6.1Krishna

श्रीभगवानुवाच। अनाश्रितः कर्मफलं कार्यं कर्म करोति यः। स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥

Commentary · Sanskrit

।।6.1 6.2।।एवं प्राक्तनेनाध्यायगणेन साधितोऽर्थः श्लोकद्वयेन निगद्यते अनाश्रित इति। य संन्यासमिति। कार्यं स्वजात्यादिविहितम्। संन्यासी (S संन्यासीति) योगीति पर्यायावेतौ। अत एवाह यं संन्यासमिति। तथा च योगमन्तरेण संन्यासो नोपपद्यते। एवं संकल्पसंन्यासं विना योगो न युज्यते। तस्मात्सततसंबद्धौ योगसंन्यासौ। न निरग्निरित्यादिना अयमर्थो ध्वन्यते निरग्निश्च न भवति निष्क्रियश्च न भवति अथ च संन्यासी इत्यद्भुतम् इति।

Translation · English

6.1 See Comment under 6.2

Compare this verse →
6.2Krishna

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव। न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥

Commentary · Sanskrit

।।6.1 6.2।।एवं प्राक्तनेनाध्यायगणेन साधितोऽर्थः श्लोकद्वयेन निगद्यते अनाश्रित इति। य संन्यासमिति। कार्यं स्वजात्यादिविहितम्। संन्यासी (S संन्यासीति) योगीति पर्यायावेतौ। अत एवाह यं संन्यासमिति। तथा च योगमन्तरेण संन्यासो नोपपद्यते। एवं संकल्पसंन्यासं विना योगो न युज्यते। तस्मात्सततसंबद्धौ योगसंन्यासौ। न निरग्निरित्यादिना अयमर्थो ध्वन्यते निरग्निश्च न भवति निष्क्रियश्च न भवति अथ च संन्यासी इत्यद्भुतम् इति।

Translation · English

6.1-2 The subject matter that has been thus established in the series of the preceding chapters is summarised by a couple of verses. Anasritah etc. Yam etc. Bounden : Ordained [in the law books] according to one's caste etc. [Thus] man-lf-renunciation and man-of-Yoga are synonyms. That is why [the Lord] says, 'what [the learned] call renunciation' etc. Therefore, without Yoga no renunciation is possible. Similarly Yoga is not possible without renouncing the intention [for fruit]. Conseently, the Yoga and renunciation are ever interlinked. The idea, suggested by 'not he who remains [simply] without his fires etc.' is this : He remains neither without fires, nor without actions and yet he is man of renunciation, Hence this is strange. Of course, following the principle [involved in the statement] 'Playing dice is the kingship, without throne', and following logic it has been asserted already that renunciation is not possible for a person who remains simply without actions. Yet-

Compare this verse →
6.3Krishna

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते ॥

Commentary · Sanskrit

।।6.3।।यद्यपि द्यूतम् (N हतम्) असिंहासननं राज्यम् इति रीत्या युक्त्या च केवलस्य निष्क्रियस्य संन्यासित्वं नोपपद्यते (K उपपद्यते) इत्युक्तम्। तथापि आरुरुक्षोरिति मुनेः ज्ञानवतः कर्म करणीयम् कारणं प्रापकम्। शमः प्राप्तभूमावुपरमः (NK भूमावनुपरमः)। कारणमत्र लक्षणम्।

Translation · English

6.3 Aruruksoh etc for a sage : For a man of wisdom. Action : that which reires to be performed. Cause (1st) : a means to attain. Quietude : to remain uninterrupted at the stage [already] achieved. Here Cause (2nd) is an indicator. The same idea is made clear as-

Compare this verse →
6.4Krishna

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते। सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥

Commentary · Sanskrit

।।6.4।।एष एवार्थः प्रकाश्यते यदेति। इन्द्रियार्थाः विषयाः तदर्थानि च कर्माणि विषयार्जनादीनि।

Translation · English

6.4 Yada etc. What is desired by the senses : Objects of senses. The actions for them : actions such as earning the objects and so on. In this [path of] knowledge one should be necessarily attentive. This [the Lord] says-

Compare this verse →
6.5Krishna

उद्धरेदात्मनात्मानं नात्मानमवसादयेत्। आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥

Commentary · Sanskrit

।।6.5 6.6।।अस्यां च बुद्धौ अवश्यमेवावधेयमित्याह उद्धरेदिति। बन्धुरिति। अत्र च नान्य उपायः अपि तु आत्मैव मन एवेत्यर्थः। जितं हि मनो मित्रं घोरतरसंसारोद्धरणं करोति अजितं तु तीव्रनिरयपातनात् शत्रुत्वं कुरुते।

Translation · English

6.5 See Comment under 6.6

Compare this verse →
6.6Krishna

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः। अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥

Commentary · Sanskrit

।।6.5 6.6।।अस्यां च बुद्धौ अवश्यमेवावधेयमित्याह उद्धरेदिति। बन्धुरिति। अत्र च नान्य उपायः अपि तु आत्मैव मन एवेत्यर्थः। जितं हि मनो मित्रं घोरतरसंसारोद्धरणं करोति अजितं तु तीव्रनिरयपातनात् शत्रुत्वं कुरुते।

Translation · English

6.5-6 Uddharet etc. Bandhuh etc. In this [path] there is no other means excepting the self i.e. nothing but one's mind. Indeed the subdued mind is a friend and it lifts up [the Self] from the highly dreadful cycle of birth and death. But the unsubdued one does the act of enmity as it throws [the Self] down in the horrible hell. The characteristic mark of the subdued-minded man is this :

Compare this verse →
6.7Krishna

जितात्मनः प्रशान्तस्य परमात्मा समाहितः। शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥

Commentary · Sanskrit

।।6.7।।तत्र जितमनस इदं रूपम् जितेति। प्रशान्तो निरहंकारः। परेषु आत्मनि च शीतोष्णादिषु च अभेदधीः न रागद्वेषौ।

Translation · English

6.7 Jita-etc. A person with complete calmness : a person without ego. [The thinking etc.] ; A thinking that entertains no difference in the case of others and of himself, and of cold and heat etc., i.e., [entertains] no like and dislike [for them].

Compare this verse →
6.8Krishna

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः। युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥

Commentary · Sanskrit

।।6.8।।ज्ञानेति। ज्ञानम् अभ्रान्ता बुद्धिः। विविधं ज्ञानं यत्र तत् विज्ञानम् प्रग्युक्त्युदितं कर्म।

Translation · English

6.8 Jnana - etc. Knowledge : a knowledge which is different from the false one. What consists of varied thoughts : the action in which varied thoughts are involved, i.e. the action that is born as result of preceding thoughts of reasoning.

