष्यैवेति न प्रवृत्तिविधिवैयर्थ्यम्। सर्वं चैतदनुभवोक्तप्रमाणसिद्धमिति न पृथक् प्रमाणमुच्यते।
ज्ञानं कर्म च कर्ताच त्रिधैव गुणभेदतः। प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥
।।18.19।।पुनः साधनप्रथनाय गुणभेदानाह -- ज्ञानमित्यादिना। गुणसङ्ख्याने गुणगणनप्रकरणे।
सर्वभूतेषु येनैकं भावमव्ययमीक्षते। अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥
।।18.20।।एकं भावं विष्णुम्।
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान्। वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥
।।18.21।।Sri Madhvacharya did not comment on this sloka. ,
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम्। अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥
।।18.22।।Sri Madhvacharya did not comment on this sloka. ,
नियतं सङ्गरहितमरागद्वेषतः कृतम्। अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥
।।18.23।।Sri Madhvacharya did not comment on this sloka.,
यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः। क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥
।।18.24।।Sri Madhvacharya did not comment on this sloka.,
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्। मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥
।।18.25।।Sri Madhvacharya did not comment on this sloka.,
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः। सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥
।।18.26।।Sri Madhvacharya did not comment on this sloka.,
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः। हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥
।।18.27।।Sri Madhvacharya did not comment on this sloka.
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः। विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥
।।18.28।।परकृतं दोषं दीर्घकालकृतमप्यनुचितं यः सूचयति स दीर्घसूत्री।परेण यः कृतो दोषो दीर्घकालकृतोऽपि वा। यस्तस्य सूचको दोषाद्दीर्घसूत्री स उच्यते इत्यभिधानात्।
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु। प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥
।।18.29।।Sri Madhvacharya did not comment on this sloka.,
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये। बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥
।।18.30।।Sri Madhvacharya did not comment on this sloka.
यया धर्ममधर्मं च कार्यं चाकार्यमेव च। अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥
।।18.31।।यथार्थत्वानियमाभावे राजस्याः। अन्यथा तामस्याः? भेदाभावात्।
अधर्मं धर्ममिति या मन्यते तमसावृता। सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥
।।18.32।।Sri Madhvacharya did not comment on this sloka.,
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः। योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥
।।18.33।।Sri Madhvacharya did not comment on this sloka.,
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन। प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥
।।18.34।।Sri Madhvacharya did not comment on this sloka.,
यया स्वप्नं भयं शोकं विषादं मदमेव च। न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥
।।18.35।।Sri Madhvacharya did not comment on this sloka.,
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ। अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥
।।18.36।।Sri Madhvacharya did not comment on this sloka.,
यत्तदग्रे विषमिव परिणामेऽमृतोपमम्। तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥
।।18.37।।Sri Madhvacharya did not comment on this sloka.,
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम्। परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥
।।18.38।।Sri Madhvacharya did not comment on this sloka.,
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः। निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥
।।18.39।।Sri Madhvacharya did not comment on this sloka.,
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥
।।18.40।।Sri Madhvacharya did not comment on this sloka.,
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप। कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥
।।18.41।।Sri Madhvacharya did not comment on this sloka.,
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च। ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥
।।18.42।।Sri Madhvacharya did not comment on this sloka.,
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्। दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥
।।18.43।।Sri Madhvacharya did not comment on this sloka.,
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्। परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥
।।18.44।।Sri Madhvacharya did not comment on this sloka.,
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥
।।5.10।।सन्न्यासयोगयुक्त एव च कर्मणा न लिप्यत इत्याह ब्रह्मणीति। साधननियमस्योपचारत्वव्यावृत्त्यर्थं पुनः पुनः फलकथनम्।
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥
।।18.46।।Sri Madhvacharya did not comment on this sloka.,
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्। स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥
।।18.47।।Sri Madhvacharya did not comment on this sloka.,
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्। सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥
।।18.48।।Sri Madhvacharya did not comment on this sloka.,
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः। नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥
।।18.49।।नैष्कर्म्यसिद्धिं? नैष्कर्म्यफलां योगसिद्धिम्।
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे। समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥
।।18.50।।यथा येनोपायेन सिद्धिं प्राप्तो ब्रह्माप्नोति तथा निबोध। या सिद्धिर्ज्ञानस्य परा निष्ठा।
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च। शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥
।।18.51।।Sri Madhvacharya did not comment on this sloka.,
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः। ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥
।।18.52।।Sri Madhvacharya did not comment on this sloka.
अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम्। विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥
।।18.53।।ब्रह्मभूयाय कल्पते। ब्रह्मणि भावो ब्रह्मभूयम्? ब्रह्मणि स्थितिः। सर्वदा तन्मनस्कतेत्यर्थः।
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति। समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥
।।18.54।।Sri Madhvacharya did not comment on this sloka.,
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥
।।18.55।।Sri Madhvacharya did not comment on this sloka.
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः। मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥
।।18.56।।पुनरन्तरङ्गसाधनान्युक्त्वोपसंहरति -- सर्वकर्माणीत्यादिना।
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः। बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥
।।18.57।।Sri Madhvacharya did not comment on this sloka.,
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि। अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ॥
।।18.58।।Sri Madhvacharya did not comment on this sloka.,
यदहंकारमाश्रित्य न योत्स्य इति मन्यसे। मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥
।।18.59।।Sri Madhvacharya did not comment on this sloka.,
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा। कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोपि तत् ॥
।।18.60।।Sri Madhvacharya did not comment on this sloka.,
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥
।।18.61।।Sri Madhvacharya did not comment on this sloka.
तमेव शरणं गच्छ सर्वभावेन भारत। तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥
।।18.62।।परोक्षवचनं तु द्रोणं प्रति भीमवचनवत्।
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया। विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥
।।18.63।।Sri Madhvacharya did not comment on this sloka.,
सर्वगुह्यतमं भूयः शृणु मे परमं वचः। इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥
।।18.64।।Sri Madhvacharya did not comment on this sloka.,
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥
।।18.65।।Sri Madhvacharya did not comment on this sloka.
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥
।।18.66।।धर्मत्यागः फलत्यागः। कथमन्यथा युद्धविधिः।यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते [18।11] इति चोक्तम्।
इदं ते नातपस्काय नाभक्ताय कदाचन। न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥
।।18.67।।Sri Madhvacharya did not comment on this sloka.,
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति। भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥
।।18.68।।Sri Madhvacharya did not comment on this sloka.,
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः। भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥
।।18.69।।Sri Madhvacharya did not comment on this sloka.,
अध्येष्यते च य इमं धर्म्यं संवादमावयोः। ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥
।।18.70।।Sri Madhvacharya did not comment on this sloka.,
श्रद्धावाननसूयश्च शृणुयादपि यो नरः। सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥
।।18.71।।Sri Madhvacharya did not comment on this sloka.,
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा। कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ॥
।।18.72।।Sri Madhvacharya did not comment on this sloka.,
अर्जुन उवाच। नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत। स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥
।।18.73।।Sri Madhvacharya did not comment on this sloka.,
सञ्जय उवाच। इत्यहं वासुदेवस्य पार्थस्य च महात्मनः। संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥
।।18.74।।Sri Madhvacharya did not comment on this sloka.,
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्। योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥
।।18.75।।Sri Madhvacharya did not comment on this sloka.,
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम्। केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥
।।18.76।।Sri Madhvacharya did not comment on this sloka.,
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः। विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥
।।18.77।।Sri Madhvacharya did not comment on this sloka.
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥
।।18.78।। पूर्णादोषमहाविष्णोर्गीतामाश्रित्य लेशतः। निरूपणं कृतं तेन प्रीयतां मे सदा विभुः।सङ्कराख्यस्य दुयोर्नेर्निस्सृतेन रजस्वला। गीतानारी समीरेण शोधिता हंसरूपिणा।।1।।मायिनः शलभायन्ते भास्करस्तस्करायते। यस्य तस्मिन्प्राणनाथे यतीन्द्रे भक्तिरस्तु मे।।2।।