3.1Arjuna

अर्जुन उवाच। ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन। तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥

Commentary · Sanskrit

।।3.1।।अथ सङ्गतिं विवक्षुः साक्षान्मोक्षोपायं वक्ष्यमाण च तत्स्वरूपं तत्प्राप्यं च दर्शयन् द्वितीयाध्यायोक्ताथस्य साक्षान्मोक्षोपायत्वाभावेन अपवर्गप्रधाने शास्त्रे सङ्गत्यभावशङ्कां परिहर्तुमितिकर्तव्यतात्वं प्रथयति तदेवमिति। तत्शङ्कराद्युक्तप्रकारनिराकरणेन यथावत् द्वितीयाध्यायनिर्वाहादित्यर्थः।एवमिति स्वोक्तौचित्यं निर्दिशति। ब्रह्मविदाप्नोति परं तै.उ.2।1।1 परं ज्योतिरुपसम्पद्य छा.उ.8।3।4 परात्परं पुरुषमुपैति मुं.उ.3।2।8 रस्ँह्येवायं लब्ध्वाऽऽनन्दी भवति तै.उ.2।7 परमं साम्यमुपैति मुं.उ.आत्मदर्शनस्य परविद्याङ्गतायां प्रमाणं प्रपञ्चयति प्रजापतीति। फलवत्सन्निधावफलं तदङ्गम्। तत्र सन्निधिस्तावदुच्यते दहरेति। प्रत्यगात्मविषयत्वव्यक्त्यर्थं तत्प्रकरणोदितप्रत्यगात्मपरिशोधनप्रकारमाह जागरितेति। प्रजापतिर्हि क्रमाज्जागरिताद्यवस्थात्रयविशिष्टं प्रत्यगात्मानमुपदिदेश इन्द्रस्तु नाहमत्र भोग्यं पश्यामि छां.उ.8।9।10।2 इति तत्रतत्र विमुखः पुनः पुनः पप्रच्छ ततश्च शुश्रूषोर्योग्यतां विज्ञाय प्रजापतिः अशरीरं वाव सन्तम् छां.उ.8।12।1 इति परिशुद्धं स्वरूपमुक्तवान्। अत्राङ्गत्वसिद्ध्यर्थं दहरविद्यातः पृथक्फलाभावं तदेकफलत्वं चाह एवमेवेति।एतदुक्तं भवति प्रजापतिवाक्यं हि दहरविद्याप्रकरणगतम् न च प्रजापतिवाक्योदितप्रत्यगात्मदर्शनस्य निश्श्रेयसातिरिक्तं फलमुक्तम् न च केवलप्रत्यगात्मदर्शनं निश्श्रेयससाधनं नान्यः पन्थाः श्वे.उ.3।86।15 इत्यादिविरोधात् तत्क्रतुन्यायाच्च न चात्र जीवप्राप्तिरेव फलमुच्यतेपरं ज्योतिः इति विशेषणात् नारायणः परं ज्योतिः म.ना.उ.11।4 इत्यादिना च परज्योतिश्शब्दस्य परमात्मविषयत्वप्रसिद्धेः दहरविद्यायां पूर्वत्रापि तस्यैव परज्योतिश्शब्देनोक्तेः उपसम्पत्तुत्मसम्पत्तव्याद्भेदस्य च स्वरससिद्धेः प्राप्तुरात्मनः परब्रह्मसाम्यापन्नपुरुषलभ्यनिरतिशयस्वच्छन्दभोगनिर्दुःखताद्यभिधानाच्च। अतः प्रधानफलस्यैवात्र तदङ्गेऽपिनिर्देशात्परविद्याङ्गं प्रत्यगात्मदर्शनम् इति।अथन जायते म्रियते 2।20 इत्यादिभिः कतिपयपदावापोद्वापभेदितैः श्लोकैः प्रत्यभिज्ञातार्थतया भगवद्गीताप्रबन्धसमानाकारां भक्तिशब्दकण्ठोक्तिमतीं कठवल्लीमुपनिषदमुक्तस्यार्थस्य निर्विशङ्कं विशदीकरणायोदाहरति अन्यत्रापीति। साङ्गसफलप्रधानविधिवाक्ये प्रधानांशमङ्गांशं च विभजते देवं मत्वेति। अध्यात्मयोगाधिगमेन इत्यत्र साक्षात्परविषययोगपरत्वेमत्वा इत्यस्य साध्यत्वायोगात् शास्त्रजन्यज्ञाने योगशब्दस्यावाचकत्वात्मत्वा इत्यत्र शास्त्रेणेत्यध्याहृत्य तद्व्युत्क्रमान्वयानौचित्याज्जीवस्यापि परवत्तत्रैव विवरिष्यमाणत्वाच्च जीवालम्बनयोगपरत्वं युक्तम्। अङ्गतया विहितस्य ज्ञानस्य ज्ञेयैकनिरूपणीयस्वरूपस्यापेक्षिकज्ञेयस्वरूपशोधनोपदेशमाह न जायत इति। एवं प्रथमषट्कोपबृंहणीयांश उक्तः। यथा सङ्गृहीतंज्ञानकर्मात्मिके निष्ठे योगलक्षे सुसंस्कृते। आत्मानुभूतिसिद्ध्यर्थे पूर्वषट्केन चोदिते गी.सं.2 इति। अथ द्वितीयतृतीयषट्कोपबृंहणीयांशमुदाहरति अणोरणीयानित्यादिना। इदमपि सङ्गृहीतम् मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये। ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः।।प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम्। कर्मधीर्भक्तिरित्यादिः पूर्वशेषोऽन्तिमोदितः गी.सं.34 इति।अणोरणीयान् इत्यादेरर्थमाहपरस्वरूपमिति।महान्तं विभुं इत्याद्युक्तमाह तदुपासनमिति।नायमात्मा इत्यस्याभिप्रेतमाह उपासनस्य चेति। केवलमनननिदिध्यासनश्रवणनिषेधमुखेन भक्त्याख्यवरणीयताहेतुगुणविशेषविधिपरमिदं वाक्यमिति शारीरकभाष्यादिषु विशदं व्याख्यातम्। मत्वा धीरो हर्षशोकौ जहाति मत्वा धीरो न शोचति इत्युक्तस्यैव परविद्याफलस्योपसंहारेऽपि विशदोपदेशं प्रत्यगात्मज्ञानस्यैतदेकफलत्वप्रदर्शनायाह विज्ञानेति। एवमुपक्रमोपसंहारादिभिः परविद्यामयेऽस्मिन् प्रकरणे अध्यात्मयोगाधिगमेन देवं मत्वा इति परमात्मज्ञानकारणतया निर्दिष्टं पृथक्फलरहितं च प्रत्यगात्मज्ञानं परविद्याङ्गतया सिद्धमिति तदुपबृंहणतया प्रतीयमानेऽस्मिन्नपि प्रकरणे तथात्वमध्यवसातव्यमित्युक्तं भवति।एवं सङ्क्षेपोक्तिपर्यवसाने प्रतिपत्तिसौकर्याय कुमतिमतभङ्गाय चात्मज्ञानस्य वक्ष्यमाणपरविद्याङ्गतामुपपाद्य उक्तविस्तररूपस्य प्रथमषट्कशेषस्योक्तांशेन सङ्गतिमाह अतःपरमिति। एकस्मिन्नेव षट्के सङ्ग्रहविस्तररूपेण पेटिकाभेदप्रवृत्तिः। इदमेवेत्यवधारणेनाध्यायचतुष्टये परमात्मप्रसङ्गतद्ध्यानादेःयुक्त आसीत मत्परः 2।68 इति पूर्ववदेवात्मदर्शनशेषत्वमवगमयति। पुनरुक्तिपरिहारायप्रपञ्चयतीत्युक्तम्। सप्रयोजनत्वाय प्रपञ्चनप्रकारमाह ससाधनमिति।अत्रार्जुनः प्रागेव समरव्यापारविरतिवासनायन्त्रितः कर्मयोगज्ञानयोगाख्यप्रवृत्तिनिवृत्त्यात्मकसाधनोपदेशे निवृत्त्युपदेशांशरसिकश्चोद्यमुखेन पृच्छति ज्यायसीति। प्रथमश्लोकस्यान्वयं तावदाह यदीति। कर्मणो बुद्धिर्ज्यायसीति कुत्रोपदिष्टम्दूरेण ह्यवरं कर्म बुद्धियोगात् 2।49 इत्यादि तु बुद्धिविशेषविशिष्टकर्मयोगपरमिति व्याख्यातम् ज्यायस्त्वं च किंरूपमिहाभिमतम् बुद्धेर्ज्यायस्त्वे च कर्मणि यथाधिकारं नियोगस्य को दोषः घोरशब्दश्च भयङ्करपर्यायः न च कर्मयोगो भयङ्करः किंशब्दश्चात्र प्रश्नपरो वा प्रतिक्षेपपरो वा इत्यादिकमाशङ्क्याह एतदुक्तमिति। तत्र बुद्धेर्ज्यायस्त्वप्रकारं पूर्वं तदुक्तिप्रकारं चाह ज्ञाननिष्ठैवेति। स्थितप्रज्ञताप्रकरणे कर्मणो ज्ञाननिष्ठाहेतुत्वमुक्तम् ज्ञाननिष्ठाया एव चात्मावलोकनहेतुत्वम् ततश्च अव्यवधानाद्बुद्धिर्ज्यायसीति यथाधिकारं नियोगानर्हत्वाय ज्ञाननिष्ठानिष्पादनस्य कर्मप्रत्यनीकरूपत्वमुक्तं प्रकटयति आत्मेति।यदा संहरते 2।58 इत्याद्युक्तं स्मारयति सकलेन्द्रियेत्यादिना। किंशब्दस्य प्रतिक्षेपपरत्वंज्यायसी चेत् इत्यत्र चेच्छब्दस्य निश्चितविषयत्वं चाभिप्रेत्यफलितमाह इन्द्रियव्यापारेति। सकलकर्मेत्यसङ्गकर्मसङ्ग्रहणपरम्।किमर्थमिति। न तावत् स्वप्रयोजनार्थं परिपूर्णत्वात् न च सांसारिकफलप्रदानार्थम् जनार्दनस्य जनिनिरासकस्य तव तन्निवर्तनस्वाभाव्यात् नापिभूभारभूतधार्तराष्ट्रादिवधनिमित्तीकृतमद्विप्रलम्भार्थम् प्रपन्नं मां प्रति केशवस्य ब्रह्मरुद्रादिपितुस्ते तदनौचित्यात् नापि फलशैघ्र्यार्थं पारम्पर्यस्य पूर्वमुपदिष्टत्वात् न च सौकर्यार्थम् अकरणनिमित्तप्रत्यवायपरिहारार्थं वासकलेन्द्रियव्यापाररूपत्वेन तदुपरतिनिष्पाद्यात्मावलोकनविरोधितया मुमुक्षोर्घोरत्वात् नच लोकसङ्ग्रहार्थं लोकस्यापि यथावस्थिताकारोपदेशस्यैवोचितत्वात्। अतो भवतः प्राणसमतया भवतैवोद्धोषितं मां भवदनभिमते कर्मणि न नियोजयितुमर्हसीति भावः।घोरशब्दस्यात्र शास्त्रीयप्राणिपीडनपरत्वायोगात् प्रकृतोपयुक्तमभिप्रेतमाह सर्वेन्द्रियव्यापाररूप इति। तथापि कथं घोरत्वमित्यत्राह आत्मावलोकनविरोधिनीति।

Compare this verse →
3.2Arjuna

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे। तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥

Commentary · Sanskrit

।।3.2।।उक्तमर्थं हेतूकुर्वन् द्वितीयश्लोकार्थमाह अत इति। अचेतनाया बुद्धेर्मोहनस्यौपचारिकत्वान्मामित्युक्तम्। इवशब्दद्योतितमाह प्रतिभातीति। एतेन कारुणिकत्वात् त्वं तावन्न मोहयसि अहं तु मन्दो मुह्यामीत्युक्तं भवति। व्यामिश्रशब्दाभिप्रेतं व्याघातं तत्प्रकारं चोपपादयति तथाहीति। तद्विपर्ययरूपं कर्म तस्याः कथं साधनं तद्विरुद्धं च कथं तदर्थिना कर्तव्यं इति व्याहतिद्वयमिहाभिप्रेतम्।एकमित्येतन्न ज्ञानकर्मणोरन्यतरविषयं तयोरेकस्यैव कर्मण उपदिष्टत्वात् तत्र च स्वस्यानुपपन्नताप्रतिभासे तथा भ्रमनिवृत्तेश्चानन्तरमपेक्षणीयत्वात् तस्याश्च व्यामिश्रत्वनिवृत्तिसाध्यत्वाद्वाक्यशब्दस्य चैतच्छ्लोकगतस्य विशेष्यसमर्पकत्वौचित्यादित्यभिप्रेत्योक्तम् अमिश्ररूपं वाक्यमिति। पूर्वेणान्वयभ्रमव्युदासाय निश्चित्येत्यादेरर्थमाह येनेति।निश्चित्य इत्यस्य न तावत्वद इत्यनेनान्वयः सर्वज्ञस्य तस्य प्रागप्यनिश्चयायोगात् व्यामिश्रवाक्येनापि परव्यामोहनमात्रस्य शङ्कितत्वात्। अतोऽर्जुनस्यैव निश्चयाकाङ्क्षा ततश्च निश्चित्य श्रेयः प्राप्नुयामित्येवान्वयः। निश्चयसापेक्षं सन्दिग्धविषयमाह अनुष्ठेयरूपमिति।

Compare this verse →
3.3Krishna

श्रीभगवानुवाच। लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥

Commentary · Sanskrit

।।3.3।।एवमसङ्कीर्णरूपे वाक्ये बुभुत्सिते पूर्वोक्तस्यैवासङ्कीर्णरूपतां प्रकटयन् श्रीभगवानुवाच लोकेऽस्मिन्निति।मया प्रोक्ता इति निर्देशात्काक्वा च फलितमाह पूर्वोक्तमिति।अस्मिन् लोके इत्यस्य प्रकृतोपयोगितात्पर्यमाह विचित्राधिकारिसम्पूर्णे इति। तेन ज्ञानयोगकर्मयोगयोरधिकारिभेदसम्भवः परस्परविरुद्धानामपि धर्माणां प्रतिनियताधिकारिविषयत्वव्यवस्थापकवर्णाश्रमदेशकालकामनानिमित्तादिदृष्टान्तश्च सूचितः। अनघशब्देनाप्येतदेवाभिप्रेतम्। यथास्मिन् लोकेऽनघतया त्वमपवर्गसाधनेऽधिकरोषि इतरे तु काम्यादौ तद्वदनघमात्रस्य कर्मयोगेऽधिकारः अनघतराणां तु ज्ञानयोग इति संसारदाहज्वरचिकित्सकस्य सर्वज्ञस्य भिषजस्तत्तदवस्थोचितोऽयमुपदेशः।प्रोक्ता इत्यस्य सोपसर्गस्याभिप्रेतमाह यथाधिकारमिति। अधिकारानतिलङ्घनमत्र प्रकर्षः। द्वैविध्यमात्रस्य ज्ञातत्वात्तदुक्त्यभिप्रेतमाह असङ्कीर्णैवेति।मयेति तत्तदधिकारिभेदवेदिना तत्तद्धितकामेनास्पृष्टभ्रमविप्रलम्भप्रमादाशक्तिगन्धेनेत्यर्थः।ज्यायसि ज्ञानयोगे तिष्ठति कर्मयोगः कथमाद्रियेत इत्यत्राह नहीति। मोक्षाभिलाषे जातेऽपि जन्मान्तरशतसुचरितमृदितकषायाणां केषाञ्चिदेव तदानीमेव ज्ञानयोगाधिकारः तथा दर्शनात् ततः शक्ताशक्तविषयतया ज्ञानकर्मयोगयोर्व्यवस्थेति भावः। नन्वशक्तानां कदाचिदपि ज्ञानयोगाधिकारो न स्यात् तच्छक्तिहेतुतयोक्तस्य कर्मयोगानुष्ठानस्य तत्प्रातिकूल्यचोद्यस्थितेरित्यत्राह अनभिसंहितेति। सर्वज्ञत्वसर्वशक्तित्वकारुण्यादिविशिष्टभगवदनुग्रहरूपादृष्टद्वारा ज्ञानहेतुत्वाय परमपुरुषाराधनरूपतोक्तिः। व्याकुलेन्द्रियत्वं हि ज्ञाननिष्ठाविरोधि तच्च स्वान्तमलमूलम् तदप्यनादिपुण्यपापरूपदुष्कर्ममूलरजस्तमोमयम् तच्च सत्त्वोन्मेषहेतुभूतैवंविधकर्मनिबर्हणीयम् अतो ज्ञाननिष्ठाहेतुभूतशान्तिहेतुत्वात्तदनुकूल एव कर्मयोग इत्युक्तं भवति। धर्मेण पापमपनुदति तै.ना.उ.6।50 इत्यादिकमिहाभिप्रेतम् अनभिसंहितफलत्वं पूर्वमेवोक्तमिति कृत्वा केवलपरमपुरुषाराधनवेषतायां कर्मणैव सिद्धिप्राप्तौ च वक्ष्यमाणं दर्शयति यत इति। प्रोक्तशब्दनिर्दिष्टं अव्यामिश्राभिधानं अनभिसंहितफलत्वोक्तिं च व्यनक्ति इहापीति।यदा ते मोहकलिलंश्रुतिविप्रतिपन्ना ते 2।5253 इत्याद्यर्थं स्मारयति विषयेति। आभिप्रायिकमवधारणं व्यञ्जयन्नुत्तरार्धं व्याचष्टे अतः साङ्ख्यानामेवेति। साङ्ख्यशब्दस्यात्र सिद्धान्तविशेषनिष्ठपरत्वं व्युदस्यति साङ्ख्यबुद्धिरित्यादिना। अतदर्हा इत्यशक्तिविषयत्वं सूचितम्।कर्मयोगाधिकारिण इति। योगिशब्दस्थो योगो ह्यत्र कर्मयोगः प्रत्ययार्थः सम्बन्धश्चात्र तद्योग्यतारूप इत्यर्थः। अतदर्हत्वं तदर्हत्वं च विशदयन् विरोधशङ्कापरिहारस्यफलितत्वेनाव्यामिश्राभिधानमुपसंहरति विषयेति।

Compare this verse →
3.4Krishna

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते। न च संन्यसनादेव सिद्धिं समधिगच्छति ॥

Commentary · Sanskrit

।।3.4।।ननु मोक्षेच्छैव हि कर्मयोगेऽपि पुरुषं प्रवर्तयति सा यदि जाता ततः किमव्यवहिते ज्ञानयोगे न प्रवर्तते इति शङ्कान कर्मणाम् इति श्लोकेन निराक्रियत इत्याह सर्वस्येति।लौकिकस्य इत्यनेन संसारलोकान्तर्गततया विषयव्याकुलेन्द्रियत्वमभिप्रेतम्।सहसैवेति कर्मयोगमकृत्वेत्यर्थः। निषेधस्यान्यविषयत्वज्ञापनाय शास्त्रीयशब्दः। नैष्कर्म्यशब्दस्याननुष्ठानादिपरत्वे साध्याविशेषादिदोषः स्यात् अतो निष्कर्मा निष्क्रान्तकर्मयोगः पर्यवसितकर्मयोगः ज्ञाननिष्ठ इत्यर्थः तस्य भावो नैष्कर्म्यमित्यभिप्रायेणाह ज्ञाननिष्ठामिति। सन्न्यसनशब्दस्याप्यत्रकर्मणां इत्यनेनैवान्वयं सन्न्यसनस्वभावादारब्धविषयत्वं तत एव सव्यसाचिनः समरजिहासावृत्तान्तं चाभिप्रेत्याह न चारब्धस्येति। नैष्कर्म्यशब्दानुषङ्गेऽपि सम्भवति पुनः सिद्धिशब्देनाभिधानस्य तात्पर्यं व्यञ्जयति यत इति। अनारम्भं सन्न्यसनं च सङ्कलय्याह अतस्तेन विनेति। कारणभूतकर्माभावे कथं कार्यं स्यादिति भावः। पञ्चम्या हेतुपरत्वं निषेधान्वयेन तत्तन्निषेध्यान्वयेन वा योज्यम्। पूर्वत्र कर्मयोगानारम्भे ज्ञानयोगासिद्धिः स्यादिति वाक्यार्थः उत्तरत्र तु यत्कर्मयोगत्यागादेव ज्ञानयोगसिद्धिरित्यभिप्रेतम् तदयुक्तम् सा हि तेनैव जन्येति तात्पर्यम्। तदिमामुभयीमपि वाक्यवृत्तिमभिप्रेत्य श्लोकाभिप्रेतमर्थमाह अनभिसंहितेति। कर्मभिरित्यस्यानाराधितेत्यनेनान्वयः। एतेनअनाराधितगोविन्दा ये नरा दुःखभागिनः इत्यादिकं स्मारितम्। अनभिसंहितफलकर्माभावे निश्श्रेयसौपयिकपरमपुरुषप्रीत्यभावः तदभावाच्च पापसञ्चयानुपरमः तेन च रजस्तमोमयमनोमलानपायः ततश्च रागद्वेषादिदोषाणां दीर्घायुष्यम् तेषु च जीवत्सु नेन्द्रियव्याकुलताशान्तिः बहिर्विषयव्याकुलेषु च तेषु न प्रत्यगर्थनिष्ठेति तादृशकर्मपरित्यागेन ज्ञाननिष्ठामनुतिष्ठासुः सप्तभूमस्य गोपुरस्य सप्तमं तलं प्रथमं चिकीर्षतीत्यपहास्यमिति भावः।

Compare this verse →
3.5Krishna

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्। कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥

Commentary · Sanskrit

।।3.5।।अनन्वयवशङ्कां परिहरन्ननन्तरश्लोकमवतारयति एतदेवेति। परमपुरुषाराधनवेषस्य कर्मणस्त्यागे ज्ञाननिष्ठाया दुस्सम्पादत्वमेवेत्यर्थः। प्रथमो हिशब्दः पूर्वश्लोकार्थोपपादनद्योतकः। द्वितीयस्त्वेतच्छ्लोकपूर्वार्धोक्तोपपादनार्थः। प्रकरणारम्भेलोकेऽस्मिन् 3।3 इत्युक्ताधिकारिवैचित्र्यमपिकश्चित्सर्वः इत्याभ्यामभिप्रेतमिति ज्ञापनायअस्मिन् लोके इत्युक्तम्।जातुशब्दो दिवसादिस्थूलकालपरः। क्षणशब्दस्त्वत्रक्षणो व्यापारवैकल्ये कालभेदाल्पकालयोः इत्यनेकार्थपाठात्तदन्तर्गताल्पकालविषय इत्यपौनरुक्त्यम्। तदुभयसङ्ग्रहेणकदाचिदपीत्युक्तम्। प्रलयादिदशाव्यतिरिक्ते सर्वस्मिन् काल इत्यर्थः। स्वपतोऽपि हि स्वापाख्यं कर्म अत एव हि तत्र देशकालादिनियमेनानुज्ञाप्रतिषेधौ भवतः।अकर्मकृत् इत्यत्राकर्मणः कर्ता न विवक्षितः किन्तु कर्मणोऽकर्तेति व्यञ्जनायकर्माकुर्वाण इत्युक्तम्। सर्वशब्दाभिप्रेतमाह न किञ्चित्करोमीति व्यवसितोऽपीति। अयं चार्थःकर्मेन्द्रियाणि संयम्य इत्युत्तरश्लोके व्यक्तो भविष्यति। प्रकृतिजत्वेन विशेषणात् सत्त्वरजस्तमोभिरिति विशेषलाभः। प्रकृतौ नित्यं विद्यमानानां कथं प्रकृतिजत्वमित्यत्रोक्तंप्राचीनेत्यादि। तदा चाहुः कर्मवश्या गुणा ह्येते सत्त्वाद्याः पृथिवीपते वि.पु.2।13।70 इति। एतेन कर्मयोगतनूकृतगुणकज्ञाननिष्ठव्यवच्छेदः। स्वोचितशब्देन तृतीयषट्के वक्ष्यमाणः प्रकारो दर्शितः। स्वशब्दोऽत्र गुणपरःअवशः सर्वः इत्युद्देश्यविशेषणत्वभ्रमव्युदासायअवशः कार्यते इत्युक्तम्।कार्यते इत्यस्य प्रयोज्यकर्मपरत्वव्युदासेन प्रयोज्यकर्तृविषयत्वव्यक्त्यर्थंप्रवर्त्यत इत्युक्तम्। व्याख्यातश्लोकद्वयतात्पर्यमाह अत इति।अतः गुणपरतन्त्रतया कर्मयोगमन्तरेण ज्ञानयोगस्य दुस्सम्पादत्वादित्यर्थः। पापनाशाद्गुणवशीकरणम् तच्च मोक्षार्थप्रवृत्त्यनुकूलत्वम्। रजस्तमःप्राचुर्यनिवृत्तिर्वा तत्कार्यरागद्वेषाद्यभावो वा निर्मलत्वमिहाभिप्रेतम्।

Compare this verse →
3.6Krishna

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्। इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥

Commentary · Sanskrit

।।3.6।।अकरणे बाधं वदतीत्याह अन्यथेति। कर्मयोगमकृत्वेत्यर्थः।मनसा स्मरन् इत्यनेनार्थसिद्धं हेतुमाह अविनष्टेति।आत्मविमुखीकृतमना इति।विमूढात्मा इत्यत्रात्मशब्दो मनोविषयः। मूढत्वमात्मवैमुख्यम्। येभ्य एवेन्द्रियाणि निरोद्धुमिष्टानि तानेवेत्येवकारार्थः। मिथ्याचारप्रकारमाह अन्यथा सङ्कल्प्येति। अन्यथाभाव एव ह्यन्ततः सर्वत्र मिथ्यात्वम् तत्रापि सङ्कल्पितज्ञानयोगविपरीताचारतया ज्ञानयोगाभिमतस्तस्याचारो मिथ्येत्युक्तं भवति। मिथ्याचारसंज्ञानमात्रव्युदासेन दोषपर्यवसानमाह आत्मेति। विपरीतविनष्टशब्दाभ्यामुपायवैपरीत्यात् फलवैपरीत्यमिति दर्शितम्। द्वितीयेऽध्यायेध्यायतो विषयान् इत्यारभ्य बुद्धिनाशात्प्रणश्यति 2।6263 इत्यन्तेनास्यैवार्थस्य प्रपञ्चनं कृतमिति विनष्टशब्देन स्मारितम्।

Compare this verse →
3.7Krishna

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन। कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥

Commentary · Sanskrit

।।3.7।।प्रथममेव ज्ञानयोगमारुरुक्षुमपोद्य कर्मयोगिनं प्रशंसति यस्त्विति श्लोकेन। प्रकृतेन सङ्गमयन् व्याख्याति अत इति। इन्द्रियाणां निश्शेषनियमनस्य कर्मयोगारम्भस्य च मिथो विरुद्धत्वादविरोधसिद्ध्यर्थमुक्तं शास्त्रीये कर्मणि नियम्येति।नहि कश्चित् 3।5 इत्यादिना ज्ञानयोगस्य दुष्करत्वे यो हेतुरुक्तः तस्यैव कर्मयोगं प्रत्युपकारकत्वेन सौकर्यप्रतिपादनार्थंपूर्वाभ्यस्तविषयसजातीयेइत्युक्तम्। यदि पूर्वाभ्यास उपकारकत्वेन स्वीक्रियते तर्हि निषिद्धेभ्यो नियमनमशक्यं तेष्वेव वासनायाः प्राचुर्यादिति शङ्कानिरासाय कर्मणः फलान्तरपरित्यागाय चोक्तंआत्मावलोकने प्रवृत्तेनेति।निषिद्धानामात्मावलोकनविरोधित्वाध्यवसायात्तेषु स्थिराऽपि वासना निराक्रियत् इति भावः।कर्मेन्द्रियैः इत्यनेनाभिप्रेतं सौकर्यं विशदयति स्वत एव कर्मप्रवणैरिन्द्रियैरिति। असङ्गस्य कर्मयोगारम्भापेक्षितत्वादसक्तपदस्य यद्वृत्तवाक्यांशेऽन्वयमाह असङ्गपूर्वकमिति। वैशिष्ट्यप्रकारं विशेषस्य चावधिं दर्शयति असम्भाव्यमानप्रमादत्वेन ज्ञाननिष्ठादपीति।

Compare this verse →
3.8Krishna

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥

Commentary · Sanskrit

।।3.8।।अथ सौकर्यनिष्प्रमादत्वदुस्त्यजत्वादिहेतुभिः कर्मयोगस्यैव ज्यायस्त्वं दर्शयन्ज्यायसी चेत्कर्मणः 3।1 इत्यादेः साक्षादुत्तरमाह नियतमित्यादिना। नियतशब्दस्य मन्दप्रयोजनात् क्रियाविशेषणत्वादपि प्रभूतप्रयोजनसमानाधिकरणकर्मविशेषणत्वमेवोचितम्। ततश्च कर्मणो नियतत्वं स्वभावतः शास्त्रतो वा स्यात् उभयतो वा। तत्रैकस्मिन्नुभयविवक्षाक्लृप्तिस्तावद्गरीयसी।शरीरयात्रा इत्यत्र तु शास्त्रीयकर्मणि नियमाभिप्रायो व्याख्यास्यते अतोऽत्र स्वभावतो नियतत्वं विवक्षितम्। ज्ञाननिष्ठाया दुष्करत्वे प्रस्तुते कर्मनिष्ठायां सौकर्यमेव चानन्तरं वक्तुमुचितमित्येतदखिलमभिप्रेत्याह नियतं व्याप्तमित्यादि। केन किन्निबन्धना व्याप्तिः इत्यत्राह प्रकृतिसंसृष्टेनेति।अकर्मणः इतिपदे नञस्तदन्यविषयत्वं विभक्तेश्च पञ्चमीत्वेनावधिविषयत्वं व्यञ्जयति ज्ञाननिष्ठाया अपीति। अत्राकर्मशब्दस्य ज्ञाननिष्ठाविषयत्वं कथम्मा ते सङ्गोऽस्त्वकर्मणि 2।47 इत्यत्र हि स एव कर्माभावविषयतया व्याख्यातः तद्वदत्रापि अनुष्ठानत्यागे प्रसक्ते तस्मादनुष्ठानमेव ज्याय इति वक्तुमुचितमित्यत्राह नैष्कर्म्यमिति। अत्र उपक्रमे कर्मयोगज्ञानयोगयोः तारतम्यमनुयुक्तम् तस्यैव चोत्तरमिह विवक्षितम्। मुमुक्षुसाध्यत्वेन निर्दिष्टस्य नैष्कर्म्यस्य सुषुप्त्यादिसुलभकर्माभावत्वं चायुक्तम् कर्मानारम्भान्नैष्कर्म्यमित्यत्र साध्याविशेषप्रसङ्गाच्च। अतो ज्ञाननिष्ठैवात्राकर्मशब्देनाभिधीयत इत्यर्थः। कर्मनिष्ठाया ज्यायस्त्वे वक्ष्यमाणं हेत्वन्तरमाह कर्मणि क्रियमाणे चेत्यादिना। अनन्तरमेवेत्यासन्नत्वाभिधानेन तस्येहाभिप्रेतत्वं दर्शितम्। ज्ञानयोगशक्तस्यापि कर्मयोगानुष्ठानायाभिप्रायिकमर्थमाह कर्मण इति। इहज्ञाननिष्ठाया इति पञ्चमी अप्रसक्तप्रतियोगिकं ज्यायस्त्ववचनमयुक्तमिति भावः। उत्तरार्धस्यावतारमाह यदीति। अत्र त्वकर्मण इति बहुव्रीहिः।ते इत्यनेन सामानाधिकरण्यादिति व्यञ्जनायअकर्मणस्ते ज्ञाननिष्ठस्येत्युक्तम्। ननु सर्वकर्मपरित्यागिनो यदि शरीरयात्राऽपि न स्यात्ततो लब्धोपायस्य स्वरसतः प्रतिबन्धनिवृत्तेरयत्नलभ्यैव मुक्तिः स्यादित्याशङ्क्याह यावदिति। नहि साधनानुप्रवेशमात्रात् फलसिद्धिः किन्तु साधनसम्पूर्तेरिव सा च न त्रिचतुरदिवसलभ्या येन शरीरमुपेक्षेमहि। चिरकालसाध्यायां च साधनसम्पूर्तौ तावन्तं कालं शरीरमप्यवश्यं रक्षणीयम्। अनिष्पन्नोपायस्यौदासीन्यात् तत्परित्यागे प्रत्यवायोऽपि स्यादिति भावः। अस्तु शरीरधारणमपेक्षितम् तथापि तन्न स्वेच्छया चिरकालं कर्तुं शक्यम् नाप्यौदासीन्यमात्रान्निवृत्तिः आरम्भककर्मविशेषेण शरीरस्य नियतावधिकत्वात् स्मरन्ति च कर्मणां प्रतिनियतानिविवाहो जन्म मरणं इत्यादीनि। अस्तु वा स्वेच्छया शरीरधारणम् तथापि यत्किञ्चिल्लौकिकर्मणैवतत्सुशकमित्यत्राह न्यायार्जितेति।अयमभिप्रायः द्विविधानि कर्मफलानि नियतानि अनियतानि चेति प्रबलशापादिसम्भवानि नियतानि इतराण्यनियतानि। अनियतत्वं च तेषां देशकालाद्यपेक्षया न तु स्वरूपतः येन कर्मणां निष्फलत्वप्रसङ्गः स्यात्। ततश्च यान्यत्रानियतानि तत्र स्वव्यापारविषयता यान्यधिकृत्य प्रायश्चित्तमन्त्रौषधनीतिशास्त्रादीनि। अन्यथा विजिगीषुभिरुपपन्नपरिपन्थिभिरपि न चतुरङ्गादिकमङ्गीक्रियेत आतुरैरपि न भेषजमुपभुज्येत स्वेच्छया किञ्चित्करणाभावे स्वारसिककर्तृत्वाभावाच्छास्त्रस्याप्यनुदयः अत एवंज्ञानयोगमारुरुक्षता त्वया कर्मवश्यत्वमेव जगतो निवर्तितमिति सम्यगयत्नसिद्धो मोक्षः समर्थित इति भावः। एवं शरीरधारणाभावे स्वारसिकं विशरारुत्वं द्योतयति शरीरशब्दः। एवकारेण न्यायार्जनयज्ञशिष्टाशनादेर्नियमविधित्वं द्योतितम्। एवंविधा च शरीरयात्रा ज्ञानयोगसाध्यभक्तियोगदशायामप्यविच्छेद्येत्यभिप्रायेण आहाराशुद्धिश्रुत्युपादानम्। श्रौतस्यार्थस्यात्रापि विवक्षितत्वज्ञापनाय वक्ष्यमाणतामाह ते त्वघमिति। पूर्वोपपादितान् हेतून्बुद्धिस्थक्रमेण विविच्योद्गृह्णन्नाभिप्रायिकं शाब्दं चाखिलमर्थं सुखग्रहणाय सङ्कलय्य दर्शयति यत इति। ज्ञाननिष्ठायोग्यस्यापि कर्मयोगो ज्यायान् तस्मात्त्वं ज्ञानयोगयोग्योऽपि कर्मयोगमधिकुर्विति वा न त्वमिदानीं ज्ञानयोगयोग्यः अतः कैमुत्यात् कर्मयोगमेव कुर्विति वा त्वंशब्दाभिप्रायः।

Compare this verse →
3.9Krishna

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥

Commentary · Sanskrit

।।3.9।।यज्ञार्थात् इति श्लोकः कर्मविधिनिषेधयोर्विषयव्यवस्थापक इति ज्ञापयितुं शङ्कते एवं तर्हीति।द्रव्यार्जनादेरित्यत्रादिशब्देन महायज्ञादिग्रहणम्।ममकारादीत्यत्र तु रागद्वेषाभिनिवेशवचनादानविहरणादिग्रहः। अहङ्कारममकारादेर्मनोवृत्तिविशेषत्वादिन्द्रियव्याकुलतारूपत्वोक्तिः।अस्य पुरुषस्येति मुमुक्षोरपीति भावः।कर्मवासनयेति प्राचीनयाऽनुपरतयाऽद्यतनव्यापाराभ्यासोपबृंहितया चेति भावः।बन्धनं भविष्यतीति उत्तरोत्तरशरीरबन्धादिना संसारानुवृत्तिप्रसङ्ग इत्यर्थः। अत्रयज्ञो वै विष्णुः तै.सं.1।7।4 इति श्रुतेःयज्ञ ईश्वरः इति परैर्व्याख्यातम् तच्चाविरुद्धमस्माकम् तथापि समनन्तरश्लोकपठितयज्ञशब्दैकार्थ्यमुचितमित्यभिप्रायेणाह यज्ञादिशास्त्रीयकर्मेति। यज्ञादीत्यादिशब्देन यज्ञशब्दस्योपलक्ष्यपरत्वं ज्ञाप्यते। शास्त्रीयकर्मशब्देनोपलक्षणोपलक्ष्याणां सामान्यतः सङ्ग्राहकाकारं तदर्थकर्मणो निर्दोषत्वहेतुं च दर्शयति।यज्ञार्थात् यज्ञप्रयोजनात्। तदिदं दर्शितंशेषभूतादिति। कर्मैव बन्धनं कर्मणा वा बन्धनं यस्य स कर्मबन्धनः तस्य च बन्धकत्वं स्ववासनाद्वारा न पुनः पापतया अविहितप्रतिषिद्धविषयत्वादत्र कर्मबन्धनशब्दस्य।अस्य पुरुषस्य कर्मवासनया बन्धनं भविष्यति इति शङ्काग्रन्थेनायमर्थो दर्शितः। लोकोऽत्र संसारिचेतनवर्गः।अत इति। यज्ञार्थस्य कर्मणो बन्धहेतुत्वभावादित्यर्थः। द्रव्यादिलाभहेतुभूतयुद्धप्रोत्साहनव्यक्त्यर्थंद्रव्यार्जनादिकमित्युक्तम्। तादर्थ्यं सङ्गत्यागश्चेत्युभयमपि विधेयमिति ज्ञापनाय पृथग्वाक्यकरणम्।कर्तृत्वफलत्यागयोर्विलक्षणं सङ्गत्यागस्य स्वरूपं दर्शयति तत्रेति। यत्किञ्चित्प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते इति चेत् सत्यं प्रयोजनसाधनत्वबुद्ध्यभावेऽपि सुहृदुपचारवद्भगवत्समाराधनरूपतया स्वरूपेण प्रयोजनत्वबुद्ध्या प्रवृत्त्युपपत्तिः।मुक्तसङ्गं इत्यत्र सङ्गस्य बन्धकत्वविवक्षयासङ्गान्मुक्त इत्युक्तम्। प्रकृतचोद्यस्यादृष्टद्वारा फलप्रदत्वेन परिहारं वदन्नतदर्थस्य बन्धहेतुत्वोक्त्या फलितं तदर्थस्य मोक्षहेतुत्वप्रकारं दर्शयति एवमिति। एतेन कर्मणामप्रामाणिकापूर्वद्वारा फलप्रदत्वमिति कुदृष्टिमतं निरस्तम् आर्थवादिकापेक्षितदेवताप्रीतिद्वारैव फलप्रदत्वोपपत्तौ स एनं प्रीतः प्रीणाति यजुः5।5।10।48 इत्यादिश्रुतहानाश्रुतकल्पनाद्यनुपपत्तेः।कर्मभिराराधित इत्यनेन हविर्ग्रहणं प्रीतिश्चाभिप्रेतेपरमपुरुष इति तदविनाभूतादित्यवर्णादिश्रुतिसिद्धविग्रहविशेषवत्त्वं सर्वब्रह्माण्डयुगपत्कर्मसन्निधिशक्तिश्चददातीति वरप्रदत्वमिति विग्रहादिपञ्चकप्रदर्शनम्।कर्मवासनां समुच्छिद्येति विपरीतवास नाचोद्यं परिहृतम्।