Compare this verse →
6.9Krishna

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु। साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥

Commentary · Sanskrit

।।6.9।।सुहृदिति। सुहृत् यस्य हृदयम् अकारणमेव शोभनम्। मित्रत्वम् अन्योन्यम्। अरित्वं परस्परम्। उदासीन एतदुभयरहितः (S N K (n) एतद्रूपरहितः) मध्यस्थः केनचिदंशेन मित्रं केनचिच्छत्रुः। द्वेषार्हो द्वेष्टुमशक्यो (N द्वेष्टुं शक्यः) द्वेष्यः। बन्धुः योन्यादिसंबन्धेन। एतेषु सर्वेषु समधीः एवं साधुषु पापेषु च स च विशिष्यते क्रमात् क्रम संसारात् तरति।

Translation · English

6.9 Suhrt etc. Friend is one whose heart remains good and auspicious without cause (on its own accord). Companionship is [that which is felt] mutually. Enmity is [also that which is felt] between one another. The indifferent one : the one, who is free from both these. One who remains in the middle : he who is partly a friend and partly an enemy. Foe : he who deserves to be hated, [but] cannot be hated. Relative : the one [connected] by marital bondage. Whosoever is with his mind eal to all these as well as to the righteous and the sinful; he excells [all] i.e., stage after stage he goes out of the cycle of birth-and-death. By the worshipful-footed persons of this sort -

Compare this verse →
6.10Krishna

योगी युञ्जीत सततमात्मानं रहसि स्थितः। एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥

Commentary · Sanskrit

।।6.10 6.15।।ननु जितात्मनः इत्युक्तम् तत्कथं तज्जय इत्याशङ्क्य आरुरुक्षोः कश्चिदुपायः कायसमत्वादिकः (SN कायसमुद्धारकः) चित्तसंयम उपदिश्यते योगीत्यादि अधिगच्छतीत्यन्तम्। आत्मानं च चित्तं च युञ्जीत एकाग्रीकुर्यात्। सततमिति न परिमितं कालम्। एकाकित्वादिषु सत्सु एतद्युज्यते ( N युञ्जीत) नान्यथा। आसनस्थैर्यात् कालस्थैर्ये (S कालस्थैर्यम्) चित्तस्थैर्यम्। चित्तक्रियाः संकल्पात्मनः अन्याश्चेन्द्रियक्रिया येन यताः नियमं नीताः। धारयन् यत्नेन। नासिकाग्रस्यावलोकने सति दिशामनवलोकनम्। मत्परमतया युक्त आसीत (N आसीत्) इत्यर्थः (S omits इत्यर्थः)। एवमात्मानं युञ्जतः समादधतः शान्तिर्जायते यस्यां संस्थापर्यन्तकाष्ठा मत्प्राप्तिः (K प्राप्तिर्योगोऽस्तीति)।

Translation · English

6.10 See Comment under 6.15

Compare this verse →
6.11Krishna

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः। नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥

Commentary · Sanskrit

।।6.10 6.15।।ननु जितात्मनः इत्युक्तम् तत्कथं तज्जय इत्याशङ्क्य आरुरुक्षोः कश्चिदुपायः कायसमत्वादिकः (SN कायसमुद्धारकः) चित्तसंयम उपदिश्यते योगीत्यादि अधिगच्छतीत्यन्तम्। आत्मानं च चित्तं च युञ्जीत एकाग्रीकुर्यात्। सततमिति न परिमितं कालम्। एकाकित्वादिषु सत्सु एतद्युज्यते ( N युञ्जीत) नान्यथा। आसनस्थैर्यात् कालस्थैर्ये (S कालस्थैर्यम्) चित्तस्थैर्यम्। चित्तक्रियाः संकल्पात्मनः अन्याश्चेन्द्रियक्रिया येन यताः नियमं नीताः। धारयन् यत्नेन। नासिकाग्रस्यावलोकने सति दिशामनवलोकनम्। मत्परमतया युक्त आसीत (N आसीत्) इत्यर्थः (S omits इत्यर्थः)। एवमात्मानं युञ्जतः समादधतः शान्तिर्जायते यस्यां संस्थापर्यन्तकाष्ठा मत्प्राप्तिः (K प्राप्तिर्योगोऽस्तीति)।

Translation · English

6.11 See Comment under 6.15

Compare this verse →
6.12Krishna

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः। उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥

Commentary · Sanskrit

।।6.10 6.15।।ननु जितात्मनः इत्युक्तम् तत्कथं तज्जय इत्याशङ्क्य आरुरुक्षोः कश्चिदुपायः कायसमत्वादिकः (SN कायसमुद्धारकः) चित्तसंयम उपदिश्यते योगीत्यादि अधिगच्छतीत्यन्तम्। आत्मानं च चित्तं च युञ्जीत एकाग्रीकुर्यात्। सततमिति न परिमितं कालम्। एकाकित्वादिषु सत्सु एतद्युज्यते ( N युञ्जीत) नान्यथा। आसनस्थैर्यात् कालस्थैर्ये (S कालस्थैर्यम्) चित्तस्थैर्यम्। चित्तक्रियाः संकल्पात्मनः अन्याश्चेन्द्रियक्रिया येन यताः नियमं नीताः। धारयन् यत्नेन। नासिकाग्रस्यावलोकने सति दिशामनवलोकनम्। मत्परमतया युक्त आसीत (N आसीत्) इत्यर्थः (S omits इत्यर्थः)। एवमात्मानं युञ्जतः समादधतः शान्तिर्जायते यस्यां संस्थापर्यन्तकाष्ठा मत्प्राप्तिः (K प्राप्तिर्योगोऽस्तीति)।

Translation · English

6.12 See Comment under 6.15

Compare this verse →
6.13Krishna

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः। सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥

Commentary · Sanskrit

।।6.10 6.15।।ननु जितात्मनः इत्युक्तम् तत्कथं तज्जय इत्याशङ्क्य आरुरुक्षोः कश्चिदुपायः कायसमत्वादिकः (SN कायसमुद्धारकः) चित्तसंयम उपदिश्यते योगीत्यादि अधिगच्छतीत्यन्तम्। आत्मानं च चित्तं च युञ्जीत एकाग्रीकुर्यात्। सततमिति न परिमितं कालम्। एकाकित्वादिषु सत्सु एतद्युज्यते ( N युञ्जीत) नान्यथा। आसनस्थैर्यात् कालस्थैर्ये (S कालस्थैर्यम्) चित्तस्थैर्यम्। चित्तक्रियाः संकल्पात्मनः अन्याश्चेन्द्रियक्रिया येन यताः नियमं नीताः। धारयन् यत्नेन। नासिकाग्रस्यावलोकने सति दिशामनवलोकनम्। मत्परमतया युक्त आसीत (N आसीत्) इत्यर्थः (S omits इत्यर्थः)। एवमात्मानं युञ्जतः समादधतः शान्तिर्जायते यस्यां संस्थापर्यन्तकाष्ठा मत्प्राप्तिः(K प्राप्तिर्योगोऽस्तीति)।

Translation · English

6.13 See Comment under 6.15

Compare this verse →
6.14Krishna

प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः। मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥

Commentary · Sanskrit

।।6.10 6.15।।ननु जितात्मनः इत्युक्तम् तत्कथं तज्जय इत्याशङ्क्य आरुरुक्षोः कश्चिदुपायः कायसमत्वादिकः (SN कायसमुद्धारकः) चित्तसंयम उपदिश्यते योगीत्यादि अधिगच्छतीत्यन्तम्। आत्मानं च चित्तं च युञ्जीत एकाग्रीकुर्यात्। सततमिति न परिमितं कालम्। एकाकित्वादिषु सत्सु एतद्युज्यते ( N युञ्जीत) नान्यथा। आसनस्थैर्यात् कालस्थैर्ये (S कालस्थैर्यम्) चित्तस्थैर्यम्। चित्तक्रियाः संकल्पात्मनः अन्याश्चेन्द्रियक्रिया येन यताः नियमं नीताः। धारयन् यत्नेन। नासिकाग्रस्यावलोकने सति दिशामनवलोकनम्। मत्परमतया युक्त आसीत (N आसीत्) इत्यर्थः (S omits इत्यर्थः)। एवमात्मानं युञ्जतः समादधतः शान्तिर्जायते यस्यां संस्थापर्यन्तकाष्ठा मत्प्राप्तिः (K प्राप्तिर्योगोऽस्तीति)।

Translation · English

6.14 See Comment under 6.15

Compare this verse →
6.15Krishna

युञ्जन्नेवं सदात्मानं योगी नियतमानसः। शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥

Commentary · Sanskrit

।।6.10 6.15।।ननु जितात्मनः इत्युक्तम् तत्कथं तज्जय इत्याशङ्क्य आरुरुक्षोः कश्चिदुपायः कायसमत्वादिकः (SN कायसमुद्धारकः) चित्तसंयम उपदिश्यते योगीत्यादि अधिगच्छतीत्यन्तम्। आत्मानं च चित्तं च युञ्जीत एकाग्रीकुर्यात्। सततमिति न परिमितं कालम्। एकाकित्वादिषु सत्सु एतद्युज्यते ( N युञ्जीत) नान्यथा। आसनस्थैर्यात् कालस्थैर्ये (S कालस्थैर्यम्) चित्तस्थैर्यम्। चित्तक्रियाः संकल्पात्मनः अन्याश्चेन्द्रियक्रिया येन यताः नियमं नीताः। धारयन् यत्नेन। नासिकाग्रस्यावलोकने सति दिशामनवलोकनम्। मत्परमतया युक्त आसीत (N आसीत्) इत्यर्थः (S omits इत्यर्थः)। एवमात्मानं युञ्जतः समादधतः शान्तिर्जायते यस्यां संस्थापर्यन्तकाष्ठा मत्प्राप्तिः (K प्राप्तिर्योगोऽस्तीति)।

Translation · English

6.10-15 Yogi etc. upto adhigacchati. Self : the mind. Let him yoke it : let him make it single-pointed. Always : not for a limited period of time. If the conditions like remaining alone etc., are fulfilled, this [controlling of mind] is possible and not otherwise. On account of the firmness of seat, the time-nerve (or the body ?) remains firm and due to this, mind remains firm. He, by whom the mental activities i.e., those that are in the form of intention, and other activities of the sense-organs are subdued i.e., are brought under full control; [he is the person of the subdued mental and sensual activities]. Holding : i.e., with effort. If the nose-tip is looked at, [it is possible] not to look at [different] directions. Let him remain endowed with the state of having Me alone as supreme goal. This is the meaning [here]. He who yokes i.e., concentrates his self (mind) in this manner, there arises for him Peace in which the culmination - as far as the end-is the same as attaining Me.

Compare this verse →
6.16Krishna

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः। न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥

Commentary · Sanskrit

।।6.16 6.17।।योगोऽस्तीति। युक्ताहारेति। आहारेषु (N योऽपि आहारेषु) आह्रियमाणेषु विषयेषु ( omits विषयेषु)। विहारः उपभोगाय प्रवृत्तिः (SK (n) उपयोगाय प्रवृत्तिः)। तस्याश्च युक्तत्वं नात्यन्तासक्तिर्नात्यन्तपरिवर्जनम्। एवं सर्वत्र। शिष्टं स्पष्टम्। जागरत इत्यादि मुनेः प्रमाणत्वात्(N जाग्रत इति मनःप्रमाणत्वात्) वेदवत्। एवमन्यत्रापि।

Translation · English

6.16 See Comment under 6.17

Compare this verse →
6.17Krishna

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु। युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥

Commentary · Sanskrit

।।6.16 6.17।।योगोऽस्तीति। युक्ताहारेति। आहारेषु (N योऽपि आहारेषु) आह्रियमाणेषु विषयेषु ( omits विषयेषु)। विहारः उपभोगाय प्रवृत्तिः (SK (n) उपयोगाय प्रवृत्तिः)। तस्याश्च युक्तत्वं नात्यन्तासक्तिर्नात्यन्तपरिवर्जनम्। एवं सर्वत्र। शिष्टं स्पष्टम्। जागरत इत्यादि मुनेः प्रमाणत्वात्(N जाग्रत इति मनःप्रमाणत्वात्) वेदवत्। एवमन्यत्रापि।

Translation · English

6.16-17 Yogosti etc. Yuktahara etc. For foods : for sense-objects that are being brought [by sense-organs]. Effort : activity for enjoying [them]. Its appropriateness is neither to have unlimited indulgence, nor to have unlimited abstention. The same is in all cases. The rest [of the text] is clear. On the authority of the Sage [Vyasa], the form jagaratah etc. [may be viewed correct] as those in the Vedic literature. The same is in other similar instances also.

Compare this verse →
6.18Krishna

यदा विनियतं चित्तमात्मन्येवावतिष्ठते। निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥

Commentary · Sanskrit

।।6.18।।यदेति। अस्य च योगिनश्चिह्नम् आत्मन्येव नियतमना न किंचिदपि स्पृहयते।

Translation · English

6.18 Yada etc. The distinguishing mark of this man of Yoga is : Havnig his mind controlled in nothing but the Self, he does not crave at all [for anything].