Compare this verse →
3.10Krishna

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥

Commentary · Sanskrit

।।3.10।।उक्तमर्थद्वयंसह यज्ञैः इत्यारभ्यमोघं पार्थ स जीवति 3।16 इत्यन्तेन निन्दाप्रशंसादिभिर्द्रढयतीत्याह यज्ञशिष्टेनैवेति।सर्वपुरुषार्थसाधननिष्ठानामित्यनेनप्रजाः सृष्ट्वा इति सामान्यनिर्देशफलितमुक्तम्। अत्र प्रजापतिशब्दस्य हिरण्यगर्भादिविषयत्वव्युदासायाह पतिं विश्वस्येतीति। हिरण्यगर्भादेरपि न तु हिरण्यगर्भादिवदण्डाद्यवच्छिन्नस्येत्यर्थः। तत एवोक्तंनिरुपाधिक इति। श्रुतार्थस्वभावादपि स एव सर्वप्रजापतिरिति प्रदर्शनायसर्वेश्वरमित्यादिविशेषणोक्तिः।नारायणम् एतदखिलं नारायणशब्दवाच्यस्यैव हि नारायणानुवाकादिषु प्रतिपाद्यत इति भावः। उक्तं च जगत्पतित्वं स्रष्ट्टत्वादिकं च समुच्चित्य भगवता पराशरेणकलौ जगत्पतिं विष्णुं सर्वस्रष्टारमीश्वरम् वि.पु.6।1।50ब्र.पु.च.120।45 इति।अनुमानात्तदुद्धारं कर्तुकामः प्रजापतिः वि.पु.1।4।7 इति च वराहरूपे भगवति प्रजापतिशब्दः तेनप्रजापतिः तै.ना.1।1 इत्यादिश्रुत्यनुसारात्प्रयुक्तः। किञ्च स्वतन्त्रस्य कर्मपरतन्त्रान्प्रति नियोगो ह्ययम्। अतोऽत्रप्रजाः सृष्ट्वा इति प्रजाशब्दः सर्वान् ब्रह्मपर्यन्तान् जगदन्तर्व्यवस्थितान् कर्मजनितसंसारवशवर्तिनो यज्ञाद्यधिकारिणःप्राणिनः सङ्गृह्णाति। अतोऽत्र प्रजापतिशब्द उपक्रमस्थप्रजाशब्दानुरोधात् सङ्कोचेन तद्वैरूप्यायोगाच्च परित्यक्तरूढिरकर्मवश्यं नियोक्तारं सर्वेश्वरं नारायणमाह। तथा सृज्यसमस्तक्षेत्रज्ञविषयो ह्ययमनवच्छिन्नः प्रजाशब्दः।पुरेति प्रलयानन्तरकालाभिधानात्ततश्च सदेव सोम्येदमग्र आसीत् ৷৷. तदैक्षत बहु स्यां प्रजायेयेति छां.उ.6।2।13 सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः छां.उ.6।8।4 एको ह वै नारायण आसीन्न ब्रह्मा नेशानः इत्यारभ्य बुद्बुदात्र्यक्षः शूलपाणिः पुरुषो जायते ৷৷. तत्र ब्रह्मा चतुर्मुखोऽजायत महो.1।1सिसृक्षुर्विविधाः प्रजाः मनुः1।8 इत्यादिषु हिरण्यगर्भादेरपि प्रजात्वावगमान्नारायणस्य च तज्जनकत्वावगतेःप्रजाः सृष्ट्वा इत्यनवच्छेदेन निर्दिष्टो विश्वस्य स्रष्टा नारायण एवेति स एवात्र प्रजापतिः। किञ्च तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ऋक्सं.6।4।18।4यजुस्सं.31।7 सर्वाणि रूपाणि विचित्य धीरः। नामानि कृत्वाऽभिवदन्यदास्ते इति यज्ञैः सह सर्वप्रजानां स्रष्ट्टतया निर्दिष्टोऽप्यधिकारपुरुषस्यापि स्रष्टा सहस्रशीर्षत्वादिविशिष्टः परमपुरुष एव। अतोऽपिसह यज्ञैः प्रजाः सृष्ट्वा इति निर्दिष्टः प्रजापतिः विश्वस्य स्रष्टा स एव। तथासृष्टिं ततः करिष्यामि त्वामाविश्य प्रजापते वि.ध.68।51 इत्यादिवचनबलाद्धिरण्यगर्भाख्यप्रजापतिमुखेनापि विश्वस्रष्टा सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः सु.उ.7 इति श्रुतः स एव विश्वात्मा। किञ्चात्र निर्दिश्यमानं देवानां भावनादिकं परमात्मात्मकानामेवेतिअहं हि सर्वयज्ञानाम् 9।24 इत्यादौ व्यक्तं भविष्यति यस्मिन्निदं सञ्चविचैति श्वे.उ.4।11 प्रजापतिश्चरति गर्भे अन्तः य.सं.31।19तै.ना.6।11 इत्यादिकंविश्वस्य स्रष्टारं विश्वात्मानमिति विशेषणाभ्यां सूचितम्। अतोऽप्यत्र विश्वात्मानं तमेवाह। तथा प्रजापतेः सभां वेश्म प्रपद्ये छां.उ.8।14।1 इत्यत्र परमप्राप्यतया च प्रजापतिशब्दनिर्दिष्टोऽपि परमात्मैवेतिन च कार्ये प्रत्यभिसन्धिः ब्र.सू.4।3।14 इति सूत्रे प्रत्यपादि अतोऽपि परायणं तमेवाह। एवं सर्वेश्वरमित्यादिविशेषणैः तत्तत्प्रमाणसूचनं कृतम्। एवं श्यामैकरूपसप्तदशायातयामाज्यदैवतविष्णुविषयप्रजापतिशब्दश्रुतिरप्यनुसन्धेया।पुराशब्दस्य वचनान्वयं प्रतीतिव्युदासेन ब्रह्माद्यगोचरसृष्ट्यन्वयव्यक्त्यर्थमाह पुरा सर्गकाले इति। श्रुतिस्मृत्यादिषु सृष्टिप्रकरणप्रसिद्धिप्रकारमभिप्रैति स भगवानिति भगवच्छब्देन सृष्ट्यादिपञ्चकृत्योपयुक्तहेयप्रत्यनीककल्याणगुणविशिष्टत्वं दर्शितम्। तथा मानवे धर्मशास्त्रे प्रथमम्आसीदिदं तमोभूतम् 1।5 इति प्रलयमभिधायततः स्वयम्भूर्भगवान् 1।6 इति भगवच्छब्देन सर्वस्रष्टा निर्दिष्टः। अनन्तरं चता यदस्यायनं पूर्वं तेन नारायणः स्मृतः 1।10तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते 1।11 इति हिरण्यगर्भाख्यप्रजापतेः स्रष्टा नारायण इत्युक्तम्।अत्र प्रजापतिरुवाच इति पराक्तया निर्देशस्तु सारथिभूतस्य स्वस्य प्रजापतिशब्दप्रतिपन्नात् स्वस्माद्भेदोपचारेणेति मन्तव्यम्। एवमुत्तरत्रापि सर्वत्र पराक्त्वनिर्देशेषु यथार्हमनुसन्धेयम्।सर्वत्र सृष्टेः संहारपूर्वकत्वदर्शनादत्रापि तथा विवक्षन् संहारस्य प्रयोजनं सृष्टेर्हेतुं चाह अनादीति। अनवरतसुखदुःखोपभोगायासपरिश्रान्तानां विश्रमार्थं अश्रान्तापथप्रवृत्तिवासनाविच्छेदार्थं चोपसंहारः। अतो न संहारे नैर्घृण्यदोषः। तादृशसुखदुःखोपभोगप्रदाने च परमात्मनित्यसङ्कल्पसिद्धजीवस्वातन्त्र्यनिबन्धनानादिकर्मप्रवाहहेतुकाचित्संसर्ग एव हेतुरिति न तत्र वैषम्यनैर्घृण्ये। सूत्रितं चवैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयतिन कर्माविभागात् ब्र.सू.2।1।3435 इति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते चकृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ब्र.सू.2।3।42 इति।उपसंहृतनामरूपविभागाः स्वस्मिन् प्रलीना इति। असद्व्यपदेश एकत्वव्यपदेशादिश्च निर्व्यूढः। नामरूपप्रहाणं स्वस्मिन् प्रलयश्च मोक्षवत्पुरुषार्थ एव स्यादित्याशङ्क्याह सकलेति। त्रिवर्गेऽप्यनर्हाः किं पुनरपवर्ग इति भावः। तत्र हेतुमाह चेतनेतरकल्पा इति। स्वप्रकाशत्वेऽप्यत्यन्तज्ञानसङ्कोचात्तत्कल्पत्वम् न तु ज्ञानविनाशात्।प्रजाः हिरण्यगर्भादिकाः समीक्ष्य सम्यगवलोक्य एतेनजायमानं हि पुरुषं यं पश्येन्मधुसूदनः म.भा.12।348।73नावेक्षसे यदि ततो भुवनान्यमूनि नालं प्रभो भवितुमेव कुतः प्रवृत्तिः। एवं निसर्गसुहृदि त्वयि सर्वजन्तोः स्वामिन्न चित्रमिदमाश्रितवत्सलत्वम् स्तो.र.10।।इत्यादिकमभिप्रेतम्। स एकाकी न रमते महो.1 इति श्रुतेःपरमकारुणिकः किल त्वम् इत्यादिस्मृतिसिद्धगुणविशेषे तात्पर्यमाह परमकारुणिक इति। अवाप्तसमस्तकामस्य जगद्व्यापारानुपपत्तिं परिहरति तदुज्जिजीवयिषयेति। कारुणिका हि स्वार्थनिरपेक्षा एव परोज्जिजीवयिषया प्रवर्तन्ते सैव प्रवृत्तिरस्य लीलाऽपीति न दोष इति भावः। यज्ञैः सहेति निर्देश उज्जीवनोपायविशेषनिष्पत्त्यर्थ इत्यभिप्रायेणाह स्वाराधनेति।यज्ञैरिति वैविध्यसूचनाय बहुवचननिर्देशे पूर्वं कृतेऽपिअनेन इत्येकवचनेन परामर्शो जात्येकत्वपर इत्यभिप्रायेणाह अनेन यज्ञेनेति।सहयज्ञाः इतिशङ्करयादवप्रकाशीयपाठस्त्वप्रासिद्धरनादृतः।प्रसविष्यध्वम् इत्यत्रषूञ् प्राणिप्रसवेषूङ् गर्भविमोचने इतिधातुद्व्येऽपि प्रजननमात्रप्रतीतिः स्यात् न च द्वादशाहादिवत् सर्वेषां यज्ञादीनां प्रजामात्रं फलम्। अतः सन्तत्युपलक्षिता स्वनिष्पाद्या समृद्धिरत्र विवक्षितेत्यभिप्रायेणाह आत्मनो वृद्धिं कुरुध्वमिति। यज्ञसाध्यः कामो निषिद्धेतरधर्माविरुद्धसमस्तकाम्यवर्गः तत्रापि मोक्षतत्साधनोपकारिषु तात्पर्यभूयस्त्वमित्यभिप्रायेण मोक्षतदनुगुणोपादानम्। रुचिवैचित्र्यज्ञापनाय इष्टशब्देन विशेषणम्। मोक्षस्येष्टकामशब्देन सङ्ग्रहायपरमपुरुषार्थलक्षणेत्युक्तम्। अवधीरितस्वर्गाय अर्जुनायोपदेशात्मा फलेषु 2।47श्रेयः परम्

Compare this verse →
3.11Krishna

देवान्भावयतानेन ते देवा भावयन्तु वः। परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥

Commentary · Sanskrit

3.11 इति पूर्वापरानुगुण्याच्चात्र मोक्षार्थतोक्तिर्युक्ता।प्रपूरयितेतिदुह प्रपूरणे इति हि धातुः। ननु प्रपूरणं हि पूरणाभावेऽनुशिष्टं प्रस्थानप्रस्मरणादिष्विवात्रापि प्रशब्दस्याभावविषयत्वात् अत एव हिगां दोग्धि इत्यादिप्रयोगः सत्यम् तथापिगां दोग्धि इत्यत्रापि गोरेव पयोरेचनं न तु पयसः स्वरूपवैकल्यम् तद्वदत्रापि गोस्थानीयाद्यज्ञतः क्षीरस्थानीयाः कामा लभ्यन्ते तैस्तस्य रेचनं स्यात् फलदातुः सकाशात् फलमादाय युष्मभ्यं ददात्वित्यर्थः तेन यज्ञाराधितोऽहं युष्मभ्यं कामान् ददामीत्युक्तं भवति।।।3.11।।यज्ञेनात्मनो वृद्धिः कथम् क्षणिकक्रियारूपश्च यज्ञः कथं कालान्तरभाविफलसाधनम् नान्यः पन्थाः श्वे.उ.3।86।15 इत्यादिना ज्ञानस्यैव मोक्षप्रदत्वे सिद्धे कथं स्वर्गादिसाधनतया निर्दिष्टो यज्ञो मोक्षसाधनम् स्मरन्ति चकर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते। तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः सं.उ.98म.भा.12।241।7 इति तथानैव धर्मी न चाधर्मी ज्ञानं सन्न्यासलक्षणम् ना.प.उ.3 इति च कथं च मोक्षबहिर्भूतानां विचित्रसांसारिककामानां तदनुगुणत्वं इति शङ्कास्तबकमभिप्रेत्याह कथमिति। तत्रदेवान् भावयत इति प्रथमस्योत्तरम् देवताराधनं ह्याराधकस्यातिशय एव अतः स एवात्मनो वृद्धिःयज देवपूजायाम् इति यज्ञपदप्रकृतिं धातुं स्मारयति देवताराधनभूतेनेति। यज्ञस्य मोक्षहेतुत्वानुपपत्तिपरिहारायमदात्मकानिति। परमात्मसमाराधनतया कृतं कर्मैव मोक्षसाधनज्ञानाङ्गतया स्थित्वा मोक्षं साधयतीति प्रागेवोक्तम्।मदात्मकान् इत्यस्यान्तर्यामिब्राह्मणादिसिद्धत्वसूचनायमच्छरीरभूतानित्युक्तम्। यज्ञेन देवानां भावनं हि सन्तोषवत्तया भावनमित्यभिप्रायेणोक्तंआराधयतेति। तदभिप्रायेण च ब्राह्मणं तस्मादितः प्रदानं देवा उपजीवन्ति यजुः3।2।9 इति।मदात्मकान् इत्यस्यात्रानुक्तस्य कथमुपादानं इत्यत्राह अहं हीति। क्षणिकस्य फलप्रदानानुपपत्तिपरिहाररूपं द्वितीयं पादं व्याख्याति यज्ञेनेत्यादिनापुष्णन्त्वित्यन्तेन। प्रस्तुताकारपरामर्शितच्छब्दार्थः यज्ञेनाराधिता इति। देवानां फलप्रदानशक्तिसिद्ध्यर्थं पुनःमदात्मका इत्युक्तम्। एवं च क्षणिकस्यापि देवताप्रीतिरूपापूर्वद्वारा फलसाधनत्वम् महाप्रलये त्विन्द्रादिलयेऽपि परदेवताप्रीतिद्वारा पुनः फलप्रदत्वमुपपन्नमित्युक्तं भवति। चतुर्थशङ्कापरिहारमभिप्रेत्याह स्वाराधनेति। देवैराराधकानां भावनं नामापेक्षितैः पोषणमित्यभिप्रायेणोक्तंपुष्णन्त्विति। उत्तरार्धमुक्तस्यैवार्थस्य मोक्षोपयोगित्वज्ञापकमित्यभिप्रायेणाह एवमिति। स्वर्गादिरूपश्रेयोव्यावृत्त्यर्थं परत्वविशेषणमित्यभिप्रायेणोक्तंमोक्षाख्यमिति।

Compare this verse →
3.12Krishna

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः। तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥

Commentary · Sanskrit

।।3.12।।ते देवा भावयन्तु वः 3।11 इत्युक्तस्य पोषणस्य प्रकारोदेवान् भावयत इत्यस्य व्यतिरेके प्रत्यवायश्चोच्यते इष्टानितिश्लोकेन।इष्टान् इत्यस्यार्थः उत्तरोत्तराराधनापेक्षितानिति। न हि मुमुक्षुभिरुदरपूरणाद्यर्थं भोगा इष्यन्त इति भावः। बहुवचनासङ्कोचमभिप्रेत्योक्तंसर्वानिति।दास्यन्ते इति कर्त्रभिप्रायक्रियाफलात्मनेपदस्वभावानुरोधेन आत्मार्थपाचकानां चोरत्वसिद्ध्यर्थंस्वाराधनार्थतयेत्युक्तम्। ननु किमत्र चोरत्वम् न हि देवानां भोगानसौ गूढं प्रसह्य वा हरति न च तैर्दत्तस्य स्वहस्तागतस्य भोगश्चौर्यम् न हि राजादिसेवकास्तद्दत्तभोगजीविनश्चोरा इति शूलमारोप्यन्ते एवं च सति सर्वेषां यज्ञादिफलभुजामविशेषेण चोरत्वं प्रसज्यत इत्याशङ्क्याह चौर्यं हीति। परबुद्ध्या परप्रयोजनत्वेन कल्पितस्य स्वकीयस्य परानुमत्या स्वप्रयोजनतया परिकल्पितस्यान्यदीयस्य च व्यवच्छेदायअन्यदीय इत्यादिविशेषणद्वयम्। तेन स्वात्मपोषणमिति चौर्यस्य फलम् अन्यदीये स्वकीयताबुद्धिकरणमित्येव लक्षणम्। तत्प्रयोजनतयेत्यन्यदीयत्वफलम् तेन स्वात्मपोषणानौचित्यद्योतनम्। वस्तुशब्देन चोरयितव्यावान्तरभेदविवक्षां द्योतयति।बुद्धिं कृत्वेत्यनेन चौर्यस्य नाधिकव्यापारोऽवश्यापेक्षित इति सूचितम्। बुद्धिपूर्वत्वं च द्योतितम्। एवं च सतियोऽन्यथा सन्तम् म.भा.5।52।35 इत्याद्युक्तात्मचौर्यमपि लक्षितं भवति। भगवदीये तद्गतातिशयाधानेच्छयैव परिकल्पिते प्रत्यगात्मनि स्वातिशयावहस्वतन्त्रत्वाभिमानरूपत्वात्तस्य।नन्वेवमप्यत्रोदाहरणे कथं चोरत्वम् उच्यते देवा हि कर्मभिराराधिता अपि हविर्ग्रहणार्थमेव फलं प्रयच्छन्ति यथा राजानः षड्भागसङ्ग्रहाय स्वाराधकेभ्यः क्षेत्रादिकम् तत्र करप्रदानविमुखाः पुरुषा इव हविरादिकमप्रयच्छन्तो दण्ड्या एव इति। चोरत्वनिर्देशफलितं व्यनक्ति अत इति। चोरत्वादित्यर्थः।परमपुरुषार्थानर्हतेत्यनेन विहितकर्माकरणस्याधिकारित्वनिवृत्तिहेतुत्वमपि ख्यापितम्।भविष्यतीत्यनेन प्रत्यवायस्य देहान्तरभावितया योग्यानुपलम्भबाधाभावः सूचितः।

Compare this verse →
3.13Krishna

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः। भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥

Commentary · Sanskrit

।।3.13।।पुनरुक्तिपरिहारायार्थान्तरपरत्वव्युदासाय चाह तदेव विवृणोतीति। तत्र पूर्वार्धंश्रेयः परमवाप्स्यथ 3।11 इत्यस्य प्रकारकथनम् उत्तरार्धं तुतैर्दत्तान् इत्याद्युक्तचोरत्वप्रपञ्चनरूपम्। यज्ञाकृष्टयष्टव्याद्याकारविशेषकथनम् इन्द्राद्यात्मनेत्यादि। अवधारणेन केवलेन्द्राद्यर्थत्वस्वार्थत्वयोर्व्यवच्छेदः। द्रव्योपादानपचनदशयोरपि परमपुरुषाराधनार्थत्वबुद्धिः कार्येति ज्ञापनायद्रव्याण्युपादायेत्याद्युक्तम्। एतच्चये पचन्ति इत्येतद्व्यतिरेकलब्धम्। केवलेन्द्राद्याराधनस्यापि वस्तुतः परमपुरुषाराधनरूपत्वादत्र तद्व्यच्छेदाय तत्तद्देवतायजनस्य परमपुरुषपर्यन्तत्वसिद्धये चयथावस्थितमित्युक्तम्। यज्ञशिष्टममृताख्यमशितुं शीलं येषां ते यज्ञशिष्टाशिनः। रागप्राप्तशरीरयात्रा यज्ञशिष्टेनैव कार्येति नियमः।सन्तः यज्ञशिष्टाशिन एव वर्तमाना इत्यर्थः। तदेतदुच्यते शरीरयात्रां कुर्वते इति। यद्वासन्तः इति पदमुत्तरार्धस्थपापशब्दप्रतिस्थानीयत्वात् साधुविषयम्। उत्तरार्धवदत्रापि साध्यसाधनांशविभागद्योतनाय यत्तच्छब्दाभ्यां वाक्यभेदकरणम्। तुशब्देन सद्भ्यः पापानां विशेषे बोधिते तेभ्योऽपि सतां विशेषोऽर्थात्सिद्ध इति द्योतनायाहते त्वनादीति। अत्र चुल्ल्यादिपञ्चसूनाकृतपापमात्रस्य व्यवच्छेदार्थं सर्वशब्दबहुवचनाभ्यां प्रदर्शितं किल्बिषानन्त्यं समर्थयितुंअनादिकालोपार्जितैरित्युक्तम्। द्विविधानि किल्बिषाणि प्राप्तिविरोधीनि उपायविरोधीनि चेति। तत्र प्राप्तिविरोधीनि भक्तियोगैकनिवर्त्यानि। तेभ्योऽत्र सर्वशब्दसङ्कोचमभिप्रेत्योक्तंआत्मयाथात्म्यावलोकनविरोधिभिरिति। स्मरन्ति चज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः। यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि म.भा.12।204।8 इति। एतेन विरोधित्वाविशेषात् सांसारिकपुण्यान्यप्यत्र किल्बिषशब्देनोच्यन्ते इत्यपि सूचितम्। पूर्वोत्तराघविघातिनो भक्तियोगाद्विशेषसूचनायउपार्जितेत्युक्तम्।आत्मकारणात् इत्यत्र कारणशब्दः प्रयोजनरूपहेतुत्वपर इति ज्ञापनायोक्तंआत्मार्थतयेति। पचनमात्रस्याघभोजनत्वेन निन्दानुपपत्तेःआत्मकारणात्पचन्ति इत्यनेनार्थसिद्धमुक्तंअश्नन्तीति। पुल्लिङ्गोऽत्र पापशब्दस्तद्गुणसारन्यायात् पापविशिष्टविषय इत्यभिप्रायेणोक्तंपापात्मान इति पापस्वभावा इत्यर्थः। अघशब्दस्यभोज्यनिन्दार्थमौपचारिकत्वद्योतनायाघमेवेत्येवकार उक्तः। उपचारनिमित्तं सम्बन्धमाह अघपरिणामित्वादिति अघहेतुत्वादित्यर्थः। फलितमनिष्टद्वयमाह आत्मावलोकनविमुखा इति। आत्मार्थं पचमानस्य पूर्वकिल्बिषनिवृत्त्यभावादात्मावलोकनवैमुख्यम् उत्तरोत्तरकिल्विषहेतुत्वाच्च पुनर्नरकप्राप्तिरिति केवलाघो भवति केवलादी ऋक्सं.8।6।23।6तै.सं.2।8 इतिवचनाभिप्रेतमाहनरकायैवेति। न पुनरैहिकायोमुष्मिकाय वा सुखायेति भावः।

Compare this verse →
3.14Krishna

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः। यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥

Commentary · Sanskrit

।।3.14।।उक्तस्यैवार्थस्य प्रमाणप्रदर्शनपूर्वकप्रपञ्चनंअन्नाद्भवन्ति इत्यादिना क्रियत इत्यादरार्थत्वादपौनरुक्त्यमित्यभिप्रायेणाह पुनरपीति। यद्यपि लोकदृष्ट्या साक्षाद्यज्ञमूलत्वं दर्शयितुमशक्यम् तथापि शास्त्रदृष्टिसमुच्चितवेषेणैतदुच्यत इत्यदोषः। विभजिष्यते च लोकशास्त्रदृष्ट्योर्विषयांशः। पर्जन्यशब्देनात्र पर्जन्यकार्यं वर्षं लक्ष्यते। अन्नादित्यादौवृष्टेरन्नं ततः प्रजाः मनुः3।76 इत्ययमंशी लोकसिद्धत्वादनुपात्तः।कर्मसमुद्भवः इत्युक्ते पुण्यपापरूपकर्मसमुद्भव इति धीः स्यात् तद्व्युदासायद्रव्यार्जनेत्याद्युक्तम्। अत्र मुख्यार्थसम्भवात् यज्ञशब्देनापूर्वलक्षणां वदन्तो निरस्ता इति भावः। आदिशब्देन द्रव्यस्यार्जितस्य पचनादि गृह्यते।

Compare this verse →
3.15Krishna

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्। तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥

Commentary · Sanskrit

।।3.15।।ननु कर्तृव्यापाररूपस्य कर्मणः कथं ब्रह्मोद्भवत्वम् तद्धि प्रत्यगात्मजन्यं शरीरेन्द्रियादिजन्यमिति वा निर्देष्टुं युक्तम् न च सर्वसाधारणं ब्रह्मणो हेतुत्वमिह विशिष्य निर्देष्टव्यम् ब्रह्मणश्चाक्षरसमुद्भवत्वमनुपपन्नम् ब्रह्मशब्दस्य परमात्मविषयत्वे जीवविषयत्वे वा द्वयोरपि नित्यत्वात् कारणभूतस्य कस्यचिदक्षरस्याभावात् ब्रह्माक्षरशब्दयोर्वेदपरमात्मविषयतयाशङ्करव्याख्याऽपि चक्रत्वासङ्गतायादवप्रकाशाद्युक्तं ब्रह्मशब्दस्य स्फोटादिपरत्वमक्षराणां तद्व्यञ्जकत्वादिकं च तत्तत्प्रक्रियादूषणादेव निरस्तम्।स्फोटत्वं वर्णसंश्रयः इति तु वर्णानां स्वार्थस्फुटीकरणशक्तिपरमित्याद्याशङ्क्याह अत्र चेति। चश्शङ्कानिवृत्तौ।अत्र इत्यनेन ब्रह्मशब्दस्य साक्षात्परमपुरुषे मुख्यत्वेऽपि प्रकरणादिबलात् तस्मादन्यत्र तद्गुणलेशयोगादौपचारिकोऽयमित्यभिप्रेतम्। द्रव्यार्जनादिकर्मणः शरीरिणा साध्यत्वात्तत्र शरीर्यंशस्याक्षरशब्देन विविच्य वक्ष्यमाणत्वात् शरीरांशस्य विवक्षयाऽयं ब्रह्मशब्द इति प्रकृतिपरिणामरूपं शरीरमित्युक्तम्। प्रकृतिपरिणामरूपे शरीरे तद्द्रव्यत्वेन ब्रह्मशब्दनिर्देशाय प्रकृतौ तत्प्रयोगं तावदाह तस्मादेतदिति। एतत् प्रधानाख्यं ब्रह्म कार्याकारेण नामरूपविभागविभक्तं चेतनभोग्यं च जायते इति हि श्रुत्यर्थः। न च तत्र ब्रह्मशब्दः परमात्मविषयः यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतद्ब्रह्म मुं.उ.1।1।9 इति परमात्मनः पृथङ्निर्दिष्टत्वात्। नापि प्रत्यगात्मविषयः नामरूपमन्नं च मुं.उ.1।1।9 इत्यनेन साक्षात्सम्बन्धायोगात् अन्नत्वं चात्यन्तामुखं स्यादिति भावः। योनिशब्दनिर्देशान्ममेति परमात्मनः पृथङ्निर्देशाच्चमम योनिर्महद्ब्रह्म 14।6 इत्यत्र ब्रह्मशब्दस्य प्रकृतिविषयत्वं सिद्धम्।अत इति ब्रह्मशब्दस्य प्रकृतौ प्रयोगाच्छरीरस्य च तत्परिणामरूपत्वाद्द्रव्यार्जनादेः शरीरसाध्यत्वात् परमात्मनश्च जन्यत्वायोगाच्चेत्यर्थः।एवमत्रत्यब्रह्मशब्दस्य शरीरविषयत्वे सिद्धे तदासन्ने प्रत्यगात्मनि अक्षरशब्दो युक्त इत्यभिप्रायेणाह ब्रह्माक्षरसमुद्भवमित्यत्रेति। जीवस्य चाक्षरशब्दवाच्यत्वं क्षरं प्रधानममृताक्षरं हरः श्वे.उ.1।10 कूटस्थोऽक्षरः 15।16 इत्यादिसिद्धम्। नन्वेवमपिब्रह्माक्षरसमुद्भवम् इत्ययुक्तम् स्वशरीरस्य सर्वस्य स्वबुद्धिपूर्वत्वाभावात्। न चात्र चक्रत्वं दृश्यते अन्नप्रभृतिशरीरपर्यन्तस्य कार्यकारणभावेऽपि शरीरहेतोरक्षरस्य अन्नादिजन्यत्वाभावात्। न चअन्नाद्भवन्ति भूतानि 3।14 इति जीवो निर्दिष्टः तत्र भूतशब्दस्यान्नविकारशरीरमात्रविषयत्वात् तत्राह अन्नपानादिनेति।अयमभिप्रायः न तावदिह शरीरमात्रमक्षरजन्यतया निर्दिष्टम् किन्तुकर्म ब्रह्मोद्भवम् इत्यनेन कर्म साधनभूतम् तत्साधनत्वं च शरीरस्य प्रत्यगात्माधिष्ठितस्यैव तस्य चाधिष्ठातृत्वशक्तिरन्नपानादिजनिततृप्तिनिबन्धना। एवं च सति कर्मसाधनत्वविशिष्टं शरीरं प्रत्यगात्माधिष्ठानहेतुकत्वादक्षरसमुद्भवमिति युक्तमेव। चक्रत्वं चोपपन्नम् अक्षरस्यापि शरीराधिष्ठानेऽन्नपानादिसापेक्षत्वात्। न ह्यवश्यमुत्पत्तावेवापेक्षा चक्रत्वे हेतुः यद्वा कर्म जीवाधिष्ठितशरीरजन्यम् जीवाधिष्ठितं शरीरं चान्नजन्यम्अन्नाद्भवन्ति भूतानि इति वचनात्।भूतशब्दश्चात्रभ्रामयन् सर्वभूतानि 18।61 इत्यादाविव सजीवशरीरपरः। अतोऽत्र चक्रत्वमुपपन्नम् इति।इमं च प्रकारमनन्तरं च वक्ष्यति। एवमस्मिन् चक्रेऽनुवर्तनीये पुरुषस्य शास्त्रवश्यस्य कर्तव्यांशनिष्कर्षायोच्यते तस्मादिति। सङ्कुचितस्य शरीरस्य सर्वव्याप्तत्वायोगादक्षरस्य तदाधारस्य च निर्दिष्टत्वात् तदवान्तरभेदसङ्ग्रहपरः सर्वशब्द इत्यभिप्रायेणोक्तंसर्वाधिकारिगतमिति। न केवलं कर्मयोगाधिकारिणः शरीरं यज्ञसापेक्षम् किन्तु ज्ञानयोगाधिकारिणोऽपीत्यर्थः। यज्ञे प्रतिष्ठितमित्यत्राधिकरणत्वाद्ययोगादाह यज्ञमूलमित्यर्थ इति।

Compare this verse →
3.16Krishna

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः। अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥

Commentary · Sanskrit

।।3.16।।प्रवर्तितमित्यस्य प्रवर्तकापेक्षायांसह यज्ञैः 2।10 इत्यादिना प्रकृतोदेवान् भावयत 3।11 इत्यादिना यज्ञेषु प्रजाः प्रवर्तयन् प्रजापतिरेवासौ भवितुमर्हतीत्यभिप्रायेणोक्तं परमपुरुषेणेति। लोकदृष्टिशास्त्रदृष्टिभ्यां सिद्धमन्याशक्यत्वमपरोक्षयतेवोक्तंइदमिति।अन्नात् इत्यादिना पुनरपिअन्नात् इत्यन्तेन चक्रत्वं व्यज्यते। न तावदत्र भूतशब्देन भवनक्रियायोगिमात्रं निर्दिश्यते महदादेः कार्यस्यान्नजन्यत्वाभावात् अत एव न महाभूतानि नापि वेतालादिसहपठितभूतजातिः तत्कथनस्यात्रानुपयुक्तत्वात् अन्नजन्यत्वे विशेषाभावाच्च। नापि शरीरमात्रं केवलस्य शरीरस्यानुत्पत्तेः शरीरलक्षणाक्रान्तस्य सर्वस्यान्नजन्यत्वाभावाच्च नापि केवलजीवः तत्स्वरूपनित्यत्वादेरुक्तत्वात्। अतः परिशेषाद्भूतशब्दोऽत्र जीवविशिष्टाचित्परिणामविशेषपर इत्यभिप्रायेणोक्तंसजीवानि शरीराणीति।कर्म ब्रह्मोद्भवंब्रह्माक्षरसमुद्भवम् इत्याभ्यां फलितं समुच्चित्य चक्रत्वसिद्ध्यर्थं निर्दिशतिकर्म सजीवाच्छरीरादिति।अन्योन्यकार्यकारणभावेनेति यथासम्भवं साक्षात्परम्परया च सिद्धमुक्तम् न हि साक्षात् सर्वेषामन्योन्यकार्यत्वं कारणत्वं वा अन्योन्याश्रयग्रस्तत्वात् यद्वा कस्यचित्कार्यत्वं कस्यचित्कारणत्वं च सङ्कलय्यान्योन्यकार्यकारणभाव उक्तः। चक्रशब्दोपचारनिमित्तं व्यनक्ति चक्रवत्परिवर्तमानमिति।इह लोके वर्तमानो यः पुरुष इति अधिकरणाधिकर्तव्ययोः सामान्यनिर्देशादपि इह साधने वर्तमानो योऽधिकारिविशेष इति विशेषपरामर्श एवोचितः इदं शब्दादेः सन्निहितपरामर्शप्रावण्यात् अनपेक्षिताभिधानादपि अपेक्षिताभिधानौचित्याच्च इतिसाधने वर्तमाने इत्यादेर्भावः। अनुवर्तयतीत्यत्रानुमन्तृत्वादिमात्रव्यवच्छेदार्थं पुरुषव्यापारप्राधान्यद्योतनार्थं चप्रवर्तयतीति व्याख्यातम्। श्लोके चानुशब्दप्रयोगः परमपुरुषप्रवर्तितानुप्रवर्तनरूपत्वात् प्रवाहरूपत्वाद्वा। अघायुरित्यादीनां त्रयाणां पृथक्पृथग्दोषत्वव्यक्त्यर्थं पूर्वपूर्वस्योत्तरोत्तरहेतुत्वज्ञापनार्थं च भवतीति पृथग्वाक्यकरणम्। अघकारणत्वादपकार्यत्वात् उभयसङ्ग्राहकाघसम्बन्धित्वमात्राद्वाऽत्राघशब्देनायुषो लक्षणेत्यभिप्रायेण अघारम्भायैवेत्यादि निर्वाहत्रयमुक्तम् अत एवेति। उक्तप्रकारेणाघायुष्ट्वादेवेत्यर्थः।इन्द्रियारामः इत्यस्याभिप्रेतं व्यवच्छेद्यमाह नात्माराम इति। विशेषणत्वादिसिद्धव्यवच्छेदाभिप्रायसिद्ध्यर्थं समासतदंशयोरर्थमाह इन्द्रियाण्येवेति। इन्द्रियाणां कथमारामत्वमिति शङ्कायांएवं प्रवर्तितम् इत्यादिनाइन्द्रियारामः इत्यन्तेन फलितमाह अयज्ञशिष्टेति।अत इति विषयभोगैकरतित्वादित्यर्थः। स इति निर्देशस्य पूर्वव्याख्यातप्रकारयच्छब्दार्थविषयत्वात्। मोघशब्दस्य निष्फलप्रयत्नताविषयस्य प्रतिहन्तव्यप्रयत्नसाकाङ्क्षत्वाच्चाह ज्ञानयोगादौ यतमानोऽपीति।

Compare this verse →
3.17Krishna

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥

Commentary · Sanskrit

।।3.17।।एवं ज्ञानयोगाद्यधिकारिणोऽपि कर्मकर्तव्यताया उक्तत्वात्तस्मादसक्तः 3।19 इत्यादिना वक्ष्यमाणत्वाच्च तन्मध्येयस्त्वात्मरतिः इत्यादिश्लोकौ न ज्ञानयोगाद्यधिकारिविषयौ किन्तु फलदशाविषयावित्यभिप्रायेणाह असाधनायत्तेति। एतेनअभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत् इत्याद्युक्तसन्न्यासाश्रमिपरत्वेन परव्याख्यानं निरस्तम् तस्यापि हि स्वाश्रमधर्मनिष्ठस्य सर्वकर्मनिवृत्त्यभावात्। वर्णाश्रमविशिष्टस्यैव हि वर्णाश्रमधर्मारम्भः न पुनर्वर्णाश्रमाधीननामरूपविनिर्मुक्तस्येति मुक्तशब्दस्य भावः।यस्त्वितितुशब्दः साधननिष्ठव्यावृत्त्यर्थ इत्यभिप्रायेणज्ञानयोगकर्मयोगसाधननिरपेक्ष इत्युक्तम्। कथं तर्हि साधनाभावे साद्ध्यसिद्धिः इत्यत्राह स्वत एवेति। प्रतिबन्धकं हि तन्निवृत्त्यर्थम् आत्माभिमुखत्वं तु स्वतः प्राप्तमिति भावः। रतिशब्दोऽत्राभिमुख्यविषयः तृप्त्यादेः पृथङ्निर्देशात्।आत्मरतिरेवआत्मन्येव इति पूर्वापरवत्आत्मतृप्तः इत्यत्राप्यवधारणं विवक्षितमित्यभिप्रायेणाह आत्मनैवेति। तृप्तितुष्टिशब्दौ हि पोषकभोग्यजन्यप्रीतिविषयतया प्रसिद्धावित्यभिप्रेत्य तत्तदुचितं व्यवच्छेद्यमाह नान्नपानादिभिरितिनोद्यानेत्यादि च।आत्मरतिः इत्यादेर्व्यवच्छेद्यत्रयं सङ्कलय्य सूचयन्वाक्यार्थमाह धारणेति। आदिशब्देन भोगस्थानादि विवक्षितम् यस्य तु ज्ञानयोगनिष्ठस्यापि धारणादिकमन्नपानादिभिरेव तस्य कर्तव्यं विद्यते एवेति भावः। ननुतस्य कार्यं न विद्यते इत्ययुक्तं मुक्तस्यापि जक्षन् क्रीडन् छां.उ.8।12।3 इत्यादिकार्यश्रवणात्। न चात्र कार्यमिति न तस्य कार्यं करणं च विद्यते श्वे.उ.6।7 इतिवच्छरीरादि निर्दिश्यते तन्निषेधस्येदानीमनुपयुक्तत्वात् तदत्यन्तनिषेधस्य चद्वादशाहवदुभयविधं ब्र.सू.4।3।12इत्यादिसूत्रतद्विषयश्रुतिभिर्विरुद्धत्वादित्याशङ्क्योक्तंआत्मदर्शनाय कर्तव्यं न विद्यते इति।यस्त्वात्मरतिः इत्यादिनाभिप्रेतं हेतुं व्यनक्ति स्वत एवेति।स्वत एव सर्वदा इत्युभाभ्यां उत्पत्त्यर्थं विनाशपरिहारार्थं च साधनापेक्षा नास्तीति ज्ञापितम्।

Compare this verse →
3.18Krishna

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन। न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥

Commentary · Sanskrit

।।3.18।।अर्थशब्दस्यात्र प्रयोजनविषयतां वदन्तस्य कार्यं न विद्यते इत्यनेन पौनरुक्त्यं परिहरति न किञ्चित्प्रयोजनमिति। प्रयोजनाभावात् कर्तव्यं नास्तीत्युक्तं भवति।नाकृतेन इत्यत्रार्थो न निषेध्यः किन्त्वकरणे प्रत्यवाय इत्यभिप्रायेणाह न कश्चिदनर्थ इति। अर्थानर्थौ ह्यात्मदर्शनतदभावौ तत्र पूर्वस्य सिद्धत्वात् न साध्यत्वम् उत्तरस्य चात्यन्तनिवृत्तत्वान्न निवर्तनीयत्वमित्यभिप्रायेणाह असाधनायत्तात्मदर्शनत्वादिति।न चास्य इत्यादिना प्रतिबन्धनिवृत्त्यर्थमपेक्षा नास्तीत्युच्यत इत्यभिप्रायेणाह स्वत एवेत्यादि। अस्येतिशब्द आत्मरतिरित्यादिनिर्दिष्टप्रकारपरामर्शीत्यभिप्रायेणोक्तंसकलाचिद्वस्तुविमुखस्येति। सर्वशब्दस्यात्रासङ्कोचेन सावान्तरभेदसमस्तप्राकृतभोग्यविषयतामाहप्रकृतीत्यादिना सकार्येष्वित्यन्तेन। परिणामशब्देनात्र भूतशब्दस्य भवनक्रियायोगिपरत्वं दर्शितम्।अर्थव्यपाश्रयः इत्यत्रार्थशब्दो भावप्रधान इति व्यनक्ति प्रयोजनतया व्यपाश्रय इति। व्यपाश्रयः स्वीकरणम्। अर्थ एव व्यपाश्रयः स्वीकरणीयमिति वाऽभिप्रेतम्। एतेन प्रयोजननिमित्तो व्यपाश्रय इति परव्याख्या निरस्ता। नचास्येत्यादेर्हेत्वभिप्रायेण वा मुक्त एव हि साधननिरपेक्ष इति श्लोकद्वयार्थनिगमनाभिप्रायेण चोच्यते स हि मुक्त एवेति।

Compare this verse →
3.19Krishna

तस्मादसक्तः सततं कार्यं कर्म समाचर। असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥

Commentary · Sanskrit

।।3.19।।तस्मात् इत्येतत्कर्मणः कर्तव्यतायां पूर्वोक्तसमस्तहेतुपरामर्शीत्यभिप्रायेणाह यस्मादिति।असक्तः कार्यम् इत्युभयमपि कर्मणोऽनुष्ठानप्रकारपरमित्यभिप्रायेणोक्तंअसङ्गपूर्वकं कार्यमित्येवेति। कार्यमित्येव न तु तत्कार्यं स्वर्गाद्यपेक्षयेत्यर्थः।सततं इत्यत्र ज्ञानयोगाधिकारे सत्यपि कर्मयोगस्यैवानुष्ठेयत्वायाह यावदात्मप्राप्तीति। ज्ञानयोगव्यवधानमन्तरेणापि कर्मयोग एवात्मप्राप्तिं साधयतीतिअसक्तो हि इत्यादिनोच्यत इत्यभिप्रायेणाह असक्त इति।कर्माचरन् ৷৷. परमाप्नोतीति। न पुनः कर्माचरणानन्तरमन्यत्कृत्वेत्यर्थः।कर्माचरन् परमाप्नोति इत्युक्ते अर्थसिद्धं कर्मणः साधनत्वं व्यनक्ति कर्मयोगेनैवेति। अत्र प्राप्यतया निर्दिष्टः परो देहातिरिक्तात्मप्रकरणत्वात् प्रकृतेः परो जीव इत्यभिप्रायेणाहआत्मानं प्राप्नोतीत्यर्थ इति।

Compare this verse →
3.20Krishna

कर्मणैव हि संसिद्धिमास्थिता जनकादयः। लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥

Commentary · Sanskrit

।।3.20।।कर्मयोगस्य ज्यायस्त्वं शिष्टानुष्ठानेनोदाह्रियते कर्मणैवेति।हिशब्दसूचितं ज्ञानयोगाधिकारं दर्शयति राजर्षयो ज्ञानिनामग्रेसरा इति। राजानो हि विस्तीर्णागाधमनसः तत्रापि ऋषित्वादतीन्द्रियार्थद्रष्टारः तत्राप्यात्मविदः तत्रापि निसर्गनिगृहीतेन्द्रियत्वात् प्रकृष्टोत्पत्तिकसत्त्वादिना च तेषामग्रगण्या इत्यर्थः।कर्मणैव इत्येवकारो ज्ञानयोगशक्तस्यापि कर्मयोगानुपरतिपरः। संसिद्धिशब्दस्य परमाप्नोतीत्युक्तनिदर्शनपरत्वात्आत्मानं प्राप्तवन्त इत्युक्तम्। एवं च सति कर्मणैवेति पूर्वप्रसक्तज्ञानयोगनैरपेक्ष्यपरमवधारणमप्युपपन्नं भवति। उत्तरसङ्गत्यर्थमुक्तं सङ्ग्रहेणोद्गृह्णाति एवमिति।इदानीं इत्यनेनलोकसङ्ग्रहं इत्यादिकंविद्वान्युक्तः समाचरन् 3।26 इत्यन्तमविच्छिन्नम्।सर्वथेति। लोकरक्षार्थं लोकोपप्लवजनितस्वपापेन ज्ञानयोगादपि प्रच्यावकेनोभयभ्रष्टत्वपरिहारार्थं चेत्यर्थः।लोकसङ्ग्रहमपि इत्यन्वये लोकसङ्ग्रहस्याप्रधानता प्रतीयेत पश्यन्नपीत्युक्ते तु कर्मकर्तव्यतायां पूर्वोक्तहेतुभ्यो लोकसङ्ग्रहस्याधिक्यं द्योत्येतेत्ययमन्वय उक्तः। एवकारो ज्ञानयोगव्यवच्छेदाय कर्तुमेवार्हसीत्यन्वेतव्य इत्यभिप्रायेणोक्तं कर्मैव कर्तुमर्हसीति। यद्वालोकसङ्ग्रहमेव इत्येवकारो लोकसङ्ग्रहस्य नैरपेक्ष्यपरःकर्मैव इति तु प्रकरणापन्नमुक्तम्।अर्हसि इत्यनेन कर्मयोगैकानुष्ठानकारणमर्जुनस्य वैशिष्ट्यं द्योत्यते।श्रेष्ठ इति।प्रशस्यस्य श्रः अष्टा.4।3।60 इत्यनुशासनात्प्रशस्यतम इत्यर्थः। तच्चास्य प्रशस्यतमत्वमनुष्ठातृ़णामनुविधेयानुष्ठानत्वोपयोगीति मत्वातानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् 3।29 इति वक्ष्यमाणं चानुसन्धायकृत्स्नशास्त्रज्ञतयाऽनुष्ठातृतया च प्रथित इत्युक्तम्। अकृत्स्नविदोऽनुष्ठातुः कृत्स्नवित्त्वेऽप्यननुष्ठातुरुभयाकारवत्त्वेऽपि अप्रसिद्धस्यानुविधेयानुष्ठानता नास्तीति तद्व्यवच्छेदाय पदत्रयम्।स यत्प्रमाणं कुरुते इत्यत्रस यच्छास्त्रं प्रमाणीकरोति तदनुवर्तते लोकः इत्यस्मिन्नर्थे तदनुवर्तनस्यतदर्थानुष्ठानरूपत्वादर्थतः पुनरुक्तिः स्यात्। कुरुत इति चैतद्बुध्यत इत्यस्मिन्नर्थे नेतव्यम्।लोकसंग्रहमेवापि सम्पश्यन् कर्तुमर्हसि इति पूर्ववाक्ये चकर्तुमर्हसि इत्येतावन्मात्रमुक्तम् श्रुतिस्मृत्यादिकमपि प्रमाणीकर्तुमर्हसीत्यनुपन्यस्तम् येन तदर्थमिदमुच्येतयद्यदाचरति इत्यङ्गिन्यनुष्ठेयस्वरूपे निर्दिष्टे तत्प्रकारे त्वपेक्षिते बुभुत्सा जायते अतस्तदभिधानमेवोचितमित्यभिप्रायेणयत्प्रमाणं यदङ्गयुक्तमित्युक्तम्। प्रमाणशब्दोऽत्रावधिपरः अनुष्ठेयकर्मस्वरूपस्य चावधिरङ्गान्येव अत एव हि विध्यन्तशब्देनेतिकर्तव्यतामुपचरन्ति। यत्प्रमाणंयथाभूतमितियादवप्रकाशभाष्यमप्येतत्परमेव। अस्मिन्नर्थेकुरुते इतिशब्दस्वारस्यप्रदर्शनायअनुतिष्ठतीत्युक्तम्। अन्यथाऽर्थान्तरे लक्षणा स्यादिति भावः। यत्प्रमाणमिति निर्दिष्टविशिष्टसिद्ध्यर्थं तच्छब्दार्थमाहतदङ्गयुक्तमिति। ननु यच्छब्देनाङ्गे निर्दिष्टे कथं तच्छब्देनाङ्गविशिष्टपरामर्शः इत्थं यदङ्गयुक्तमनुतिष्ठति तदाचरतीत्युक्ते तदङ्गमाचरतीत्येव शब्दवृत्तिः। अङ्गस्य चाङ्गिपृथग्भावायोगात् अर्थतस्तदङ्गविशिष्टमिति सिद्धम्। आभिप्रायिकौ करणाकरणयोरर्थानर्थौ प्रकाशयति अत इति। लोकानुविधेयानुष्ठानत्वादित्यर्थः।सर्वदेति यावदात्मप्राप्तीत्यर्थः। ननु स्वयं यदि ज्ञानयोगेन मुक्तो भवति किमस्य लोकेन सङ्गृहीतेनासङ्गृहीतेन वा इत्यत्राह अन्यथेति ज्ञानयोगाधिकार्यहमिति कृत्वा कर्मयोगपरित्यागे सतीत्यर्थः।ज्ञानयोगादपि इत्यपिशब्द उभयभ्रष्टतां द्योतयति।