Compare this verse →
6.19Krishna

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता। योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥

Commentary · Sanskrit

।।6.19।।यथेति। यथा निवातस्थो (S omits निवातस्थो) दीपो न चलति एवं योगी। चलनमस्य विषयादीनामर्जनादयः प्रयासाः।

Translation · English

6.19 Yatha etc. Just as a lamp existing in the windless palce does not shake, so is the man of Yoga. Shaking in his case is the efforts like aciring sense objects and so on. Now, the characteristic of this Brahman - Itself being Its own nature - is described indirectly with a good number of adjectives. This is different from the characteristics assumed in other systems -

Compare this verse →
6.20Krishna

यत्रोपरमते चित्तं निरुद्धं योगसेवया। यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥

Commentary · Sanskrit

।।6.20 6.23।।इदानीं तस्य स्वस्वभावस्य ब्रह्मणो बहुतरविशेषणद्वारेण स्वरूपं निरूप्यते यः तीर्थान्तरकल्पितेभ्यश्च रूपेभ्यो व्यतिरेकः यत्रेत्यादि अनिर्विण्णचेतसा इत्यन्तम्। यत्र मनो निरुद्धम् उपरमते स्वयमेव। आत्यन्तिकं विषयकृतकालुष्याभावात् सुखं यत्र वेत्ति। अपरो लाभो धनदारपुत्रादीनां संनियोगलब्धश्च योगः अन्यत्र सुखधीर्निवर्तते च इति वस्तुस्वभावोऽयमित्यर्थः। न विचाल्यते विशेषेण न चाल्यते अपि तु संस्कारमात्रेणैवास्यप्रथमक्षणमात्रमेव चलनं कारुण्यादिवशात् न तु मूढतया विनष्टो बताहम्। किं मया प्रतिपत्तव्यम् इत्यादि। दुःखसंयोगस्य वियोगो यतः स च निश्चयेन आस्तिकताजनितया श्रद्धया सर्वथा योक्तव्यः अभ्यसनीयः। अनिर्विण्णम् उपेयप्राप्तौ दृढतरं संसारं दुःखबहुलम् प्रति निर्विण्णं वा (S N omit वा) चेतो यस्य।

Translation · English

6.20 See Comment under 6.23

Compare this verse →
6.21Krishna

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम्। वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥

Commentary · Sanskrit

।।6.20 6.23।।इदानीं तस्य स्वस्वभावस्य ब्रह्मणो बहुतरविशेषणद्वारेण स्वरूपं निरूप्यते यः तीर्थान्तरकल्पितेभ्यश्च रूपेभ्यो व्यतिरेकः यत्रेत्यादि अनिर्विण्णचेतसा इत्यन्तम्। यत्र मनो निरुद्धम् उपरमते स्वयमेव। आत्यन्तिकं विषयकृतकालुष्याभावात् सुखं यत्र वेत्ति। अपरो लाभो धनदारपुत्रादीनां संनियोगलब्धश्च योगः अन्यत्र सुखधीर्निवर्तते च इति वस्तुस्वभावोऽयमित्यर्थः। न विचाल्यते विशेषेण न चाल्यते अपि तु संस्कारमात्रेणैवास्य प्रथमक्षणमात्रमेव चलनं कारुण्यादिवशात् न तु मूढतया विनष्टो बताहम्। किं मया प्रतिपत्तव्यम् इत्यादि। दुःखसंयोगस्य वियोगो यतः स च निश्चयेन आस्तिकताजनितया श्रद्धया सर्वथा योक्तव्यः अभ्यसनीयः। अनिर्विण्णम् उपेयप्राप्तौ दृढतरं संसारं दुःखबहुलम् प्रति निर्विण्णं वा (S N omit वा) चेतो यस्य।

Translation · English

6.20 See Comment under 6.23

Compare this verse →
6.22Krishna

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः। यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥

Commentary · Sanskrit

।।6.20 6.23।।इदानीं तस्य स्वस्वभावस्य ब्रह्मणो बहुतरविशेषणद्वारेण स्वरूपं निरूप्यते यः तीर्थान्तरकल्पितेभ्यश्च रूपेभ्यो व्यतिरेकः यत्रेत्यादि अनिर्विण्णचेतसा इत्यन्तम्। यत्र मनो निरुद्धम् उपरमते स्वयमेव। आत्यन्तिकं विषयकृतकालुष्याभावात् सुखं यत्र वेत्ति। अपरो लाभो धनदारपुत्रादीनां संनियोगलब्धश्च योगः अन्यत्र सुखधीर्निवर्तते च इति वस्तुस्वभावोऽयमित्यर्थः। न विचाल्यते विशेषेण न चाल्यते अपि तु संस्कारमात्रेणैवास्य प्रथमक्षणमात्रमेव चलनं कारुण्यादिवशात् न तु मूढतया विनष्टो बताहम्। किं मया प्रतिपत्तव्यम् इत्यादि। दुःखसंयोगस्य वियोगो यतः स च निश्चयेन आस्तिकताजनितया श्रद्धया सर्वथा योक्तव्यः अभ्यसनीयः। अनिर्विण्णम् उपेयप्राप्तौ दृढतरं संसारं दुःखबहुलम् प्रति निर्विण्णं वा (S N omit वा) चेतो यस्य।

Translation · English

6.20 See Comment under 6.23

Compare this verse →
6.23Krishna

तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम्। स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥

Commentary · Sanskrit

।।6.20 6.23।।इदानीं तस्य स्वस्वभावस्य ब्रह्मणो बहुतरविशेषणद्वारेण स्वरूपं निरूप्यते यः तीर्थान्तरकल्पितेभ्यश्च रूपेभ्यो व्यतिरेकः यत्रेत्यादि अनिर्विण्णचेतसा इत्यन्तम्। यत्र मनो निरुद्धम् उपरमते स्वयमेव। आत्यन्तिकं विषयकृतकालुष्याभावात् सुखं यत्र वेत्ति। अपरो लाभो धनदारपुत्रादीनां संनियोगलब्धश्च योगः अन्यत्र सुखधीर्निवर्तते च इति वस्तुस्वभावोऽयमित्यर्थः। न विचाल्यते विशेषेण न चाल्यते अपि तु संस्कारमात्रेणैवास्य प्रथमक्षणमात्रमेव चलनं कारुण्यादिवशात् न तु मूढतया विनष्टो बताहम्। किं मया प्रतिपत्तव्यम् इत्यादि। दुःखसंयोगस्य वियोगो यतः स च निश्चयेन आस्तिकताजनितया श्रद्धया सर्वथा योक्तव्यः अभ्यसनीयः। अनिर्विण्णम् उपेयप्राप्तौ दृढतरं संसारं दुःखबहुलम् प्रति निर्विण्णं वा (S N omit वा) चेतो यस्य।

Translation · English

6.20-23 Yatra etc. upto anirvinna-cetasa. Where the mind well restrained remains iet : i.e., on its own accord. Where he realises the limitless Bliss : Becuase the dirts created by the sense-objects are absent. Any other gain : the gain obtained through the close contacts with wealth. wives, childeren etc. The idea is : With regard to other objects, the notion of their being sources of pleasure disappears; and it is the nature of the thing in estion. Not shaken much : not shaken to a great extent; [hence] there is yet [a little] shaking in him, purely due to [former] mental impression; and it lasts only for a moment due to his compassion [towards all creatures], and not due to the wrong notions like 'Alas ! I am undone ! What is to done by me.' and so on. That, due to which the cessation of contact with misery results-that must be yoked i.e., practised (concentrated upon) by all means, with determination i.e., with faith, born of the belief [in the Self]. Of undepressed mind. i.e., because the goal has been reached. Or of depressed mind : i.e., depressed that the birth-and-death-cycle is very firm and is full of misery. The means for abandoning desire is to abandon intention. This (the Lord) says :

Compare this verse →
6.24Krishna

सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः। मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥

Commentary · Sanskrit

।।6.24 6.25।।कामानां त्यागे (SN कामानामुपायत्यागे) उपायः संकल्पत्याग इत्याह संकल्पेति। शनैः शनैरिति। मनसैव न (S omit न) व्यापारोपरमेण। धृतिं गृहीत्वा क्रमात् क्रममभिलाषदुःखं प्रतनूकृत्य किंचिदपि विषयाणां त्यागग्रहणादिकं न चिन्तयेत्।यत्तु (S यथात्वन्यैर् यथा तु कैश्चिद्) अन्यैर्व्याख्यातम् नकिञ्चिदपि चिन्तयेत् इति तन्नास्मभ्यं रुचितम्। शून्यवादप्रसंगात्।।6.24 6.25।।कामानां त्यागे (SN कामानामुपायत्यागे) उपायः संकल्पत्याग इत्याह संकल्पेति। शनैः शनैरिति। मनसैव न (S omit न) व्यापारोपरमेण। धृतिं गृहीत्वा क्रमात् क्रममभिलाषदुःखं प्रतनूकृत्य किंचिदपि विषयाणां त्यागग्रहणादिकं न चिन्तयेत्।यत्तु (S यथात्वन्यैर् यथा तु कैश्चिद्) अन्यैर्व्याख्यातम् नकिञ्चिदपि चिन्तयेत् इति तन्नास्मभ्यं रुचितम्। शून्यवादप्रसंगात्।

Translation · English

6.24 See Comment under 6.25

Compare this verse →
6.25Krishna

शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया। आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥

Commentary · Sanskrit

।।6.24 6.25।।कामानां त्यागे (SN कामानामुपायत्यागे) उपायः संकल्पत्याग इत्याह संकल्पेति। शनैः शनैरिति। मनसैव न (S omit न) व्यापारोपरमेण। धृतिं गृहीत्वा क्रमात् क्रममभिलाषदुःखं प्रतनूकृत्य किंचिदपि विषयाणां त्यागग्रहणादिकं न चिन्तयेत्।यत्तु (S यथात्वन्यैर् यथा तु कैश्चिद्) अन्यैर्व्याख्यातम् नकिञ्चिदपि चिन्तयेत् इति तन्नास्मभ्यं रुचितम्। शून्यवादप्रसंगात्।।6.24 6.25।।कामानां त्यागे (SN कामानामुपायत्यागे) उपायः संकल्पत्याग इत्याह संकल्पेति। शनैः शनैरिति। मनसैव न (S omit न) व्यापारोपरमेण। धृतिं गृहीत्वा क्रमात् क्रममभिलाषदुःखं प्रतनूकृत्य किंचिदपि विषयाणां त्यागग्रहणादिकं न चिन्तयेत्।यत्तु (S यथात्वन्यैर् यथा तु कैश्चिद्) अन्यैर्व्याख्यातम् नकिञ्चिदपि चिन्तयेत् इति तन्नास्मभ्यं रुचितम्। शून्यवादप्रसंगात्।

Translation · English

6.24-25 Sankalpa - etc. Sanaih etc. By mind alone : i.e., not by withdrawing from activities. Holding steadiness; thinning, step after step, the misery born of desired; let him not think anything like receiving and abandoning objects and so on. Others have explained [the passage] as 'Let him think only negation (or void). But this (explanation) is not up to our taste. For, that world result in the doctrine of nihilism. What is to be achieved is not a mere withdrawl [or one-self] from the objects. This is stated as -

Compare this verse →
6.26Krishna

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्। ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥

Commentary · Sanskrit

।।6.26 6.28।।न च विषयव्युपरममात्रमेव प्राप्यमित्युच्यते यत इत्यादि अधिगच्छतीत्यन्तम्। यतो यतो मनो निवर्तते तन्निवर्तनसमनन्तरमेव आत्मनि शमयेत्। अन्यथा अप्रतिष्ठं चित्तं पुनरपि विषयानेवावलम्बते। तत्र आत्मनि शान्तचित्तं योगिनं कर्मभूतं सुखं कर्तृभूतम् उपैति। अनेनैव क्रमेण योगिनां सुखेन ब्रह्मावाप्तिः न तु कष्टयोगादिनेति तात्पर्यम्।

Translation · English

6.26 See Comment under 6.28

Compare this verse →
6.27Krishna

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्। उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥

Commentary · Sanskrit

।।6.26 6.28।।न च विषयव्युपरममात्रमेव प्राप्यमित्युच्यते यत इत्यादि अधिगच्छतीत्यन्तम्। यतो यतो मनो निवर्तते तन्निवर्तनसमनन्तरमेव आत्मनि शमयेत्। अन्यथा अप्रतिष्ठं चित्तं पुनरपि विषयानेवावलम्बते। तत्र आत्मनि शान्तचित्तं योगिनं कर्मभूतं सुखं कर्तृभूतम् उपैति। अनेनैव क्रमेण योगिनां सुखेन ब्रह्मावाप्तिः न तु कष्टयोगादिनेति तात्पर्यम्।

Translation · English

6.27 See Comment under 6.27

Compare this verse →
6.28Krishna

युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः। सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥

Commentary · Sanskrit

।।6.26 6.28।।न च विषयव्युपरममात्रमेव प्राप्यमित्युच्यते यत इत्यादि अधिगच्छतीत्यन्तम्। यतो यतो मनो निवर्तते तन्निवर्तनसमनन्तरमेव आत्मनि शमयेत्। अन्यथा अप्रतिष्ठं चित्तं पुनरपि विषयानेवावलम्बते। तत्र आत्मनि शान्तचित्तं योगिनं कर्मभूतं सुखं कर्तृभूतम् उपैति। अनेनैव क्रमेण योगिनां सुखेन ब्रह्मावाप्तिः न तु कष्टयोगादिनेति तात्पर्यम्।

Translation · English

6.26-28 Yatah etc. upto adhigacchati. From whatever objects the mind returns, immediately after its return, let him ieten it on the Self. Otherwise, being not firmly established [in the Self], the mind would again take hold of nothing but the sense-objects. But the Bliss, assuming the roll of an agent (or subject, kartv-bhuta) comes to the object (karmabhuta), viz., the man-of-Yoga, whose mind remains ite in the Self. By this way alone the men-of-Yoga attain the Brahman easily and not by [any] difficult Yoga etc. This is the idea [here].