Compare this verse →
3.21Krishna

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥

Commentary · Sanskrit

।। 3.21 कर्मयोगस्य ज्यायस्त्वं शिष्टानुष्ठानेनोदाह्रियते कर्मणैवेति।हिशब्दसूचितं ज्ञानयोगाधिकारं दर्शयति राजर्षयो ज्ञानिनामग्रेसरा इति। राजानो हि विस्तीर्णागाधमनसः तत्रापि ऋषित्वादतीन्द्रियार्थद्रष्टारः तत्राप्यात्मविदः तत्रापि निसर्गनिगृहीतेन्द्रियत्वात् प्रकृष्टोत्पत्तिकसत्त्वादिना च तेषामग्रगण्या इत्यर्थः।कर्मणैव इत्येवकारो ज्ञानयोगशक्तस्यापि कर्मयोगानुपरतिपरः। संसिद्धिशब्दस्य परमाप्नोतीत्युक्तनिदर्शनपरत्वात्आत्मानं प्राप्तवन्त इत्युक्तम्। एवं च सति कर्मणैवेति पूर्वप्रसक्तज्ञानयोगनैरपेक्ष्यपरमवधारणमप्युपपन्नं भवति। उत्तरसङ्गत्यर्थमुक्तं सङ्ग्रहेणोद्गृह्णाति एवमिति।इदानीं इत्यनेनलोकसङ्ग्रहं इत्यादिकंविद्वान्युक्तः समाचरन् 3।26 इत्यन्तमविच्छिन्नम्।सर्वथेति। लोकरक्षार्थं लोकोपप्लवजनितस्वपापेन ज्ञानयोगादपि प्रच्यावकेनोभयभ्रष्टत्वपरिहारार्थं चेत्यर्थः।लोकसङ्ग्रहमपि इत्यन्वये लोकसङ्ग्रहस्याप्रधानता प्रतीयेत पश्यन्नपीत्युक्ते तु कर्मकर्तव्यतायां पूर्वोक्तहेतुभ्यो लोकसङ्ग्रहस्याधिक्यं द्योत्येतेत्ययमन्वय उक्तः। एवकारो ज्ञानयोगव्यवच्छेदाय कर्तुमेवार्हसीत्यन्वेतव्य इत्यभिप्रायेणोक्तं कर्मैव कर्तुमर्हसीति। यद्वालोकसङ्ग्रहमेव इत्येवकारो लोकसङ्ग्रहस्य नैरपेक्ष्यपरःकर्मैव इति तु प्रकरणापन्नमुक्तम्।अर्हसि इत्यनेन कर्मयोगैकानुष्ठानकारणमर्जुनस्य वैशिष्ट्यं द्योत्यते।श्रेष्ठ इति।प्रशस्यस्य श्रः अष्टा.4।3।60 इत्यनुशासनात्प्रशस्यतम इत्यर्थः। तच्चास्य प्रशस्यतमत्वमनुष्ठातृ़णामनुविधेयानुष्ठानत्वोपयोगीति मत्वातानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् 3।29 इति वक्ष्यमाणं चानुसन्धायकृत्स्नशास्त्रज्ञतयाऽनुष्ठातृतया च प्रथित इत्युक्तम्। अकृत्स्नविदोऽनुष्ठातुः कृत्स्नवित्त्वेऽप्यननुष्ठातुरुभयाकारवत्त्वेऽपि अप्रसिद्धस्यानुविधेयानुष्ठानता नास्तीति तद्व्यवच्छेदाय पदत्रयम्।स यत्प्रमाणं कुरुते इत्यत्रस यच्छास्त्रं प्रमाणीकरोति तदनुवर्तते लोकः इत्यस्मिन्नर्थे तदनुवर्तनस्य तदर्थानुष्ठानरूपत्वादर्थतः पुनरुक्तिः स्यात्। कुरुत इति चैतद्बुध्यत इत्यस्मिन्नर्थे नेतव्यम्।लोकसंग्रहमेवापि सम्पश्यन् कर्तुमर्हसि इति पूर्ववाक्ये चकर्तुमर्हसि इत्येतावन्मात्रमुक्तम् श्रुतिस्मृत्यादिकमपि प्रमाणीकर्तुमर्हसीत्यनुपन्यस्तम् येन तदर्थमिदमुच्येतयद्यदाचरति इत्यङ्गिन्यनुष्ठेयस्वरूपे निर्दिष्टे तत्प्रकारे त्वपेक्षिते बुभुत्सा जायते अतस्तदभिधानमेवोचितमित्यभिप्रायेणयत्प्रमाणं यदङ्गयुक्तमित्युक्तम्। प्रमाणशब्दोऽत्रावधिपरः अनुष्ठेयकर्मस्वरूपस्य चावधिरङ्गान्येव अत एव हि विध्यन्तशब्देनेतिकर्तव्यतामुपचरन्ति। यत्प्रमाणंयथाभूतमितियादवप्रकाशभाष्यमप्येतत्परमेव। अस्मिन्नर्थेकुरुते इतिशब्दस्वारस्यप्रदर्शनायअनुतिष्ठतीत्युक्तम्। अन्यथाऽर्थान्तरे लक्षणा स्यादिति भावः। यत्प्रमाणमिति निर्दिष्टविशिष्टसिद्ध्यर्थं तच्छब्दार्थमाहतदङ्गयुक्तमिति। ननु यच्छब्देनाङ्गे निर्दिष्टे कथं तच्छब्देनाङ्गविशिष्टपरामर्शः इत्थं यदङ्गयुक्तमनुतिष्ठति तदाचरतीत्युक्ते तदङ्गमाचरतीत्येव शब्दवृत्तिः। अङ्गस्य चाङ्गिपृथग्भावायोगात् अर्थतस्तदङ्गविशिष्टमिति सिद्धम्। आभिप्रायिकौ करणाकरणयोरर्थानर्थौ प्रकाशयति अत इति। लोकानुविधेयानुष्ठानत्वादित्यर्थः।सर्वदेति यावदात्मप्राप्तीत्यर्थः। ननु स्वयं यदि ज्ञानयोगेन मुक्तो भवति किमस्य लोकेन सङ्गृहीतेनासङ्गृहीतेन वा इत्यत्राह अन्यथेति ज्ञानयोगाधिकार्यहमिति कृत्वा कर्मयोगपरित्यागे सतीत्यर्थः।ज्ञानयोगादपि इत्यपिशब्द उभयभ्रष्टतां द्योतयति।

Compare this verse →
3.22Krishna

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन। नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥

Commentary · Sanskrit

।।3.22।।मयाऽपि हि निरपेक्षेणैव लोकक्षोभे निष्प्रत्यवायेनापि परमकारुणिकतया लोकरक्षार्थं कर्मैव क्रियते त्वया तु सापेक्षेण सप्रत्यवायेन किम्पुनरित्युच्यतेन मे पार्थ इत्यादिश्लोकत्रयेण।मे इति पदेन कर्मवश्यचेतनान्तरव्यावृत्तो यथावस्थितो हीश्वरः परामृश्यत इत्यभिप्रायेण विलक्षणनित्यसिद्धविभूतिगुणपौष्कल्यस्य व्यञ्जनानि सर्वेश्वरस्येत्यादिविशेषणान्युक्तानि सर्वेश्वरस्येति। श्रुतिस्मृती हि ममैवाज्ञा सा चान्यैरनुवर्तनीया न हि मे नियन्त्रन्तरमस्ति यदधीनप्रत्यवायभयात् कुर्यामिति भावःअवाप्तसमस्तकामस्येति। न च मे सङ्कल्पमात्रादसाध्यमितः पूर्वमभिलाषदशामात्रापन्नं प्रयोजनमस्ति यदुपायतया कर्म कर्तव्यमिति भावः।सर्वज्ञस्य सत्यसङ्कल्पस्येति। नापि मे कर्मवश्यानां देवमनुष्यतिरश्चां सजातीयतयाऽवतीर्णस्यापि तेषामिव ज्ञानसङ्कोच इच्छाप्रतिघातो वाऽस्ति यन्निवृत्त्यर्थं कर्म कार्यमित्याशयः।त्रिषु लोकेषु इत्यत्रार्थसिद्धं विशेषमध्याहृत्याह देवमनुष्येति। उक्तं च भगवता पराशरेणसमस्तशक्तिरूपाणि तत्करोति जनेश्वरः। देवतिर्यङ्मनुष्याख्या चेष्टावन्ति स्वलीलया।।जगतामुपकाराय न सा कर्मनिमित्तजा। चेष्टा तस्याप्रमेयस्य व्यापिन्य व्याहतात्मिका वि.पु.6।7।7172 इति।नानवाप्तमवाप्तव्यम् इत्येतत्कर्तव्याभावेऽपेक्षितहेतुपरतया व्याख्याति यत इति। उत्तरश्लोकपर्यालोचनसिद्धं प्रयोजनमाह अथापि लोकरक्षायै इति।अथापि इति चकारस्यार्थः कर्मणि वर्त एवेत्युक्ते न कदाचिदपि कर्मणो विरम्य ज्ञानयोगमनुतिष्ठामीति फलितं तद्व्यञ्जनायोक्तं कर्मण्येव वर्ते इति। यद्वा प्रकरणौचित्यादेवकारोऽत्र भिन्नक्रमः।

Compare this verse →
3.23Krishna

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥

Commentary · Sanskrit

।।3.23।।कर्तव्यप्रयोजनयोरभावे किमर्थं तर्हि कर्म क्रियते इति शङ्कायामुच्यतेयदि ह्यहं इति पूर्वश्लोकःत्रिषु लोकेषु इति निर्देशात् सर्वावतारपरः अयं तुमनुष्याः इति दर्शनात् कृष्णावतारासाधारणःतस्मादहं इति निर्देशस्येश्वरस्वभावसमुच्चितकृष्णावतारासाधारणाकारविषयतामाह अहं सर्वेश्वर इत्यादिभिः।सर्वेश्वरः सत्यसङ्कल्प इति। पूर्ववदाप्तकामत्वाविरोधायोच्यते स्वसङ्कल्पकृतेति। स्वसङ्कल्पमात्रेण सर्वं नियन्तुं शक्तोऽपि ज्ञानप्रदानादिद्वारा प्रवर्तनार्थंजगदुपकृतिमर्त्यो जातोऽपीत्युक्तं अन्यथा भूतावेशन्यायेन प्रवर्तितानां शास्त्रवश्यताभावात् तत्तदनुष्ठानधीनं फलं न स्यात्छन्दतः सम्प्रवर्तते इत्याद्यनुसारेणाह स्वच्छन्दत इति न तु कर्मणेत्यर्थः। कर्मफलभोक्तृत्वं व्युदस्यताजगदुपकृतिमर्त्यः इत्यनेनजगदुपकृतिमर्त्यं को विजेतुं समर्थः वि.पु.5।30।80 इति पुराणोक्तिः स्मारिता। अपिशब्देनाकर्मवश्यावतारोऽपीत्यभिप्रेतम्। अजायमानो बहुधा विजायते यजुस्सं.31।19तै.आ.3।13नाकारणात्कारणाद्वा वि.पु.5।1इच्छागृहीताभिमतोरुदेहः वि.पु.6।5।84 इत्यादिकमत्रानुसंहितम्। अनुविधेयानुष्ठानत्वसिद्ध्यर्थंहिशब्दद्योतितप्रसिद्धिप्रकारविवरणार्थं चोक्तंमनुष्येष्वित्यादि। नन्वयमीश्वरः कस्मिन् कर्मणि वर्तेत न ह्यस्य परमार्थतो वर्णाश्रमाः सामान्यधर्मयोग्यं मनुष्यत्वादिकं वाऽस्ति येनाकर्मवश्य इच्छया कर्म कुर्वाणोऽपि तत्तदुचितं कर्मोपाददीत इति शङ्कायांकुलोचितमिति क्षात्त्रं धर्मं स्वं बहु मन्यते इत्याद्यनुसारेणाह तत्कुलोचितइति।अयं भावः सत्यमस्य परमार्थतो वर्णाश्रमादिकं नास्ति तथापि तत्तदुचितकर्मकरणायाप्राकृतमेव विग्रहं तत्तज्जातीयसन्निवेशं परिणमयति तत्र तत्तज्जातीयत्वबुद्ध्या पुरुषाणामनुविधेयानुष्ठानत्वं स्यात् इति।अतन्द्रितः अनुदासीनः।सर्वदेति जातुशब्दार्थः जात्वपीति हि तदभिप्रायः। अनुविधेयत्वोपयुक्तप्रकारविवक्षांमम इत्यत्रापि दर्शयति मम शिष्टेति।सर्वशः इति प्रमाणपौष्कल्यपरं सेतिकर्तव्यताकत्वपरं वा इत्यभिप्रायेणाह सर्वप्रकारेणेति।अनुवर्तन्ते अनुवर्तेरन्नित्यर्थः प्रसङ्गरूपस्यापि सिद्धवत्काराभिप्रायेण वर्तमानव्यपदेशः। वक्ष्यमाणप्रसङ्गार्थं मनुष्याणां पूर्वसिद्धस्वानुवृत्तिमात्राभिप्रायेण वाऽनिष्टप्रसङ्गपरत्वायाह ते चेति।

Compare this verse →
3.24Krishna

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्। सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥

Commentary · Sanskrit

।।3.24।।शास्त्रमेवानुसृत्य तवाकरणं नाद्रियेरन्नित्यत्राह उत्सीदेयुरिति। लोकशब्दस्याचारपरजनविषयतामौचित्यसिद्धामभिप्रेत्योक्तंशिष्टलोका इति।इमे इतीदंशब्दबहुवचनयोः सामर्थ्यात् सर्व इत्युक्तम्। सर्वेषां शास्त्रार्थानां सर्वैर्निश्चेतुमशक्यत्वाच्छिष्टाचारदत्तदृष्टीनामुक्ताया अनुवृत्तेः प्रकारमालोच्योक्तंमदाचारेत्यादि। विशरणाद्यर्थासम्भवात्पुरुषार्थहानापुरुषार्थप्राप्तिरूपो नाश इहोत्साद इत्याह नष्टा भवेयुरिति।असन्नेव तै.आ.6 इत्यादिवदेतत्। अकरणस्योत्सादहेतुत्वेऽवान्तरव्यापारः सङ्करः स च ब्राह्मणादिधर्मस्य युद्धनिवृत्त्यादेः क्षत्ित्रयादिभिरनुष्ठानम्। उपहतिः पश्चादपि कर्मानर्हता। स्वात्मनि दृष्टान्तभूते दर्शितमर्थं दार्ष्टान्तिकेऽभिप्रेतं व्यञ्जयति एवमेव त्वमिति।न मे पार्थास्ति 3।22 इति पार्थशब्दसम्बुद्ध्यभिप्रेतमनुविधेयत्वोपयोग्याकारत्रयमाहशिष्टेति। युधिष्ठिरशब्दोपादानं युद्धप्रोत्साहनाय रणयज्ञाख्यक्षत्रेधर्मनिष्ठताद्योतनार्थम् किं तव पित्रादिप्रतिसम्बन्ध्यन्तरेण स्वयमेव हि शिष्टजनाग्रेसरतयोर्वशीविराटतनयादिवृत्तान्तैः प्रसिद्धस्त्वमित्यभिप्रायेणाह अर्जुनः सन्निति। धर्मो हि शिष्टेनानुष्ठेयः ज्ञानयोगश्च परमधर्मः ततश्च तदनुवर्तनं लोकस्य मोक्षायैव स्यादिति लोकरक्षैव भवेदिति शङ्कायामुक्तंस्वाधिकारमजानन्त इति। तदनधिकारिणां तत्रानुप्रवेशेनोभयभ्रष्टता स्यादिति भावः।लोकसङग्रहं 3।20 इत्यादिनोक्तमुपसंहरति अत इति।

Compare this verse →
3.25Krishna

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत। कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥

Commentary · Sanskrit

।।3.25।।लोकस्य कर्मयोगज्ञानयोगयोरधिकारानधिकारप्रकारः विदुषस्तु स्वाधिकारतिस्कारेण तदधिकारानुरूपाचरणं लोकसङ्ग्रहप्रकारश्चोच्यते सक्ता इत्यादिश्लोकद्वयेन। अवेदनं प्रस्तुतविषयमिति ज्ञापनायोक्तंआत्मन्यकृत्स्नविद इति। एवमुत्तरत्रविद्वानज्ञानां इति शब्दयोरपि द्रष्टव्यम्। अत्यन्तानात्मज्ञताव्युदासायाकृत्स्नशब्दः। पूर्वोक्तं प्रकृतिसम्बन्धेन कर्मणोऽवर्जनीयत्वंसक्ताः इत्यनेन विवक्षितमित्यभिप्रायेणाह कर्मण्यवर्जनीयसम्बन्धा इति। अविद्वांसः कर्मणि सक्ता इत्युभयं न सांसारिककर्मतत्परपुरुषविषयम् तथा सति कर्मयोगमपि परित्यज्य सांसारिककर्माण्येव विदुषाऽप्यनुष्ठेयानि स्युः तस्माज्ज्ञानयोगानधिकारः कर्मयोगाधिकारश्च ताभ्यां सूच्यत इत्यभिप्रायेणआत्मन्यकृत्स्नवित्तयेत्यादिकमुक्तम्। एवमुत्तरत्रअज्ञानां कर्मसङ्गिनाम् 3।26 इत्यत्रापि ग्राह्यम् यथा कुर्वन्ति तथा कुर्यादित्येतदपि न केवलं दृष्टान्तदार्ष्टान्तिकविषयम् अपितु येन प्रकारेण स्वानुष्ठानं दृष्ट्वाऽन्ये कर्म कुर्युः तेन प्रकारेण विद्वानाचरेदित्येतदभिप्रायं तथासति हिचिकीर्षुर्लोकसङ्ग्रहम् इत्यपि सङ्गतं भवतीत्यभिप्रयन्वाक्यार्थमाह आत्मनीत्यादिना कुर्यादित्यन्तेन।विद्वान्असक्तः इत्युभाभ्यां फलितमुक्तं ज्ञानयोगाधिकारयोग्योऽपीति। संग्रहशब्देन लोकरञ्जनादिभ्रमव्युदासायाहधर्मनिश्चयमिति।

Compare this verse →
3.26Krishna

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्। जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥

Commentary · Sanskrit

।।3.26।।लोकस्य सङ्ग्रहणमेकीकृत्य स्वीकरणं स्वानुष्ठाने समानाभिप्रायतया सयूथ्यतापादनमित्यर्थः। कर्मवासना उत्तरोत्तरपुण्यपापारम्भकपूर्वपूर्वपुण्यपापांशविशेषः उत्तरोत्तरशरीरप्रेरणसमर्थस्मृतिहेतुः पूर्वपूर्वशरीरप्रेरणानुभवविशेषजनितसंस्कारो वा वादित्रवादनादिसंस्कारवत्। बुद्धिभेदो बुद्धेरन्यथाकरणम् तच्च प्रकृतविषयं दर्शयति कर्मयोगादन्यदित्यादिना।युक्तः इत्यनेन लोकसङ्ग्रहार्थं कुर्वतः स्वापेक्षितविलम्बाभावाय प्रागुक्तनिरपेक्षत्वबुद्धियोगो विवक्षित इतिबुद्ध्या युक्त इत्युक्तम्।जोषयेत् इत्यस्यार्थ प्रीतिं जनयेदिति।जुषी प्रीतिसेवनयोः इति धातुः। कर्मसङ्गिनः पुरुषान् सर्वकर्माणि जोषयेदित्यन्वयः।।प्रकृतेः इत्यादिश्लोकचतुष्टयस्यार्थमाह कर्मयोगमिति।विदुषोऽविदुषश्चेति व्युत्क्रमेण श्लोकद्वयार्थः। तृतीये त्वेतद्विशदीकरणमुखेनाविचालनमुक्तम्।कर्मयोगापेक्षितंकर्मयोगेति कर्तव्यताभूतमित्यर्थः।प्रकृतेर्गुणैः इत्युक्ते प्रसिद्धिप्रकर्षादिसिद्धं विशेषं प्रस्तुतानुपयुक्तशब्दादिप्राकृतगुणव्यवच्छेदायाहसत्त्वादिभिरिति। वक्ष्यमाणसात्विकादिकर्मविभागंसर्वशः इति प्रकारवाचिपदसूचितमाह स्वानुरूपमिति।कर्ता इति तृजन्तयोगात् षष्ठीप्राप्तिः स्यादिति तत्परिहाराय कर्मसु कर्तृत्वाहन्त्वोक्तिभ्रमव्युदासाय चकर्माणि प्रतीत्युक्तम्। तृन्नन्तत्वविवक्षायां त्वियं फलितोक्तिः।अहङ्कारविमूढात्मेति समानांशत्रयस्य बह्वर्थपरस्य अत्रार्थं विवक्षन् विगृह्णातिअहङ्कारेणेति। नात्राहम्भावमात्रमुच्यते तस्यात्मस्वभावान्तर्गतत्वात् नापि अहङ्काराख्यमचिद्द्रव्यं तस्यापि देहात्मभ्रमं द्वारीकृत्य कार्यकरत्वे सति अव्यवहितस्यैव वक्तुमुचितत्वात् नापि गर्वः उत्कृष्टपरिभवादिहेतुत्वेनानिर्देशात्। अतोऽहङ्कार इति देहात्मभ्रम एवात्र विवक्षित इत्यभिप्रायेणाह अहङ्कारो नाम अनहमर्थे प्रकृतावहमभिमान इति। एतेनाहङ्कारशब्दस्याभूततद्भावे च्विप्रत्ययेन व्युप्तत्तिर्दर्शिता।अज्ञातात्मस्वरूप इति। विमूढ आत्मा स्वरूपं यस्य स विमूढात्मादिशो विमुह्येयुः इतिवद्विमूढशब्दोऽत्र मोहविषयसमानाधिकरण इति भावः।गुणकर्मविभागयोः इत्यत्र उपसर्जनान्वयिषष्ठीत्वादपि विषयसप्तमीत्वमुचितमिति मत्वोक्तं सत्त्वादिगुणविभागे तत्तत्कर्मविभागे चेति। विभागशब्दो द्वन्द्वात्परत्वात् प्रत्येकमन्वितः। गुणानां साक्षाद्गुणेषु वृत्त्यभावात् परोक्तप्रक्रिययेन्द्रियतद्विषयादिविवक्षायां पदद्वयोपचारात् सप्तम्यन्तो गुणशब्दो गुणकार्येष्वौपचारिक इत्यभिप्रायेणोक्तंस्वगुणेषु स्वेषु कार्येष्विति। गुणकार्याणि च विभजिष्यन्ते। यद्वा कारणस्य प्राधान्यात्कार्यस्य च तदपेक्षया गुणत्वादेवमुक्तम्।