Compare this verse →
6.29Krishna

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि। ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥

Commentary · Sanskrit

।।6.29।।सर्वेति। सर्वेषु भूतेषु आत्मानं ग्राहकतया (K ग्राहकरूपतया) अनुप्रविशन्तं भावयेत्। आत्मनि च ग्राह्यताज्ञानद्वारेण सर्वाणि भूतानि एकीकुर्यात्। अतश्च समदर्शनत्वं जायते ( ज्ञायते) योगश्चेति संक्षेपार्थः। विस्तरस्तु भेदवादविदारणादिप्रकरणे देवीस्तोत्रविवरणे च मयैव निर्णीत इति तत्रैवावधार्य (SK तत एवाव )।

Translation · English

6.29 Sarva - etc. Let him consider the Self to be entering into (i.e., inherent in and manifesting as) all beings as a perceiver (or as a subject); again let him unify all beings in the Self through his realisation of the Self as being object [for them]. As a result of this, there arises a capacity to observe eally and also arises the Yoga. This is in short what is meant here. The details have been dealt with by myself (Ag.) in [my] manual, like the bhedavadavidarana and [my commentary], the Devistotra-Vivarana; and hence they may be ascertained there only. The same idea is made clear [as] -

Compare this verse →
6.30Krishna

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति। तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥

Commentary · Sanskrit

।।6.30।।एष एवार्थः स्पष्टीक्रियते (K omits this sentence ) यो मामिति। प्रणाशः अकार्यकारित्वात् (S कारकत्वात्)। तथाहि परमात्मनः सर्वगतं रूपं यो न पश्यति तस्य परमात्मा पलायितः स्वरूपप्रकटीकाराभावात्। यच्चेदं (N यश्चेदम्) वस्तुजातं तत् तद्भासनात्मनि परमात्मनि ( omits परमात्मनि) निर्विष्टं भाति ( SK विनिविष्टं भाति ( K भवति) तथाविधं यो न पश्यति स परमात्मस्वरूपात् प्रणष्टः तद्व्यतिरेके सति अनिर्भासनात्। यस्तु सर्वगतं मां पश्यति तस्याहं न प्रणष्टः स्वरूपेण भासनात्। भावांश्च मयि पश्यति तत् तेषां भासनोपपत्तौ द्रष्टृतायां परिपूर्णायां स न प्रणष्टः परमात्मनः।

Translation · English

6.30 Yo Mam etc. Loss : i.e., on account of serving no purpose [on the part of a thing]. For example : He who does not see the all-pervasive nature of the Supreme Self, from him the Supreme Self has fled away, because It does not reveal Its own nature. Further, this aggregate of objects, which is being perceived, remains settled down in the Supreme Self, which is the very nature of their illumination (being known). Now, whosoever fails to veiw the object as such, he gets lost from the naute of that Supreme Self. For, nothing shines without It. On the other hand, he who finds Me (the Supreme Consciousness) as immanent in all - for him I am not lost; because I appear [to him] in my own nature. [Again], when he perceives objects in Me-when his perceiverhood is complete on account of the possibility of illumination and manifestation of these objects due to This - then he is not lost for the Supreme Self.

Compare this verse →
6.31Krishna

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः। सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥

Commentary · Sanskrit

।।6.31।।सर्वेति। यस्त्वेवं ज्ञानाविष्टः सोऽवश्यमेव (N ज्ञानाविष्टोऽसाववश्यमेव S वश्यमेकतया) एकतया भगवन्तं सर्वगतं विदन् सर्वावस्थागतोऽपि न लिप्यते।

Translation · English

6.31 Sarva - etc. Whosoever is completely possessed of the knowledge of this kind, he necessarily realises the Bhagavat as one and immanent in all and does not get stained [by any of his actions] is whatever condition he is.

Compare this verse →
6.32Krishna

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन। सुखं वा यदि वा दुःखं स योगी परमो मतः ॥

Commentary · Sanskrit

।।6.32।।आत्मौपम्येनेति। सर्वस्य च सुखदुःखे आत्मतुल्यतया पश्यतीति स्वरूपमेतदनूदितम् न पुनरेषोऽपूर्वो विधिः।

Translation · English

6.32 Atma-etc. 'That he finds the pleasure and pain of all on analogy of himself'. This is only a statement of characteristic mark [of the Yogin]; and it is not an injunction enjoining a new action.

Compare this verse →
6.33Arjuna

अर्जुन उवाच। योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन। एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥

Commentary · Sanskrit

।।6.33 6.34।।योऽयमिति। चञ्चलमिति। यः अयम् इति परोक्षप्रत्यक्षवाचकाभ्यामेवं सूच्यते भगवदभिहितानन्तरोपायपरम्परया स्पुटमपि प्रत्यक्षनिर्दिष्टमपि ब्रह्म मनसः चाञ्चल्यदौरात्म्यात् सुदूरे वर्तते(N. सुदूरीक्रियते) इति परोक्षायमाणम्। प्रमथ्नाति दृष्टादृष्टे बलवत् शक्तम्। दृढं दुष्टव्यापारात्(N द्रष्ट्व्यापारात्) वारयितुम् अशक्यम्।

Translation · English

6.33 See Comment under 6.34

Compare this verse →
6.34Arjuna

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम्। तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥

Commentary · Sanskrit

।।6.33 6.34।।योऽयमिति। चञ्चलमिति। यः अयम् इति परोक्षप्रत्यक्षवाचकाभ्यामेवं सूच्यते भगवदभिहितानन्तरोपायपरम्परया स्पुटमपि प्रत्यक्षनिर्दिष्टमपि ब्रह्म मनसः चाञ्चल्यदौरात्म्यात् सुदूरे वर्तते(N. सुदूरीक्रियते) इति परोक्षायमाणम्। प्रमथ्नाति दृष्टादृष्टे बलवत् शक्तम्। दृढं दुष्टव्यापारात्(N द्रष्ट्व्यापारात्) वारयितुम् अशक्यम्।

Translation · English

6.33-34 Yo' Yam etc. Cancalam etc. By this and which, the two words denoting [respectively] what is actually perceived and what is not perceived, the following is indicated : Thanks to the series of methods spoken just before by the Bhagavat, the Brahman is of course clear and has been no doubt shown as if by perception. Yet, It remains at agreat distance due to the unsteadiness and wickedness of the mind, and It behaves as if It is beyond perception. [Destructive] : The mind destroys both the visible and invisible [ends of man's action]. Strong : Powerful. Obstinate : impossible to ward off from evil acts. Now the answer -

Compare this verse →
6.35Krishna

श्रीभगवानुवाच। असंशयं महाबाहो मनो दुर्निग्रहं चलम्। अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥

Commentary · Sanskrit

।।6.35।।अत्र उत्तरम् असंशयमिति। वैराग्येण विषयोत्सुकता विनाश्यते। अभ्यासेन मोक्षपक्षः क्रमात् क्रमं विषयीक्रियते इति द्वयोरुपादानम्। उक्तं च तत्रभवता भाष्यकृता उभयाधीनश्चित्तवृत्तिनिरोधः इति।

Translation · English

6.35 Asamsayam etc. Through an attitude of desirelessness, the craving for sense objects is destroyed. Through practice, stage after stage, the side of emancipation is occupied [by the mind]. Hence both are included. Regarding this, it has been said by the revered author of the Bhasya as : The restraint of mental modifications depends on both [the attitude of desirelessness and practice]. Hence is this solemn declaration :

Compare this verse →
6.36Krishna

असंयतात्मना योगो दुष्प्राप इति मे मतिः। वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥

Commentary · Sanskrit

।।6.36।।अत एषा प्रतिज्ञा असंयतेति। असंयतात्मनः अविरक्तस्य न कथंचिद्योगावाप्तिः। वश्यात्मनेति वैराग्यवता। यतमानेनेति साभ्यासेन। उपायतः उपायान् अनेकसिद्धान्तादिशास्त्रविहितान् संश्रित्य।

Translation · English

6.36 Asamyata - etc. In do way whatsoever, is the Yoga attainable for a man with uncontrolled self i.e., for a man without desirelessness. One, with subdued self : one, with an attitude of desirelessness. By him who exerts : by him who has practice. By means : by undertaking the means enjoined in many scriptures of the Siddanta and the rest.

Compare this verse →
6.37Arjuna

अर्जुन उवाच। अयतिः श्रद्धयोपेतो योगाच्चलितमानसः। अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥

Commentary · Sanskrit

।।6.37 6.39।।अयतः इत्यादि नह्युपपद्यते इत्यन्तम्। प्राप्ताद्योगात् यदि ( N यस्य instead यदि) चलितेऽपि चित्ते श्रद्धा न हीयते। विनष्टश्रद्धौ हि सिद्धयोगोऽपि सर्वं निष्फलं कुरुते। उक्तं हि यदा प्राप्यापि विज्ञानं दूषितं चित्तविभ्रमात्।तदैव ( तदैवम्) ध्वंसते शीघ्र तूलराशिवानलात्।।योगस्य सम्यक् सिद्धौ अजातायां किं लोकान्निष्क्रान्तः सम्यक् च ब्रह्मणि न निलीन (K न लीन इति) इति नश्येत् अथवा ब्रह्मणि अप्रतिष्ठितत्वात् विनश्यति परलोकबाधाय इति प्रश्नः।

Translation · English

6.37 See Comment under 6.39

Compare this verse →
6.38Arjuna

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति। अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥

Commentary · Sanskrit

।।6.37 6.39।।अयतः इत्यादि नह्युपपद्यते इत्यन्तम्। प्राप्ताद्योगात् यदि ( N यस्य instead यदि) चलितेऽपि चित्ते श्रद्धा न हीयते। विनष्टश्रद्धौ हि सिद्धयोगोऽपि सर्वं निष्फलं कुरुते। उक्तं हि यदा प्राप्यापि विज्ञानं दूषितं चित्तविभ्रमात्।तदैव ( तदैवम्) ध्वंसते शीघ्र तूलराशिवानलात्।।योगस्य सम्यक् सिद्धौ अजातायां किं लोकान्निष्क्रान्तः सम्यक् च ब्रह्मणि न निलीन (K न लीन इति) इति नश्येत् अथवा ब्रह्मणि अप्रतिष्ठितत्वात् विनश्यति परलोकबाधाय इति प्रश्नः।

Translation · English

Sri Abhinavgupta did not comment on this sloka

Compare this verse →
6.39Arjuna

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः। त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥

Commentary · Sanskrit

।।6.37 6.39।।अयतः इत्यादि नह्युपपद्यते इत्यन्तम्। प्राप्ताद्योगात् यदि ( N यस्य instead यदि) चलितेऽपि चित्ते श्रद्धा न हीयते। विनष्टश्रद्धौ हि सिद्धयोगोऽपि सर्वं निष्फलं कुरुते। उक्तं हि यदा प्राप्यापि विज्ञानं दूषितं चित्तविभ्रमात्।तदैव ( तदैवम्) ध्वंसते शीघ्र तूलराशिवानलात्।।योगस्य सम्यक् सिद्धौ अजातायां किं लोकान्निष्क्रान्तः सम्यक् च ब्रह्मणि न निलीन (K न लीन इति) इति नश्येत् अथवा ब्रह्मणि अप्रतिष्ठितत्वात् विनश्यति परलोकबाधाय इति प्रश्नः।

Translation · English

6.37-39 Ayatah etc. upto na hyupapadyate. Even if his mind has moved away from the Yoga, he had reached, the faith in [his] mind is not lost. for, a person - even if he has achieved the Yoga - makes all [achievements] useless, if his faith is completely lost. That has been said :- 'Even after attaining the perfect knowledge, if it gets vitiated due to the caprices of mind, that very moment it perishes soon, just as a heap of cotton does due to fire'. If a complete success in the Yoga has not been achieved, then having come out of this [material] world, and having not yet got himself absorbed in the Brahman, would he get lost ? Or, because he has not yet got established in the Brahman, does he permanently get destroyed as the other world (heaven) is [also] ruined for him ? This is the estion. On this [estion], the conclusion -

Compare this verse →
6.40Krishna

श्रीभगवानुवाच। पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते। न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्छति ॥

Commentary · Sanskrit

।।6.40।।अत्र निर्णयम् (S निर्णयः)पार्थेति। न तस्य योगभ्रष्टस्य इह लोके परलोके (S परत्र) वा नाशोऽस्ति अनष्टश्रद्धत्वात् इति भावः(K adds तस्य लोकद्वयाविनाशिनः after भावः)। स हि कल्याणं भगवन्मार्गलक्षणम् कृतवान्। न च तत् अग्निष्टोमादिवत् क्षयि।

Translation · English

6.40 Partha etc. The idea [here] is : There is no [estion of] destruction for the fallen-from-Yoga, either is this world or in the other; because his faith is not lost. He has indeed performed as auspicious act of seeking the Bhagavat, and that act is not of perishing nature as the Agnistoma sacrifice etc., are.

Compare this verse →
6.41Krishna

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः। शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥

Commentary · Sanskrit

।।6.41।।प्राप्येति। शाश्वतस्य विष्णोः समाः वैष्णवानि त्रीणि वर्षाणि। शुचीनामिति येषां भगवदंशस्पर्शि चित्तम्।

Translation · English

6.41 Prapya etc. Of Sasvata of Visnu (personal god). [His] years : three years of Visnu. Of the pure persons : of those whose mind is prone to touch (to meditate upon) the body (amsa) of the Lord.