Compare this verse →
3.27Krishna

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥

Commentary · Sanskrit

।। 3.27 लोकस्य सङ्ग्रहणमेकीकृत्य स्वीकरणं स्वानुष्ठाने समानाभिप्रायतया सयूथ्यतापादनमित्यर्थः। कर्मवासना उत्तरोत्तरपुण्यपापारम्भकपूर्वपूर्वपुण्यपापांशविशेषः उत्तरोत्तरशरीरप्रेरणसमर्थस्मृतिहेतुः पूर्वपूर्वशरीरप्रेरणानुभवविशेषजनितसंस्कारो वा वादित्रवादनादिसंस्कारवत्। बुद्धिभेदो बुद्धेरन्यथाकरणम् तच्च प्रकृतविषयं दर्शयति कर्मयोगादन्यदित्यादिना।युक्तः इत्यनेन लोकसङ्ग्रहार्थं कुर्वतः स्वापेक्षितविलम्बाभावाय प्रागुक्तनिरपेक्षत्वबुद्धियोगो विवक्षित इतिबुद्ध्या युक्त इत्युक्तम्।जोषयेत् इत्यस्यार्थ प्रीतिं जनयेदिति।जुषी प्रीतिसेवनयोः इति धातुः। कर्मसङ्गिनः पुरुषान् सर्वकर्माणि जोषयेदित्यन्वयः।।प्रकृतेः इत्यादिश्लोकचतुष्टयस्यार्थमाह कर्मयोगमिति।विदुषोऽविदुषश्चेति व्युत्क्रमेण श्लोकद्वयार्थः। तृतीये त्वेतद्विशदीकरणमुखेनाविचालनमुक्तम्।कर्मयोगापेक्षितं कर्मयोगेति कर्तव्यताभूतमित्यर्थः।प्रकृतेर्गुणैः इत्युक्ते प्रसिद्धिप्रकर्षादिसिद्धं विशेषं प्रस्तुतानुपयुक्तशब्दादिप्राकृतगुणव्यवच्छेदायाहसत्त्वादिभिरिति। वक्ष्यमाणसात्विकादिकर्मविभागंसर्वशः इति प्रकारवाचिपदसूचितमाह स्वानुरूपमिति।कर्ता इति तृजन्तयोगात् षष्ठीप्राप्तिः स्यादिति तत्परिहाराय कर्मसु कर्तृत्वाहन्त्वोक्तिभ्रमव्युदासाय चकर्माणि प्रतीत्युक्तम्। तृन्नन्तत्वविवक्षायां त्वियं फलितोक्तिः।अहङ्कारविमूढात्मेति समानांशत्रयस्य बह्वर्थपरस्य अत्रार्थं विवक्षन् विगृह्णातिअहङ्कारेणेति। नात्राहम्भावमात्रमुच्यते तस्यात्मस्वभावान्तर्गतत्वात् नापि अहङ्काराख्यमचिद्द्रव्यं तस्यापि देहात्मभ्रमं द्वारीकृत्य कार्यकरत्वे सति अव्यवहितस्यैव वक्तुमुचितत्वात् नापि गर्वः उत्कृष्टपरिभवादिहेतुत्वेनानिर्देशात्। अतोऽहङ्कार इति देहात्मभ्रम एवात्र विवक्षित इत्यभिप्रायेणाह अहङ्कारो नाम अनहमर्थे प्रकृतावहमभिमान इति। एतेनाहङ्कारशब्दस्याभूततद्भावे च्विप्रत्ययेन व्युप्तत्तिर्दर्शिता।अज्ञातात्मस्वरूप इति। विमूढ आत्मा स्वरूपं यस्य स विमूढात्मादिशो विमुह्येयुः इतिवद्विमूढशब्दोऽत्र मोहविषयसमानाधिकरण इति भावः।गुणकर्मविभागयोः इत्यत्र उपसर्जनान्वयिषष्ठीत्वादपि विषयसप्तमीत्वमुचितमिति मत्वोक्तं सत्त्वादिगुणविभागे तत्तत्कर्मविभागे चेति। विभागशब्दो द्वन्द्वात्परत्वात् प्रत्येकमन्वितः। गुणानां साक्षाद्गुणेषु वृत्त्यभावात् परोक्तप्रक्रिययेन्द्रियतद्विषयादिविवक्षायां पदद्वयोपचारात् सप्तम्यन्तो गुणशब्दो गुणकार्येष्वौपचारिक इत्यभिप्रायेणोक्तंस्वगुणेषु स्वेषु कार्येष्विति। गुणकार्याणि च विभजिष्यन्ते। यद्वा कारणस्य प्राधान्यात्कार्यस्य च तदपेक्षया गुणत्वादेवमुक्तम्।

Compare this verse →
3.28Krishna

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः। गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥

Commentary · Sanskrit

।। 3.28 लोकस्य सङ्ग्रहणमेकीकृत्य स्वीकरणं स्वानुष्ठाने समानाभिप्रायतया सयूथ्यतापादनमित्यर्थः। कर्मवासना उत्तरोत्तरपुण्यपापारम्भकपूर्वपूर्वपुण्यपापांशविशेषः उत्तरोत्तरशरीरप्रेरणसमर्थस्मृतिहेतुः पूर्वपूर्वशरीरप्रेरणानुभवविशेषजनितसंस्कारो वा वादित्रवादनादिसंस्कारवत्। बुद्धिभेदो बुद्धेरन्यथाकरणम् तच्च प्रकृतविषयं दर्शयति कर्मयोगादन्यदित्यादिना।युक्तः इत्यनेन लोकसङ्ग्रहार्थं कुर्वतः स्वापेक्षितविलम्बाभावाय प्रागुक्तनिरपेक्षत्वबुद्धियोगो विवक्षित इतिबुद्ध्या युक्त इत्युक्तम्।जोषयेत् इत्यस्यार्थ प्रीतिं जनयेदिति।जुषी प्रीतिसेवनयोः इति धातुः। कर्मसङ्गिनः पुरुषान् सर्वकर्माणि जोषयेदित्यन्वयः।।प्रकृतेः इत्यादिश्लोकचतुष्टयस्यार्थमाह कर्मयोगमिति।विदुषोऽविदुषश्चेति व्युत्क्रमेण श्लोकद्वयार्थः। तृतीये त्वेतद्विशदीकरणमुखेनाविचालनमुक्तम्।कर्मयोगापेक्षितं कर्मयोगेति कर्तव्यताभूतमित्यर्थः।प्रकृतेर्गुणैः इत्युक्ते प्रसिद्धिप्रकर्षादिसिद्धं विशेषं प्रस्तुतानुपयुक्तशब्दादिप्राकृतगुणव्यवच्छेदायाहसत्त्वादिभिरिति। वक्ष्यमाणसात्विकादिकर्मविभागंसर्वशः इति प्रकारवाचिपदसूचितमाह स्वानुरूपमिति।कर्ता इति तृजन्तयोगात् षष्ठीप्राप्तिः स्यादिति तत्परिहाराय कर्मसु कर्तृत्वाहन्त्वोक्तिभ्रमव्युदासाय चकर्माणि प्रतीत्युक्तम्। तृन्नन्तत्वविवक्षायां त्वियं फलितोक्तिः।अहङ्कारविमूढात्मेति समानांशत्रयस्य बह्वर्थपरस्य अत्रार्थं विवक्षन् विगृह्णातिअहङ्कारेणेति। नात्राहम्भावमात्रमुच्यते तस्यात्मस्वभावान्तर्गतत्वात् नापि अहङ्काराख्यमचिद्द्रव्यं तस्यापि देहात्मभ्रमं द्वारीकृत्य कार्यकरत्वे सति अव्यवहितस्यैव वक्तुमुचितत्वात् नापि गर्वः उत्कृष्टपरिभवादिहेतुत्वेनानिर्देशात्। अतोऽहङ्कार इति देहात्मभ्रम एवात्र विवक्षित इत्यभिप्रायेणाह अहङ्कारो नाम अनहमर्थे प्रकृतावहमभिमान इति। एतेनाहङ्कारशब्दस्याभूततद्भावे च्विप्रत्ययेन व्युप्तत्तिर्दर्शिता।अज्ञातात्मस्वरूप इति। विमूढ आत्मा स्वरूपं यस्य स विमूढात्मादिशो विमुह्येयुः इतिवद्विमूढशब्दोऽत्र मोहविषयसमानाधिकरण इति भावः।गुणकर्मविभागयोः इत्यत्र उपसर्जनान्वयिषष्ठीत्वादपि विषयसप्तमीत्वमुचितमिति मत्वोक्तं सत्त्वादिगुणविभागे तत्तत्कर्मविभागे चेति। विभागशब्दो द्वन्द्वात्परत्वात् प्रत्येकमन्वितः। गुणानां साक्षाद्गुणेषु वृत्त्यभावात् परोक्तप्रक्रिययेन्द्रियतद्विषयादिविवक्षायां पदद्वयोपचारात् सप्तम्यन्तो गुणशब्दो गुणकार्येष्वौपचारिक इत्यभिप्रायेणोक्तंस्वगुणेषु स्वेषु कार्येष्विति। गुणकार्याणि च विभजिष्यन्ते। यद्वा कारणस्य प्राधान्यात्कार्यस्य च तदपेक्षया गुणत्वादेवमुक्तम्।

Compare this verse →
3.29Krishna

प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु। तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥

Commentary · Sanskrit

।।3.29।।प्रकृतेर्गुण इति श्लोके तावन्न निषिद्धादिसङ्गो विवक्षितः तदानीमविचाल्यत्वानुपपत्तेः। अतः पुरुषार्थोपायेषु केषुचित्सङ्गो वक्तव्यः प्रस्तुतश्च पुरुषार्थोऽत्रात्मदर्शनम् तत्र चाकृत्स्नविदधिकारे कस्मिंश्चित्तदुपाये सङ्गो विवक्षित इत्यभिप्रायेण अकृत्स्नविदस्त्वात्मदर्शनाय प्रवृत्ता इत्याद्युक्तम्।अहङ्कारविमूढात्मा 3।27 इत्यात्मविषयो हि सम्मोहः प्रकृतः अतो गुणैः सम्मूढा इत्येव समासः उपसर्जनस्यापि च गुणशब्दस्यदेवदत्तस्य गुरुकुलम् इत्यादिष्विव प्रकृतेरित्यनेनान्वय एवोपपन्न इत्यभिप्रायेणोक्तं प्रकृतेर्गुणैर्यथावस्थितात्मनि सम्मूढा इतिगुणकर्मसु इत्यस्य कर्मयोगपर्यवसानायोक्तंक्रियास्वेवेति। परिसङ्ख्यापरत्वव्यक्त्यर्थमेवकारः। तत्सूचितं व्यवच्छेद्यमाह न तदिति। गुणकर्मसङ्गोक्तिफलितमविचालनहेतुमाह अतस्त इति।न प्रभवन्तिन समर्था इत्यर्थः। तेषां प्रतिषेध्यविचालनप्रसङ्गायमन्दान् इत्युक्तमित्यभिप्रायेण विचलनप्रक्रियामाह ते किल मन्दा इति। स्वयं मन्दत्वाच्छ्रेष्ठजनाचारानुवर्तिनः। मन्दत्वं चात्र स्वयमाचारनिर्णयापाटवं विवक्षितम् अकृत्स्नवित्त्वफलितं विचालनीयत्वकारणम् अधैर्यलक्षणमल्पत्वं वा।मूढाल्पापटुनिर्भाग्या मन्दाः अमरः3।6।94 इति नैघण्टुकाः।न विचालयेत् इत्येतत्पूर्वोक्तजोषणशेषमिति दर्शयति अत इति। ज्ञानयोगाधिकारिणः कर्मयोगे स्थितिर्निकृष्टाधिकारपरिग्रहः स्यादित्याशङ्क्याह ज्ञानयोगाधिकारिणोऽपीति। स्वकार्यमात्रसमीक्षयाऽपि कर्तव्यं किमुत परार्थसमुच्चिते स्वार्थत्वे इत्यभिप्रायेणाह अत इति। उत्तरश्लोकमवतारयितुमुक्तांशमुद्गृह्णाति प्रकृतीति। वक्ष्यमाणश्लोकप्रकारेण तु सर्वेश्वरे सर्वकर्मसन्न्यासः कार्यः मध्ये गुणेषु कर्तृत्वानुसन्धानकथनं तावताऽपि देहात्मविवेकादिकं सिद्ध्यतीत्यभिप्रायेणेति भावः।आरोप्य अनुसन्धायेत्यर्थः। एतां दशामवलम्ब्य पल्लवग्राहिणां कापिलादीनां मतं समुत्थितमिति तन्मतव्यावर्तनायाचेतनानां गुणानां कथं ज्ञानचिकीर्षाप्रयत्नलक्षणं कर्तृत्वं इति शङ्काव्युदासाय चाह गुणेष्विति। इदमिति वक्ष्यमाणम्।इदं कर्तृत्वमिति पुण्यपापादिकर्तृत्वमित्यर्थः। स्वाभाविकं हि कर्तृत्वं मुक्तावस्थायामपि नापैति तस्य गुणसम्पर्ककृतत्वाभावात्।प्राप्ताप्राप्तविवेकेनेति अन्वयव्यतिरेकाभ्यां युक्तायुक्तनिश्चयेन वेत्यर्थः। अत्राकर्तृत्वोक्तेरकरणशेषत्वं पूर्वापरविरुद्धम् अनुसन्धानशेषार्थत्वं तु पूर्वापरसङ्गतमित्यभिप्रायेणानुसन्धानोक्तिः। एतेनकर्ता शास्त्रार्थवत्त्वात् ब्र.सू.2।3।33 इत्यधिकरणार्थः सूचितः।

Compare this verse →
3.30Krishna

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा। निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥

Commentary · Sanskrit

।।3.30।।अथ तदनन्तरस्यपरात्तु तच्छ्रुतेः ब्र.सू.2।3।41 इत्यधिकरणस्यार्थे तत्परोऽयमित्यभिप्रायेणोत्तरश्लोकमवतारयति इदानीमिति। नियाम्यतायाः स्वरूपत्वोक्तिः स्वरूपनिरूपकत्वात्।भगवतीत्यादिपदत्रयेणमयि इत्यभिप्रेतस्योक्तिः।भगवतीति नियन्तृत्वोपास्यत्वफलप्रदत्वाद्युपयुक्तकल्याणगुणजातवति हेयप्रत्यनीके चेति भावः।पुरुषोत्तम इति नियमनार्थानुप्रवेशादिनाऽप्यस्पृष्टहेयप्रसक्तौउत्तमः पुरुषस्त्वन्यः 15।17 इति वक्ष्यमाणप्रकारवैलक्षण्यवतीति भावः।सर्वात्मभूते गुणकृतं चेति त्रिगुणस्याचिद्द्रव्यस्यापि सर्वात्मभूतः स एव हि नियन्तेति भावः। एतेनअसक्त्या लोकरक्षायै गुणेष्वारोप्य कर्तृताम्। सर्वेश्वरे वा न्यस्योक्ता तृतीये कर्मकार्यता इति तृतीयाध्यायगीतार्थ7सङ्ग्रहश्लोके तुल्यविकल्पो नाभिमत इत्यपि सूचितं भवति।मयि इत्यनेनाभिप्रेते सर्वेश्वरत्वे हेतुतया सर्वभूतान्तरात्मभूतत्वोक्तिः।ईश्वरः सर्वभूतानाम् 18।61 इत्यादि वक्ष्यमाणं चानेन ख्यापितम्।सर्वाणि इति स्वकृतानि गुणकृतानि चेत्यर्थः।युध्यस्व इत्येतच्छास्त्रीयोपलक्षणमित्यभिप्रायेणोक्तंयुद्धादिकमिति।आत्मनीतिअध्यात्म इति सप्तम्यर्थे समास इत्यर्थः। अत्र चेतश्शब्दस्य श्रुतिशतसिद्धतत्त्वानुसन्धानरूपज्ञानगोचरतां व्यनक्तिआत्मस्वरूपेति।श्रुतिशतसिद्धं प्रकारं दर्शयति अन्तरिति। अन्तःप्रविष्टत्वशासितृत्वाभ्यां नृपादिगगनादिव्यावर्तकाभ्यां सर्वात्मत्वसिद्धिः।कर्तारमिति जीवव्यापारेषु प्रयोजककर्तारमित्यर्थः यद्वा प्रेरणक्रियाकर्तारमित्यर्थः तदुच्यते प्रवर्तयितारमिति। उपात्तश्रुतीनामैदम्पर्यदृढीकरणाय मन्वाद्युपबृंहणानुग्रहमाह स्मृतयश्चेति। एतस्मिन्नपि शास्त्रेऽभ्यासलिङ्गायास्यैवार्थस्य वक्ष्यमाणतामाह सर्वस्य चेति।मयि सर्वाणि इत्यस्याभिप्रायव्यञ्जनाय पार्थसारथेरीश्वरस्य प्रत्यक्पराङ्निर्देशयोरीश्वरैकविषयत्वं दर्शयितुं वचनद्वयोपादानम्।एवमर्थस्वरूपमुपपाद्य तज्ज्ञानस्य कर्तृत्वसन्न्यासहेतुतांसन्न्यस्य निराशीः निर्ममः इति त्रयाणां पदानां कर्तृत्वत्यागफलत्यागस्वकीयतासङ्गत्यागविषयतां उत्तरोत्तरस्य च पूर्वपूर्वहेतुकतां पाठक्रमसूचितां प्रकाशयति अत इति। अस्यार्थस्य श्रुतिस्मृत्यन्तरादिसिद्धत्वादित्यर्थः।मयैव क्रियमाणानीति भृत्यप्रवर्तकेन राज्ञेव सद्वारकमद्वारकं चेति भावः। ऋत्विज इव परस्य कर्तृत्वेऽपि स्वस्य फलाभिसन्धिः स्यादिति तन्निरासाय निराशीरित्युक्तमित्यभिप्रायेणाह तानि चेति।तत एवेति फलद्वारा हि कर्मणि ममतामदभिलषितसाधनत्वान्मदर्थमिदं कर्म इति कर्मण्यैश्वर्यबोधो ह्यधिकार इति भावः। ननु यदीश्वरे कर्तृत्वं सन्न्यस्तम् कथं तर्हि युद्ध्यस्वेति जीवः कर्तृतया निर्दिश्यते यदि चासौ निराशीः कथं परमपुरुषाराधनरूपेऽपि कर्मणि प्रवर्तेत यदि च निर्ममः स कथंममेदं कर्म इति बुध्यमानः कर्म कुर्यात् यदि च स्वव्यापारंनानुसन्धत्ते तदा त्यागरूपव्यापारमपि न मन्येत ततश्च विगतज्वर इत्यप्यनुपपन्नमित्याशङ्क्याह स्वकीयेनात्मना कर्त्रेति। स्वशेषभूतेन जीवेन प्रयोज्यकर्त्रेत्यर्थः।स्वकीयैश्चोपकरणैरिति। यथाऽसौ जीवः परशेषभूतः तथा तस्य स्वशेषतया प्रागभिमतं हविरादिकमपि परशेषभूतमिति भावः।स्वाराधनैकप्रयोजनायेति शेषस्य शेष्यतिशयाधानमेव प्रयोजनमिति भावः। आह च वेदार्थसङ्ग्रहे परगतातिशयाधानेच्छयोपादेयत्वमेव यस्य स्वरूपं स शेषः परः शेषी इति।स्वकीयेन इत्यादौ प्रमाणसूचनायसर्वशेषीत्याद्युक्तम्।स्वयमेवेत्यादि। आराध्यभूत एवाराधनं कारयतीति भावः। एवकारेण प्रवर्तकान्तरं च व्युदस्तम्।कारयतीति सर्वेश्वरः सन् स्वेष्टं सर्वं स्वयमेव कर्तुं शक्तोऽपि स्वशेषभूतजीवानां शास्त्रवश्यत्वतत्फलभोक्तृत्वादिसिद्ध्यर्थं तान् कर्तृ़न् कारयतीति भावः। प्राकरणिकं प्रतिषेध्यज्वरविशेषप्रसङ्गं दर्शयति प्राचीनेत्यादिना। अस्तु श्रुतिसिद्धमीश्वरत्वम् कारयितृत्वस्य किमायातं इत्यत्राह ईश्वरत्वं नियन्तृत्वमिति।शेषित्वं पतित्वमिति चेतनगतं शेषित्वं पतित्वमेवेति भावः। यद्वा श्रुतिभाष्यपठितयोः शेषित्वेश्वरत्वयोः को भेदः इति शङ्काऽपाक्रियते ईश्वरत्वं नियन्तृत्वमित्यादिना।

Compare this verse →
3.31Krishna

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः। श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥

Commentary · Sanskrit

।।3.31।।ये मे मतम् इति श्लोके मे मतभित्यौपनिषदपुरुषस्य सिद्धान्ताभिमानप्रदर्शनान्मोक्षसाधनत्वोपदेशमात्रस्य कृतकरत्वाच्च तत्प्राशस्त्यपरोऽयं श्लोक इत्यभिप्रायेणाह अयमेव साक्षादिति। ज्ञानयोगनिरपेक्ष इत्यर्थः। सारभूतः प्रधानभूतःसारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु अमरः33।170 इति नैघण्टुकाः। प्राधान्यं चात्र मोक्षसाधने ज्यायस्त्वम्। मानवशब्दस्यात्रानधिकृतशूद्रादिसङ्ग्राहकत्वादधिकृतदेवादिप्रतिक्षेपकत्वाच्च तदुभयपरिहारायय इति प्रमाणसिद्धानुवादेनाधिकारिमात्रोपलक्षकोऽयं शब्द इत्यभिप्रायेणोक्तंये मानवा आत्मनिष्ठशास्त्राधिकारिण इति।नित्यमनुतिष्ठन्ति इत्युक्तं नित्यमनुष्ठानं निर्णयपूर्वकमेव प्रामाणिकत्वनिश्चयशून्यस्यानुष्ठानंकदाचिद्भज्येतापीत्यभिप्रायेणोक्तम्अयमेव शास्त्रार्थ इत्यादि। एतत् अयमेवेत्युक्तम् यद्वा एतन्मे मतं शास्त्रार्थ इति निश्चित्येत्यन्वयः शासितुर्मतमेव हि शास्त्रार्थ इति भावः।श्रद्धावन्तः इति पदमनुष्ठानात् पूर्वावस्थापरमित्याह ये चाननुतिष्ठन्तोऽपीति। ततोऽप्यर्वाचीनावस्थानसूयेत्याह ये चाश्रद्दधाना इति। गुणेषु दोषाविष्करणमसूयेत्यसूयालक्षणाभिप्रायेणाह अपन्निति। अपिशब्दो वर्गत्रयसमुच्चयपर इतिते सर्व इत्युक्तम्। ननु सम्भवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते श्रद्धावन्त इत्यादौ चभवन्ति इत्यध्याहारश्चानुचितः यच्छब्दस्य चैकत्र प्रयुक्तस्यावृत्तिरनुपपन्नेत्यत्राहतेऽपीति।एषामिति अधिकारिणां बुद्धिस्थानां वाक्यानां वा।अयमभिप्रायः नात्रैकवाक्यत्वं सम्भवति अपिशब्दानन्वयात् अपिशब्दो ह्यत्रानुष्ठातृभिः सहाधिकार्यन्तरसमुच्चयपरो वा अनुष्ठातृ़णामपकर्षपरो वा स्यात्। तत्र ज्ञानयोगिनां समुच्चयः सम्भवन्नप्यत्रानपेक्षितः कर्मयोगप्रशंसाप्रकरणानुचितश्च। ज्ञानयोगिभ्यः कर्मयोगिनामपकर्षसूचनं त्वत्रात्यन्तविरुद्धम्। नित्यमनुष्ठातृ़णां श्रद्धावन्तोऽनसूयन्त इति विशेषणाभिधानं च निरर्थकम्। न हि नित्यमनुतिष्ठन्तोऽश्रद्दधाना असूयन्तश्च भवेयुः। अवस्थात्रयविषयत्वे तु समुच्चयपरतया वा अर्वाचीनावस्थापकर्षपरतया वा शक्यमपिशब्दो नेतुमिति।अनुष्ठातृ़णां श्रद्धानसूयामात्रवतां च तुल्यफलत्वेऽनुष्ठानविधायकशास्त्रवैयर्थ्यं स्यादित्याशङ्क्याह इदानीमिति। श्रद्धानसूययोः पापनिर्हरणहेतुत्वं चधर्मः श्रुतो वा दृष्टो वा स्मृतो वा कथितोऽपि वा। अनुमोदितो वा राजेन्द्र पुनाति पुरुषं सदा म.भा.14।94।29 इत्यादिसिद्धम्।

Compare this verse →
3.32Krishna

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्। सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥

Commentary · Sanskrit

।।3.32।।व्यतिरेकनिन्दयाऽप्युक्तार्थप्राशस्त्यातिरेक उच्यत इत्यभिप्रायेणाह भगवदिति। पूर्वोक्तव्यतिरेकरूपत्वादभ्यसूयोक्तिरश्रद्धोपलक्षणतयेत्यभिप्रायेणअश्रद्दधानानामित्याद्युक्तम्। आधेयं शेषभूतं विधेयमपि हि शरीरमित्यभिप्रायेणमदाधारमित्यादिपदत्रयम् स्वरूपस्थितिप्रवृत्तितादधीन्यपरं च। परबुद्धिवृत्तिविशेषरूपं मतं कथमनुष्ठेयमननुष्ठेयं वा सिद्धवस्तुनि च कथमनुष्ठानं इत्यत्राभिप्रेताध्याहारेणाह नैवमनुसन्धायेति।सर्वेषु ज्ञानेषु विशेषेण मूढान् इति यथावस्थितात्मस्वरूपानभिज्ञतयाअहं मम इत्यादिषु सर्वेषु ज्ञानेषु ज्ञातव्यवस्तूनां यथावस्थितस्वरूपप्रकारानभिज्ञानित्यर्थः। नष्टानिति पुरुषार्थातियोग्यानित्यर्थः। किं तत्त्वज्ञानरहितस्यान्तःकरणमपि नास्ति इत्यत्राह चेतःकार्यमिति। कार्यादर्शनात् कारणं नास्तीत्युपचर्यत इति भावः। फलितमाह विपरीतज्ञानाः सर्वत्र विमूढाश्चेति।

Compare this verse →
3.33Krishna

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि। प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥

Commentary · Sanskrit

।।3.33।।उत्तरप्रघट्टकसङ्गत्यर्थं प्रतिपत्तिसौकर्यार्थं च पूर्वोक्तं सङ्कलय्य दर्शयति एवमिति। मुक्तानां कर्तृत्वस्य गुणाधीनत्वाभावात्प्रकृतिसंसर्गिण इत्युक्तम्। ज्ञानयोगादनादरहेतुभूतदुश्शकत्वादिसमर्थनपरमनन्तरप्रकरणमित्यभिप्रायेणाह अतः परमिति।नानुतिष्ठन्ति इत्यस्य हेतुरपिसदृशं इत्यादिनाऽभिप्रेतः।ज्ञानवानपीत्यत्र न तावल्लौकिकज्ञानमात्रमुच्यते तस्य प्रकृत्यनुकूलत्वप्रवृत्तिविरोधित्वाभावेनापिशब्दानन्वयात्। नाप्यात्मसाक्षात्कारपर्यन्तं ज्ञानं तस्यामवस्थायां प्रकृत्यनुवर्तित्वप्रसङ्गाभावात्। अतो यदालम्ब्य ज्ञानयोगे प्रवर्तितुमुत्सहते तज्ज्ञानमिह विवक्षितम् तच्च शास्त्रजन्यं यथावस्थितात्मतत्त्वज्ञानमित्यभिप्रायेणाहप्रकृतिविविक्तमिति।ईदृशमिति यथावस्थितपरशेषत्वादिविशिष्टस्वरूपनिर्देशः।तदेवेति विषयानुभवव्यवच्छेदः।सर्वदेति आफलावाप्तेरित्यर्थः। स्वस्याः प्रातिस्विक्या इत्यर्थः। चेतनप्रवृत्तिरूपचेष्टाया असाधारणकारणं हि रागद्वेषौ तौ चानन्तरश्लोकेऽभिधीयेते तन्मूलं च प्राचीनवासनैव। अतोऽत्र प्रकृतिशब्देन स्वभावव्यपदेशार्हानादिवासनैव विवक्षितेत्यभिप्रायेणोक्तं प्राचीनवासनाया इति।सदृशं इत्यनेनाभिप्रेतमानुरूप्यमाह प्राकृतविषयेष्विति शब्दादिविषयवासनया पुनरपि तत्रैव प्रवर्तत इत्यर्थः।कुत इति। ज्ञानवांश्चेत् ज्ञानानुरूपं चेष्टताम् कुतः प्रकृत्यनुरूपं चेष्टते इत्यर्थः। अत्रोत्तरंप्रकृतिं यान्ति भूतानि इति। पुनरुक्तिशङ्कां परिहरन्नुत्तरत्वं विवृणोति अचिदिति। अचित्संसृष्टा जन्तव इति भूतशब्दार्थः। अनादिकालप्रवृत्ताचित्संसर्गकृतापरोक्षाभङ्गुरदेहात्मभ्रमजनितामत्यन्तप्रपञ्चितां वासनामद्यतनपरोक्षशास्त्रजन्यज्ञानं न सहसैव निरोद्धुं क्षममित्यभिप्रायः। तदेव विवृणोति तानीति।निग्रह इति नियमनमित्यर्थः। अत्र मम वाऽन्यस्य वेति निग्रहकर्त्रध्याहारो न युक्तःअनिच्छन्नपि 3।36 इत्यादिप्राकरणिकार्थानुसारेण शास्त्रकृतत्वमेवोचितम्।किं करिष्यतीति न किञ्चन किञ्चिदपि निरोद्धुं शक्यमित्यर्थः।

Compare this verse →
3.34Krishna

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ। तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥

Commentary · Sanskrit

।।3.34।।वासनायाः स्वानुरूपचेष्टाहेतुत्वेऽवान्तरव्यापारोऽनन्तरमुच्यत इत्यभिप्रायेणाह प्रकृत्यनुयायित्वेति। इन्द्रियस्येन्द्रियस्येति वीप्सा सर्वेन्द्रियसङ्ग्रहार्थेत्यभिप्रायेण ज्ञानेन्द्रियकर्मेन्द्रियोपादानम्। अर्थशब्दोऽत्र विषयपरः। साध्यस्य च व्यापारविषयत्वाद्वचनादेरप्यत्रार्थशब्दार्थता दर्शिता।व्यवस्थितौ इत्यत्रोपसर्गार्थविवरणम् अवर्जनीय इति। वासनाया इच्छाद्वारेणैव प्रवृत्तिहेतुत्ववचनात् ज्ञानवासनैव कर्महेतुत्ववेषेण कर्मवासनत्युच्यते न तु वासनान्तरमस्तीत्यपि सूचितं भवति।इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ इत्युक्ते शब्दादिविषयेषु रागवद्द्वेषोऽपि किं स्वरसवाही इति शङ्का स्यात् तद्व्युदासायाहतदनुभव इति। ततः किं इति शङ्कायांसदृशं चेष्टते 3।33 इत्यनेनैकीकृत्यानुसन्दधानस्तात्पर्यार्थमाहतावेवमिति। एवमुक्तवासनानुयायित्वप्रकारेणेत्यर्थः।नियमितसर्वेन्द्रियमित्यनेन बलात् क्षणमात्रनिमीलनादिनियमनमुच्यतेस्वकार्येष्विति विषयानुभवेषु वचनादानादिषु कर्मसु चेत्यर्थः।सङ्गात्सञ्जायते इत्यारभ्यबुद्धिनाशात्प्रणश्यति 2।6263 इत्यन्तं पूर्वप्रपञ्चितमवसरे स्मारयति ततश्चायमिति।तयोर्न वशमागच्छेत् इत्येतन्न तावद्रागद्वेषनिषेधमात्रम् तदा ह्यौचित्यात् ज्ञानयोगाङ्गविधानं स्यात्। तच्च ज्ञानयोगानादरणीयताप्रकरणासङ्गतम् अतोऽत्र यया वचनव्यक्त्या ज्ञानयोगानादरणीयता सूच्येत सैव ग्राह्येत्यभिप्रायेणाह ज्ञानयोगेति। कर्मयोगारम्भे तु चिराभ्यस्तसजातीयविषयेषु प्रवृत्तेर्न रागद्वेषयोर्बलात्कार इति भावः।आगम्य न विनश्येदिति विनाशहेतुभूतं तद्वशगमनं परिहरेदित्यर्थः। तद्वशगमने कथं विनाशः इति शङ्कायां चतुर्थपादमवतारयतितौ हीति।काम एष क्रोध एषः 3।37़ इत्यादिभिः श्लोकैर्वक्ष्यमाणमाकारमभिप्रेत्यदुर्जयौ शत्रू इत्युक्तम्। परिपन्थित्वं प्रकृतविषयं योजयति आत्मज्ञानाभ्यासं वारयत इति। मुक्तिघण्टापथे लुण्टाकवदवस्थितावित्यर्थः।

Compare this verse →
3.35Krishna

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्। स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥

Commentary · Sanskrit

।।3.35।।श्रेयान् इत्यत्र श्लोकेस्वधर्मपरधर्मशब्दौ न तावद्वर्णाश्रमाद्यपेक्षया प्रयुज्येते परवर्णाश्रमादिधर्मानुष्ठानस्य दूरतो निस्सत्त्वेन तन्निषेधायोगात् अत्र च तत्प्रसङ्गाभावात्परधर्मात्स्वनुष्ठितात्स्वधर्मो विगुणः श्रेयान् इति चोक्ते श्रेयश्शब्दस्य प्रशस्यतरवाचित्वात् स्वनुष्ठितपरधर्मस्य प्रशस्यत्वमात्रं प्रसज्जेत न च तदुपपद्यते स्वनुष्ठितस्य दुरनुष्ठितस्य वा परधर्मस्याधर्मत्वेन गर्हणीयत्वात्। अथ क्षत्त्रधर्मभूतयुद्धपरित्यागाभिलाषिणोऽर्जुनस्य स्वधर्मभूतयुद्धप्रशंसा ब्राह्मणादिधर्मभूततत्परित्यागनिन्दा च क्रियत इति चेत् अस्त्वेतावताऽपि निषेध्यस्य प्रसङ्गः तस्य प्रशस्यत्वमात्रप्रसङ्गचोद्यं तु न परिहृतम् न चात्रस्वधर्मं परित्यज्य परधर्मं कुर्यां इत्यर्जुनस्याभिसन्धिः अत्रैव ह्यस्येदानीं स्वधर्मत्वबुद्धिः स्वधर्मतया भ्राम्यतः परधर्मत्वमत्र ज्ञाप्यत इति चेत् तन्न स्वनुष्ठितात् परधर्मादित्यनुवादरूपत्वानुपपत्तेः परधर्मतया सम्प्रतिपन्नत्वे ह्येवं व्यपदेश उपपद्यते तत्र च परधर्मत्वज्ञापनं निष्प्रयोजनम् अधर्मत्वमात्रस्यैव ज्ञाप्यत्वात् अतोऽत्र स्वधर्मपरधर्मशब्दौ प्रशस्यतयाऽनादरणीयतया च प्रकृतकर्मयोगज्ञानयोगविषयौ एवं च सति ज्ञानयोगस्य प्रशस्यत्वमात्रप्रसङ्गोऽपि न दूषणम् पूर्वश्लोकद्वयप्रकृतवासनानुवर्तित्वेन सङ्गतिश्च स्यात्अथ केन इत्युत्तरश्लोकस्थप्रश्नोऽप्येवमेवोपपद्यते अत्र ह्यनिच्छतोऽपि पापाचरणहेतुः क इति प्रश्नः स च ज्ञानयोगदुष्करत्वकथनेनैव सङ्गच्छेत अनिच्छतोऽपि मे क्षत्त्र धर्मत्यागः केनेति प्रश्नार्थ इति चेत् न अस्यानिच्छत्वाभात्काम एष क्रोध एषः 3।37 इत्याद्युत्तरानुपपत्तेश्च न हि कामक्रोधाभ्यामर्जुनो युद्धं परित्यजति किन्तु कारुण्यादिनेत्युपक्रमेऽप्युक्तम् अतः स्वधर्मपरधर्मशब्दौ स्वशक्यपरशक्यधर्मविषयौ तदेतदखिलमभिप्रेत्याह अतः सुशकतयेति। अतः श्लोकद्वयोक्तवासनानुवर्तित्ववशादित्यर्थः।विगुणोऽपि अङ्गवैकल्ययुक्तोऽपीत्यर्थः। विगुणस्य कथं श्रेयस्त्वमित्यत्रोक्तंअप्रमादगर्भ इति। वैगुण्यमात्रं स्वरूपविच्छेदाद्वरमिति भावः। स्वनुष्ठितादित्यस्य वैगुण्यप्रतियोग्याकारपरतया सुशब्दः साद्गुण्यपर इत्याह सगुणादपीति। अनुष्ठितशब्दस्यभूतार्थप्रत्ययान्तत्वाद्भूतत्वस्य चातिक्रान्ततारूपत्वात् प्रागनुष्ठानं पश्चाद्विच्छेदश्च सूचित इत्यभिप्रायेणोक्तंकञ्चित्कालमनुष्ठितात्सप्रमादिति। एवं विच्छेदाविवक्षायां स्वनुष्ठितात् ज्ञानयोगाद्विगुणः कर्मयोगः श्रेयानित्येतदसङ्गतं स्यात् सगुणस्याविच्छिन्नस्य फलाविनाभावादिति भावः।सुशकतयेत्युक्तहेतुविवरणमुखेन स्वधर्मशब्दार्थं च विवृण्वन् विगुणस्य कर्मणः फलाविनाभावात् कथं श्रेयस्त्वं इतिशङ्कापरिहारतया तृतीयं पादं व्याख्याति स्वेनैवेति। स्वेनैव प्रकृतिसंसृष्टतया व्याप्रियमाणेन्द्रियेणैवेत्यर्थः। यद्वा स्वेच्छयैवेति भावः।एकस्मिन् जन्मन्यप्राप्तफलतयेति।अयमभिप्रायः यद्यप्यात्मसाक्षात्कारादिफलार्थतया विहितत्वात् कर्मयोगः काम्यकर्मैव तथाप्यस्य काम्यकर्मणोऽयं विशेषः यद्विगुणानुष्ठितमपि जन्मान्तरेऽपि सगुणानुष्ठानद्वारा फलं साधयति इति। वैगुण्यं त्वस्य फलविलम्बमात्रप्रयोजकम्। काम्यकर्मान्तरवन्न फलाभावप्रयोजकमित्येकस्मिन् जन्मनीत्यभिप्रेतं विवृण्वन् जन्मान्तरेऽपि विगुणस्य कथं फलसाधनत्वं इत्यत्राह अनन्तरायहततयेति इन्द्रियाणामनुभूतसजातीयविषयसमर्पणेन कर्मयोगस्वरूपस्यात्यन्तविच्छेदाभावादित्यर्थः। अव्याकुलत्वमत्राविकलत्वम्। एतच्च सर्वंनेहाभिक्रमनाशोऽस्ति 2।40 इति पूर्वं सङ्ग्रहेणोक्तम्।पार्थ नैवेह नामुत्र 6।40 इत्यादिना प्रपञ्चयिष्यते च। अव्यवहितानन्तरजन्मनि पौष्कल्यनिर्णयाभावेनसम्भवादित्युक्तम्। अनन्तरे ततोऽनन्तरे वा फलं तावत्सिद्धमिति भावः। यदि विगुणस्य कर्मयोगस्य जन्मान्तरस्थं फलमभिप्रेत्य श्रेयस्त्वमुच्यते तर्हि ज्ञानयोगस्यापि तथा किं न स्यात् इत्यत्र चतुर्थं पादं व्याख्याति प्रकृतीति। जन्मान्तरेऽपि फलं न सम्भवतीत्यभिप्रायेणभयावहः इत्युच्यते। स्वरूपेण विच्छिन्नस्य कथं जन्मान्तरेऽपि फलम् अविच्छिन्नस्य विगुणस्य फलं विलम्बितमिति भावः।

Compare this verse →
3.36Arjuna

अर्जुन उवाच। अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः। अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥

Commentary · Sanskrit

।।3.36।।ननुसदृशं चेष्टते 3।33 इत्यादिना वासनानुवर्तित्वमुक्तम् वासना च चेतनस्येच्छाद्वारेण प्रवर्तिका एवं च सति ज्ञानयोगमिच्छतस्तद्विरोधितया विषयानुभवमनिच्छतोऽपि कथं वासनाविषयानुभवे प्रवृत्तिहेतुः इति पृच्छति अथ केनेति। अत्रअनिच्छमानोऽपि बलादाताड्येव नियोजितः इतियादवप्रकाशपाठोऽपपाठः। अथशब्दोऽत्र प्रश्नार्थकः कात्स्न्र्यपरो वा। ज्ञानवानपीति ज्ञानवत्त्वेन निर्दिष्टपरामर्शकोऽयंशब्द इत्यभिप्रायेणोक्तंअयं ज्ञानयोगाय प्रवृत्त इति। न ह्ययं वासनयाऽप्यनिच्छापूर्वं प्रवर्तते चेतनत्वादिति पुरुषशब्दस्य भावः। अनिच्छन्तोऽपि वायूदकादिप्रेरिताः प्रवर्तन्ते तद्वदत्रापि केनचित्प्रेरकेण बलवता भवितव्यमिति मत्वोक्तंबलादित्यादि।बलादिव नियोजितः इत्यस्य केनेत्यादिप्रश्नविरुद्धावगतार्थतां परिहर्तुं क्रमभेदेनान्वय उक्तः। वायूदकादिबलान्नियोजितो यथाऽनिच्छिन्नप्याचरति तथाऽयमप्याचरति तत्र केन प्रयुक्त इति प्रश्नार्थः।

Compare this verse →
3.37Krishna

श्रीभगवानुवाच। काम एष क्रोध एष रजोगुणसमुद्भवः। महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥

Commentary · Sanskrit

।।3.37।।अथइन्द्रियस्य इत्यादिना सङ्ग्रहेणोक्तमेवार्थं प्रश्नस्योत्तरतया प्रपञ्चयन् भगवानुवाच काम एष इति। विषयानुभववासनाबीजानां कामक्रोधाद्यङ्कुरोत्पादने रजोगुणः सलिलसेकः कामादिर्ह्यस्मिन्मते ज्ञानविशेषरूप आत्मधर्मः रजस्तु प्रकृतिगुणः अन्यधर्मस्य कथमन्यत्र कार्यकरत्वमित्यत्रोक्तंगुणमयप्रकृतिसंसृष्टस्येति। औष्ण्याश्रयदहनसंयोगाद्यथा करतलादौ स्फोटादिः तथा गुणाश्रयप्रकृतिसंसर्गादात्मनि कामादिरिति भावः। तर्हि गुणत्रयमयप्रकृतिसंसर्गात् सत्त्वादिकार्यज्ञानादिरपि युगपदेव किं न स्यात् इत्यत्रोक्तं उद्भवाभिभवादिरूपेण वर्तमानेति। पूर्वश्लोकोक्तायंशब्दस्यात्रापेक्षयाऽस्येति विपरिणत्याऽनुषङ्गः। रजोगुणप्रचुरस्यास्य कथं ज्ञानयोगप्रारम्भमात्रत्वमपीति चोद्यमुद्भवाभिभवक्रमेण मात्रया मध्ये कदाचित्सत्त्वोन्मेषसम्भावनया निरस्तमित्यभिप्रेत्यज्ञानयोगारब्धस्येत्युक्तम्। आरब्ध इतिभुक्ता ब्राह्मणाः इतिवत्कर्तरि क्तः।एषः इति पदेन पापाचरणे प्रयोजकः प्रश्नविषयः परामृश्यते। तेनैवसदृशं चेष्टते 3।33इन्द्रियस्येन्द्रियस्यार्थे 3।34 इति श्लोकद्वयोक्तार्थोऽप्यत्र स्मारित इत्यभिप्रेत्यप्राचीनेत्यादिविशेषणद्वयमुक्तम्। पूर्वोक्तरागद्वेषाववस्थान्तरापन्नावत्र कामक्रोधशब्देन व्यपदिश्येते इति भावः। महाशनत्वविवरणंविषयेष्वेनमाकर्षतीति महदशनं भोग्यं यस्य स महाशनः।एषः इति निर्देशस्यावृत्त्या वाक्यभेदः। तत्र च वाक्यद्वयस्यैकमेव मुखभेदेन प्रतिपाद्यम्। अन्यथा कः पापाचरणे प्रयोजकः इति प्रश्नेकाम एष क्रोधश्चइत्यादिप्रकारेण निर्देष्टव्यम्। अनन्तरं चविद्ध्येताविह वैरिणौ इति वक्तव्यम्। उत्तरत्र च षट्स्वपि श्लोकेषुतेन एतेन कामरूपेण अस्य एनं यः कामरूपम् इति सर्वत्रैकवचननिर्देशः काममात्रनिर्देशश्च क्रियते न तु कामात्क्रोधस्य पृथक्त्वेनाभिधानम्। ततश्च काम एवावस्थाभेदेन क्रोधतयाऽत्र विवक्षितः तदवस्थाद्वयविषयतया च वाक्यभेद उचितः।महाशनो महापाप्मा इति पदद्वयमपि बाहुल्यानुसारेणौचित्यात् क्रमेण तदुभयविषयमित्येतदखिलमभिप्रेत्याहएष एवेति।प्रतिहतगतिः इति क्रोधाख्ये परिणामे हेतुरुक्तः। एकस्यैव शब्दादिविषयकामावस्थातः क्रोधावस्थाया विषयतो भेदप्रदर्शनार्थमतिप्रसङ्गपरिहारार्थं चोक्तंप्रतिहतेत्यादि। महापाप्मतां विवृणोतिपरहिंसादिषु प्रवर्तयतीति। महान् पाप्मा कार्यतया यस्यास्तीति स महापाप्मा।क्रुद्धो हन्याद्गुरूनपि इति हि प्रसिद्धम्। एतच्छ्लोकोक्तं रजोगुणाख्यं पूर्वोक्तप्रकृतिशब्दव्यपदेशार्हं वासनाख्यं कारणं चोपस्थाप्य तदुभयकार्यताविशिष्टंएनं इत्यन्वादेशः परामृशतीत्यभिप्रायेणरजोगुणसमुद्भवं सहजमिति पदद्वयमुक्तम्।इह वैरिणं इत्यत्र इहशब्दः प्रमादवत्तया बुभुत्सितज्ञानयोगविषय इत्यभिप्रायेणोक्तं ज्ञानयोगविरोधिनमिति।

Compare this verse →
3.38Krishna

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च। यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥

Commentary · Sanskrit

।।3.38।।वैरित्वप्रकार उच्यते धूमेनेति। तत्र यथेत्यन्तमेकं वाक्यम्।आदर्शो मलेन च इत्यत्र चकाराद्यथाशब्दोऽनुषक्त इति व्यञ्जनाययथा धूमेनेत्युक्तम्। पूर्वस्मिन् श्लोके क्रोधस्यापि कामावस्थान्तरत्वव्यपदेशादुत्तरत्र चकामरूपेणकामरूपम् 3।43 इति तस्यैवानुवृत्तेरत्रापि तच्छब्देन काम एव परामृश्यत इति व्यञ्जनायतेन कामेनेत्युक्तम्। इदमिति सामान्यनिर्देशेऽप्यचिद्ग्रहणासम्भवात्सर्वक्षेत्रज्ञग्रहणौचित्यादिदंशब्दस्य वक्ष्यमाणपरत्वादपि लोकप्रतीतिपरत्वस्वारस्याच्चयया क्षेत्रज्ञशक्तिः सा वेष्टिता इत्यादिवत् क्षेत्रज्ञानामावरणमिहोच्यत इत्यभिप्रायेणोक्तंइदं जन्तुजातमिति। जन्तुशब्देन शरीरित्वस्य विवक्षितत्वादावरणार्हत्वं दर्शितम्। नपुंसकनिर्देशस्य सामान्यविषयत्वेप्रदर्शनाय जातशब्दः। अनादिवासनानुबन्धित्वेन सहजत्वं निवृत्तस्यापि पुनः पुनरुपाधिवशादागमं स्वेच्छया निवर्तयितुमशक्यत्वं च दर्शयितुं दृष्टान्तत्रयोपादानम्।

Compare this verse →
3.39Krishna

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा। कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥

Commentary · Sanskrit

।।3.39।।आवृतं ज्ञानम् इत्यादेः पौनरुक्त्यव्युदासायाह आवरणप्रकारमाहेति। अत्रतेनेदमावृतम् 3।38 इत्युक्ते किं तदावृतमित्याकाङ्क्षाया अपि कथमाकाङ्क्षा युक्तेति भावः। अत्र ज्ञानिशब्दो न तावन्निष्पन्नज्ञानविषयः तदवस्थस्य कामावृतज्ञानत्वाभावात्। ततश्चानिष्पन्नज्ञानसर्वक्षेत्रज्ञपरत्वमेवोचितमित्यभिप्रायेण अस्य जन्तोर्ज्ञानिन इत्युक्तम्।ज्ञानिनः इत्यत्र प्रत्ययस्य श्रुतिसिद्धस्वाभाविकसम्बन्धपरत्वप्रदर्शनायावरणस्यौपाधिकत्वद्योतनाय च ज्ञानस्वभावस्येत्युक्तम्। क्षेत्रज्ञस्यापि कर्मफलभोक्तुः शब्दादिविषयज्ञानावरणाभावात् आत्मविषयं ज्ञानमित्युक्तम्। कामरूपशब्दस्य स्वेच्छागृहीतरूपत्वे प्रसिद्धेस्तद्भ्रमव्युदासायोक्तंकामाकारेणेति। कामस्वभावादर्थान्तरादाक्षिप्तमात्मविषयज्ञानावरणप्रकारं व्यञ्जयति विषयव्यामोहजननेनेति।नित्यवैरिणा आत्मसाक्षात्कारोत्तरावधिनाऽनादिवैरिणेत्यर्थः। नित्यसंसारिसद्भावपक्षे चास्य केषुचिदात्मसु नित्यवैरित्वं सिद्धम्। योग्यैर्लब्धैरलम्भावराहित्यमनलशब्दार्थः।तृष्णाखनिरगाधेयं दुष्पूरा केन पूर्यते। या महद्भिरपि क्षिप्तैः पूरणैरेव खन्यते इत्युक्तप्रकारेणायोग्येषु दुर्लभेषु प्रवृत्तिहेतुत्वं दुष्पूरशब्दविवक्षितमित्यभिप्रायेणोक्तंदुष्पूरेण पूर्त्यनर्हविषयेण अनलेन च पर्याप्तिरहितेनेति। यद्वाऽनलशब्दोऽग्निपर्यायः कामे गौणः नह्यग्नेर्विषयविभागः पर्याप्तिर्वा स्यात् तद्वदिति भावः।

Compare this verse →
3.40Krishna

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते। एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥

Commentary · Sanskrit

।।3.40।।एवमावरणप्रकार उक्तः अथावरणोपकरणान्यनन्तरं नियन्तव्यत्वोपदेशायोच्यन्त इत्यभिप्रायेणाह कैरिति।आत्मानमधितिष्ठति स्वतन्त्रमात्मानमाक्रम्य परतन्त्रं करोतीत्यर्थः। इन्द्रियशब्दोऽत्र गोबलीवर्दन्यायाद्बाह्येन्द्रियपरः। बुद्धिरत्रापुरुषार्थेषु पुरुषार्थत्वाध्यवसायः। प्रकृतानुपयुक्ताधिकरणादिव्युदासाय करणव्युत्पत्तिं दर्शयति अधितिष्ठत्येभिरिति। एतैर्विमोहयतीति ह्युच्यत इति भावः। अधिष्ठानक्रियाकरणभूतानामिन्द्रियादीनां अवान्तरव्यापारप्रदर्शनायविषयप्रवणैरित्युक्तम्।प्रकृतिसंसृष्टमिति देहिशब्देनेन्द्रियादेरवर्जनीयत्वं गुणवश्यत्वं च सूच्यत इति भावः। विशब्दःअनात्मन्यात्मबुद्धिर्या अस्वे स्वमिति या मतिः वि.पु.6।7।11 इत्याद्युक्तभ्रान्तिवैविध्यपर इत्यभिप्रायेणाह विविधं मोहयतीति। भ्रान्तिवैविध्यं भोग्येस्वात्मन्यभोग्यताभ्रमेण भोग्येषु च विषयेषु भोग्यताभ्रमेण विवृण्वन् प्रकृतोपयोगित्वं च दर्शयति आत्मज्ञानेति।

Compare this verse →
3.41Krishna

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ। पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥

Commentary · Sanskrit

।।3.41।।अथ कामस्यात्माधिष्ठानोपकरणेष्विन्द्रियमनोबुद्धिषु प्रथममिन्द्रियाणां नियमनं कामविजयोपायतयोपदिश्यते तस्मादिति श्लोकेन। तस्मादित्येतत्प्रकृतस्य ज्ञानयोगस्योक्तप्रकारदुष्करत्वपरामर्शीत्याह यस्मादित्यादिना। त्वमिति निर्देशोऽर्जुनस्य तदानीन्तनावस्थापर इत्यभिप्रायेणोक्तंप्रकृतिसंसृष्टतया इन्द्रियव्यापारप्रवणस्त्वमिति।आदौ इत्यनेनाभिप्रेतमाह मोक्षेति। नात्रेन्द्रियनियमनमत्यन्तव्यापारोपरमः आदौ तस्याशक्यत्वात् प्रपञ्चितं च तत्प्रागेव। कर्मयोगार्थं चेन्द्रियनियमनं प्रागपियस्त्विन्द्रियाणि मनसा 3।7 इत्यादावुक्तम्। अतोऽत्रापि तथैव वर्णनीयमित्यभिप्रायेणोक्तंइन्द्रियव्यापारानुरूप इत्यादि। ज्ञानविज्ञानयोर्द्वयोरपि आत्मविषयत्वं प्रकरणात्सिद्धम्। तत्र चब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः मनुः1।97 इतिवत्स्वरूपतद्विवेकविषयत्वात् अपौनरुक्त्यमित्यभिप्रायेणोक्तं आत्मस्वरूपेत्यादि। विज्ञानं विविच्य ज्ञानं व्यावृत्ततया ज्ञानमित्यर्थः। प्रत्यग्ज्ञानानन्दत्वादिविशिष्टमात्मनः स्वरूपम्। अणुत्वनित्यत्वज्ञातृत्वभोक्तृत्वकर्तृत्वादिभेदको धर्मवर्गोऽत्र विवेकः। यद्वादेहातिरिक्तः कश्चित् आत्माऽस्ति इत्येतावत्स्वरूपमिह विवक्षितम् प्रत्यक्त्वादयोऽप्यणुत्वादिवद्विवेकतया विवक्षिताः। अथवा तत्सर्वं स्वरूपं विवेको विवेककरणं शास्त्रम् तत प्रमेयं प्रमाणं चोक्तं भवति।एनं पाप्मानं इत्यन्वादेशात् प्रस्तुतकामविषयः पाप्मशब्दः तस्य पाप्मशब्देनाभिधानं निषेधविषयतया ज्ञानविरोधित्वेन अनिष्टफलत्वाच्चेत्यभिप्रेत्य कामरूपं वैरिणमित्युक्तम्।

Compare this verse →
3.42Krishna

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः। मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥

Commentary · Sanskrit

।।3.42।।एवं विरोधिमात्राणामिन्द्रियाणां नियन्तव्यत्वमुक्तम् अथ मनोबुद्धिकामानां नियन्तव्यतरतमत्वादिसिद्ध्यर्थमुत्तरोत्तरं विरोधितमत्वेन निर्दिश्यन्त इत्यभिप्रायेणाह ज्ञानविरोधिष्विति। परशब्दस्यात्र कारणत्वादिपरत्वायोगात् प्राधान्यमेव विवक्षितम् तच्च प्रकरणवशात् ज्ञानविरोधापेक्षयेत्यभिप्रायेणोक्तंज्ञानविरोधे प्रधानानीति। प्राधान्यं चेन्द्रियाणां देशकालादिरूपसामान्यविरोध्यन्तरापेक्षया शरीरापेक्षया वा सूक्ष्मत्वदुर्ग्रहत्वादिभिः इन्द्रियाणां प्राधान्यहेतुं विरोधित्वप्रकारमाह यत इति। इन्द्रियेभ्यो मनसः परत्वे हेतुमाह इन्द्रियेष्विति। पूर्ववाक्यात्यतः इत्यनुषञ्जनीयम्। एवमुत्तरत्रापि हेतुवाक्ये भाव्यम्। विषयासन्निधानहठात्करणादिना बाह्येन्द्रियेषु विषयेभ्य उपरतेष्वपि मनसा तत्तद्विषयेषु चिन्त्यमानेष्वात्मज्ञानं न स्यात् ततो बाह्येन्द्रियोपरतिवेलायामपि विरोधित्वादस्य तेभ्यः परत्वम्। मनसो बुद्धेः परत्वे हेतुमाह मनसि वृत्त्यन्तरेति। ननु मनसो विषयान्तरवृत्तिवैमुख्ये कथं तद्गोचराध्यवसायप्रवृत्तिः मनसा कञ्चिद्विषयमालम्ब्य तत्रैव हिकुर्यां न कुर्यां इत्याद्यध्यवसीयते उच्यते नात्र मनसो निश्शेषव्यापारनिवृत्तिर्वृत्त्यन्तरवैमुख्यं विवक्षितम् किन्तु बलादप्यशक्यनिरोधस्वारसिकविषयान्तरप्रावण्यनिवृत्तिः। सूचितं चैतत्पूर्ववाक्येमनसि विषयप्रवणे इति। अतो यदृच्छया निद्रालस्यादिभिर्मनसः स्वरसतो विषयैकशरणत्वाभावेऽपि दुराग्रहादिमात्रेण विपरीताध्यवसायप्रवृत्तौ मनसस्तथाविधमपि प्रावण्यं स्यादेव। एवं चमनसस्तु इति तुशब्दः शङ्कानिरासार्थः एवंविधवैलक्षण्यार्थो वा।अध्यवसायादपि कामस्य परत्वे हेतुमाह सर्वेष्विति। वासनाकार्यत्वस्य स्वानुरूपाध्यवसायहेतुत्वस्य च द्योतनायइच्छापर्याय इत्युक्तम्। इन्द्रियमनोबुद्ध्युपरतिवेलायां कथं कामस्योत्पत्तिरित्यत्रोक्तंरजस्समुद्भव इति प्राचीनकर्मोन्मिषितरजोदूषितमनोमात्रसमुद्भव इत्यर्थः। नन्विन्द्रियादीनां विषयान्तरवैमुख्ये सिद्धे विषयेच्छायाः सद्भावेऽपि को विरोधः आत्मानुभवेच्छया तत्रैवाध्यवसायमनःप्रावण्ययोरुपपत्तेरित्यत्रोक्तं स एवेत्यादि। सत्यं आत्मेच्छाप्यस्त्येव सा हि कादाचित्काऽल्पसत्त्वमूला विषयेच्छा तु प्रचितप्राचीनकर्मोद्भावितनिरन्तरानुवृत्तरजोमूला तस्मादात्मेच्छा यावदात्मदर्शनाध्यवसायादिकं करोति तावद्विषयेच्छा प्रबला विषयानुभवाध्यवसायादिकमेव कुर्यादिति भावः। एवमत्र कामस्य पूर्वेषां प्रवर्तकत्ववचनं बुद्धिमनसोरपि पूर्वपूर्वप्रवर्तकत्वस्य उपलक्षणं मन्तव्यम्।रजस्समुद्भवो वर्तयित्वेति पदाभ्यां कामस्याध्यवसायादिनिरपेक्षोत्पत्तिकत्वतदुपकरणत्वलक्षणं वैषम्यं तुशब्दद्योतितं विवृतम् अर्थान्तरपरत्वमनन्वयभ्रमं च निरस्यन्नुक्तार्थपरतया चतुर्थं पादमुपादत्तेतदिदमुच्यत इति।परतः इतिशब्दस्यपूर्ववाक्यत्रयस्थपदशब्दतुल्यार्थत्वात् सार्वविभक्तिकप्रत्ययेन प्रथमार्थत्वं स इत्यस्य प्रकरणसिद्धं विशेष्यं च व्यञ्जयति बुद्धेरपीति।अहङ्कारस्य भोक्त्रधिष्ठानाद्बुद्धेः परत्वं इति केषाञ्चिद्व्याख्यानं प्रकृतासङ्गत्यादिभिरनादरणीयम्।ननुइन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु पराबुद्धिर्बुद्धेरात्मा महान् परः।।महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः इति हि कठवल्ल्यां 1।3।1011 नियन्तव्यवर्गः श्रूयते। स्पष्टं चेदम्आनुमानिकमप्येकेषाम् ब्र.सू.1।4।1 इत्यधिकरणे व्याख्यातम्। अस्मिन्नपि श्लोके तत्प्रत्यभिज्ञायते। न चेन्द्रियमनसोर्मध्येऽर्थानामदर्शनात्महतः परमव्यक्तमव्यक्तात्पुरुषः परः इत्यनयोरनुपादानाच्च भिन्नार्थत्वमिति वाच्यम् सङ्ग्रहविस्तररूपेण कतिपयानभिधानसकलाभिधानयोरुपपत्तेः सृष्टिप्रकरणादिषु कतिपयसमस्तसृज्यतत्त्वादिनिर्देशवत्।आहुः इति बहुवचनात् क्वचिदन्यत्रास्यार्थस्याभिधानमवश्याभ्युपगन्तव्यम् ततश्चयो बुद्धेः परतस्तु सः इत्यस्यबुद्धेरात्मा महान्परः इत्यनेन तुल्यार्थत्वादात्मविषयत्वमेवोचितम् एवं च सतिएवं बुद्धेः परं बुद्ध्वा इत्यादौ उत्तरश्लोकेऽपि द्वितीयान्तात्मशब्दश्चेतनविषयतयोपपन्नतरः स्यात् अतः कथं स काम इति व्याख्यायते उच्यते यद्यपीन्द्रियादित्रयं तदेवात्र प्रत्यभिज्ञातम् तथापि स एव क्रमोऽत्र कात्स्न्र्येन न विवक्षितः पूर्वत्रइन्द्रियाणि मनो बुद्धिः 3।40 इति श्लोके निर्दिष्टानामिन्द्रियादीनां कामपर्यन्तानां चतुर्णां विरोधिनामेवात्र तारतम्यनिर्देशोपपत्तेः इन्द्रियमनोबुद्धीनां च क्रमस्यात्र न कश्चिद्भङ्गः। कठवल्ल्यर्थपरत्वे त्वर्थानामत्रानिर्देशान्मात्रया क्रमभङ्गः स्यात्। विरोधित्वे जेतव्यत्वे च प्रधानतया पूर्वत्रोत्तरत्र च काम एव व्यपदिश्यते। अतः स एवात्र सर्वप्रधानतयायो बुद्धेः परतस्तु सः इति निर्देशमर्हति अन्यथा स इति शब्दस्य विशेष्यमौपनिषदं दूरस्थं स्यात् यदि त्वात्माऽप्यत्र नियन्तव्यतयाऽभिमतः तदाइन्द्रियाणि मनो बुद्धिः 3।40 इत्यत्राप्यात्माप्यधिष्ठानतया व्यपदिश्येत न चैतत् तथाकृतम्। आत्मा हि तत्र चतुर्भिर्मोहनीयतया व्यपदिष्टः अतश्चतुर्णां नियमनमेवानेन कार्यम् तथा सत्युत्तरश्लोकस्थात्मशब्दोऽप्येतदनुरोधेन वर्णनीयः। एतस्यैवानुवादो हिएवं बुद्धेः परम्

Compare this verse →
3.43Krishna

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना। जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥

Commentary · Sanskrit

3.43 इति व्यक्तः। पादद्वयस्थितस्यबुद्ध्वा इत्यादिक्रियाद्वयस्य कर्मद्वयं च भिन्नमेव स्वरसप्रतीतम्। अतस्तत्र द्वितीयान्तात्मशब्दो नियन्तव्यतया निर्दिष्टमनोविषयः। तृतीयान्तस्तु मनोनियमनकरणभूताध्यवसायविषयः।आहुः इति निर्देशस्तु नावश्यमुपनिषदभिप्रायेणइन्द्रियाणां हि चरतां तु सर्वेषां यद्येकं क्षरतीन्द्रियम्। तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् मनुः2।99 इत्याद्यनुसारेण मन्वादय आहुरित्यपि विवक्षोपपत्तेः। तस्मात्यो बुद्धेः परतस्तु सः इति काम एव निर्दिश्यते। तदेतदखिलमभिप्रेत्योक्तंतदिदमुच्यत इत्यारभ्यस काम इत्यर्थ इत्यन्तम्। ।।3.43।।सदृशं चेष्टते 3।33 इत्याद्युपक्रान्तज्ञानयोगसप्रमादतोपसंहारद्वारा मनसः कर्मयोगेऽवस्थापनमभिधायाध्यायार्थोऽप्युपसंह्रियते एवमिति श्लोकेन। कामविजयात्पूर्वं मनसः संस्तम्भनं नाम कर्मयोगे स्थापनमेव न पुनरत्यन्तवशीकृतत्वम् सति हि कामे मनसोऽपि क्षोभः स्यादिति पूर्वमेवोक्तमित्यभिप्रायेणकर्मयोगेऽवस्थाप्येत्युक्तम्।दुरासदं अननुष्ठितकर्मयोगैरनिरस्तपापैरगृहीतसुदृढसत्त्वकवचैः दोषदर्शनेऽप्यपाकर्तुमशक्यमित्यर्थः। अचेतनस्य कामस्य शत्रुत्वारोपेण हिंसनीयत्वोक्तिफलितं तु नाशनमेवेत्यभिप्रायेणप्रजहि 3।41जहि इत्यनयोर्नाशयेति व्याख्या।इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषुश्रीमद्भगवद्गीतारामानुजभाष्यटीकायां तात्पर्यचन्द्रिकायां तृतीयोऽध्यायः।।3।।

Compare this verse →