Compare this verse →
6.42Krishna

अथवा योगिनामेव कुले भवति धीमताम्। एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥

Commentary · Sanskrit

।।6.42।।अथ वे ति। यदि तु तारतम्येन अस्य अपवर्गेण भवितव्यं तदा योगिकुले एव जायते। अत एवाह एतद्धि दुर्लभतरम् इति। श्रीमतां गेहे किलावश्यमेव विघ्नाः सन्ति।

Translation · English

6.42 Atha va etc. If emancipation is destined to come to him by way of difference (or in grades), then he is rorn nowhere but in a family of the men of Yoga. That is why (the Lord) says : 'For, this birth is more difficult ot get'. Indeed in the house of the rich there are necessarily many obstacles.

Compare this verse →
6.43Krishna

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्। यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥

Commentary · Sanskrit

।।6.43 6.45।।तत्रेत्यादि परां गतिमित्यन्तम्। संसिद्धौ मोक्षात्मिकायाम्। अवशः परतन्त्र एव किल तेन पूर्वाभ्यासेन बलादेव योगाभ्यासं प्रति नीयते। न चैतत् सामान्यम्। योगजिज्ञासामात्रेणैव हि शब्दब्रह्मातिवृत्तिः मन्त्रस्वाध्यायादिरूपं च शब्दब्रह्म अतिवर्तते न स्वीकुरुते।ततः जिज्ञासानन्तरम् यत्नवान् अभ्यासक्रमेण देहान्ते वासुदेवत्वं प्राप्नोति। न चासौ तेनैव देहेन सिद्ध इति मन्तव्यम्। अपि तु बहूनि जन्मानि तेन तदभ्यस्तमिति मन्तव्यम्। अत एव यस्य अनन्यव्यापारतया भगद्व्यापारानुरागित्वं स योगभ्रष्ट इति निश्चेयम् ( N निश्चेयः)।

Translation · English

6.43 See Comment under 6.45

Compare this verse →
6.44Krishna

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः। जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥

Commentary · Sanskrit

।।6.43 6.45।।तत्रेत्यादि परां गतिमित्यन्तम्। संसिद्धौ मोक्षात्मिकायाम्। अवशः परतन्त्र एव किल तेन पूर्वाभ्यासेन बलादेव योगाभ्यासं प्रति नीयते। न चैतत् सामान्यम्। योगजिज्ञासामात्रेणैव हि शब्दब्रह्मातिवृत्तिः मन्त्रस्वाध्यायादिरूपं च शब्दब्रह्म अतिवर्तते न स्वीकुरुते।ततः जिज्ञासानन्तरम् यत्नवान् अभ्यासक्रमेण देहान्ते वासुदेवत्वं प्राप्नोति। न चासौ तेनैव देहेन सिद्ध इति मन्तव्यम्। अपि तु बहूनि जन्मानि तेन तदभ्यस्तमिति मन्तव्यम्। अत एव यस्य अनन्यव्यापारतया भगद्व्यापारानुरागित्वं स योगभ्रष्ट इति निश्चेयम् ( N निश्चेयः)।

Translation · English

6.44 See Comment under 6.45

Compare this verse →
6.45Krishna

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः। अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥

Commentary · Sanskrit

।।6.43 6.45।।तत्रेत्यादि परां गतिमित्यन्तम्। संसिद्धौ मोक्षात्मिकायाम्। अवशः परतन्त्र एव किल तेन पूर्वाभ्यासेन बलादेव योगाभ्यासं प्रति नीयते। न चैतत् सामान्यम्। योगजिज्ञासामात्रेणैव हि शब्दब्रह्मातिवृत्तिः मन्त्रस्वाध्यायादिरूपं च शब्दब्रह्म अतिवर्तते न स्वीकुरुते।ततः जिज्ञासानन्तरम् यत्नवान् अभ्यासक्रमेण देहान्ते वासुदेवत्वं प्राप्नोति। न चासौ तेनैव देहेन सिद्ध इति मन्तव्यम्। अपि तु बहूनि जन्मानि तेन तदभ्यस्तमिति मन्तव्यम्। अत एव यस्य अनन्यव्यापारतया भगद्व्यापारानुरागित्वं स योगभ्रष्ट इति निश्चेयम् ( N निश्चेयः)।

Translation · English

6.43-45 Tatra etc. upto param gatim. For a full success : for emancipation. Being not a master of himself : Indeed being exclusively under the control of other [force], he is forcibly driven towards the practice of Yoga by that [mental impression of his] former practice. This is not an ordinary thing. For, his act of passing over what strengthens the [sacred texual] sound is only due to his desire for knowing the Yoga. He passes over, i.e., he does not undertake, what strengthens the sound i.e., that which is of the nature of hymn-recitation etc. After that : after [the rise of] desire for knowing [Yoga]. Striving by method of practice, he attains the Vasudevahood (identity with the Surpeme) at the time of destruction of his body. It should not be regarded that he has achieved success by [his pratice in] that single body gone. Instead, it should be regarded that he had practised during the course of many a life-period. Therefore, it may be conclude that the fallen-from-Yoga is he who craves continously for activities of [attaining] the Bhagavat by abandoning all other activities. The superiority (or importance) of the Yoga, [the Lord] describes:

Compare this verse →
6.46Krishna

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥

Commentary · Sanskrit

।।6.46।।योगस्य प्राधान्यमाह तपस्विभ्य इति। तपस्विभ्यः अधिकत्वं पूर्वमेव सूचितम्। ज्ञानिभ्यः अधिकत्वं ज्ञानस्य योगफलत्वात्। कर्मिभ्य उत्कर्षः स एव कर्माणि कर्तुं वेत्ति।

Translation · English

6.46 Tapasvibhyah etc. The superiority [of Yogin] over the men of austerities has already been indicated. The knowledge is the fruit of Yoga. Hence Yogin's superiority over the men of knowledge. He is superior to men of action, because he alone knows how to perform action. The God-discarding difficult Yoga, does not itself yield success. This is stated [as]-

Compare this verse →
6.47Krishna

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥

Commentary · Sanskrit

।।6.47।।न च निरीश्वरं कष्टयोगमात्रं संसिद्धिदं इति उच्यते योगिनामपीति। सर्वयोगिमध्ये य एवं मामन्तःकरणे निवेश्य भक्तिश्रद्धातत्परो गुरुचरणसेवालब्धसंप्रदायक्रमेण मामेव नान्यत् (N नान्यम्) भजते विमृशति (SN omit विमृशति K substitutes विमृश्यते) स मे युक्ततमः परमेश्वरसमाविष्टः (S omits परमेश्वरसमाविष्टः)। इति सेश्वरस्य ज्ञानस्य सर्वप्राधान्यमुक्तम् इति।

Translation · English

6.47 Yoginam etc. He, who establishes Me in his internal organ; who is totally addicted to devotion and faith and who serves i.e., internally experiences Me alone, and not anything else, following the method of tradition, learnt by rendering service to the revered teachers-he alone among all the Yogins, is the best master of the Yoga i.e., one who is fully absorbed in the Supreme Lord. Thus the superiority of the Yoga with Godly knowledge over all [other means] has been explained.

Compare this verse →