9.1Krishna

श्रीभगवानुवाच। इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे। ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥

Commentary · Sanskrit

।।9.1।।पूर्वसङ्गतत्वेनाध्यायार्थमाह -- सप्तमेति। भगवन्माहात्म्यमिति शेषः। पदार्थज्ञानपूर्वकं वाक्यार्थज्ञानमिति सप्तमोक्तपदार्थानष्टमे व्याख्याय नवमे तद्वाक्यार्थं स्पष्टीकरोतीत्यर्थः।

Compare this verse →
9.2Krishna

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्। प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥

Commentary · Sanskrit

।।9.2।।राज्ञामश्वपतिजनकादीनां विद्या राजविद्येति कश्चित्? तदसत् ब्राह्मणादीनामनधिकारप्रसङ्गादिति भावेनाह -- राजेति। राजेव राजा? राजा चासौ विद्या चेति राजविद्येत्यर्थः। प्रत्यक्षेणावगमो यस्येति (शां.) व्याख्यानमसत्। भगवन्माहात्म्यस्य शास्त्रैकसमधिगम्यत्वात्अद्वैतोद्गारस्य प्रमाणविरुद्धत्वादिति भावेनाह -- प्रत्यक्षमिति। शास्त्रैकवेद्यं ब्रह्म कथं प्रत्यक्षं इत्यत आह -- अक्षेष्विति। प्रत्यक्षः परमात्मा। प्रादिसमासोऽयं? नाव्ययीभाव इति ज्ञापनाय नपुंसके प्रकृतेऽपि पुँल्लिङ्गनिर्देशः? अन्यथा षष्ठी न श्रूयेत। परमात्मनोऽक्षेषु स्थितत्वे किं मानं इत्यत आह -- तथा चेति। प्राण इति प्राणाभिमानिनी देवतोच्यते? प्राणादन्तरो भिन्नः। अङ्गुष्ठेति कर्मेन्द्रियाधिष्ठातृत्वमुच्यते। मन इत्यादेर्मनआदिस्थ इत्यर्थः। प्रत्यक्षशब्दस्यायमर्थ इत्यत्र श्रुतिमाह -- स इति। प्रतिस्थितः। अक्षवान् प्रशस्तेन्द्रियः। यो विद्वानेवं प्रत्यक्षशब्दार्थं वेद। धर्मादनपेतं धर्म्यमिति निर्वचनेऽपि न प्रसिद्धधर्माविरुद्धत्वमर्थः? निवृत्तधर्मस्य ब्रह्मज्ञानाविरुद्धतायाः प्रसिद्धत्वात्। प्रवृत्तिलक्षणस्य तु तद्विरुद्धत्वादिति भावेनाह -- धर्म इति। तस्मादनपेतमित्यर्थस्तद्विषयमिति। कथं भगवान् धर्मः इत्यत आह -- सर्वमिति। धृञो मन्प्रत्यय औणादिकः। धारके धर्मशब्दप्रवृत्तिः कुतः इत्यत आह -- पृथिवीति। पर्वतोपरीत्यर्थः। भगवतः सर्वधारकत्वे किं मानं इत्यत आह -- भारभृदिति। सर्वत्र स्थितो भगवान् सर्वेण ध्रियते? स कथं सर्वस्य धारकः इत्यत आह -- भर्तेति। भर्ता सन्नेव म्रियमाणो न स्वकीयस्थित्यै। धर्मशब्दस्य भगवद्वाचित्वं कुतः इत्यत आह -- धर्मो वा इति। इदमग्रे अस्याग्रे। अत्र पुण्यं धर्मः किं न स्यात् इति शङ्कानिरासार्थं सोऽध्यायदिति वाक्यशेषोदाहरणम्।

Compare this verse →
9.3Krishna

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप। अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥

Commentary · Sanskrit

।।9.3।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
9.4Krishna

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना। मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥

Commentary · Sanskrit

।।9.4।।एवं तर्हि पुनरुक्तिः स्यात्? ब्रह्मविषयं ज्ञानमित्यस्य ब्रह्मावगम्यते विषयीक्रियतेऽनेन ज्ञानेनेत्यस्य च भेदाभावादित्यत आह -- प्रत्यक्षेति। नावगमशब्देन विषयीकरणमुच्यते? किन्तु अवगतिसाधनत्वम्। न च ज्ञानस्य तद्विरुद्धम्? परोक्षज्ञानस्यापरोक्षज्ञानसाधनत्वोपपत्तेरिति भावः।ज्ञानं विज्ञानसहितं प्रवक्ष्यामि इति प्रतिज्ञाययज्ज्ञात्वा [9।1] इत्यादिना तत्प्रशंसादिकमुक्तम्। अतःमया ततं इत्यादिकमपि किं तथाभूतमेव किञ्चिदुत प्रतिज्ञातमुच्यते इति शङ्कायामाह -- तदिति। प्रतिज्ञातमित्यर्थः। यस्यापरोक्षज्ञानसाधनत्वमुक्तं तदिति वा। कृत्स्नाध्यायप्रतिपाद्योक्तिरियम्। विशेषणवैयर्थ्यमाशङ्क्याह -- तर्हीति। सर्वव्यापी चेदित्यर्थः। न दृश्यते सर्वत्रेति शेषः।

Compare this verse →
9.5Krishna

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्। भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥

Commentary · Sanskrit

।।9.5।।मत्स्थानि सर्वभूतानि [9।4] इत्युक्त्वा पुनः कथंन च मत्स्थानि इति व्याहृतमुच्यते इत्यत आह -- मत्स्थत्वेऽपीति। स्पृष्ट्वेति। स्पर्शनेन्द्रियेण तां ज्ञात्वाऽन्योन्यधर्मसंक्रान्तिमासाद्य चेत्यर्थः। परमेश्वरस्य स्पर्शनाद्यवेद्यत्वे प्रमाणमाह -- नेति। संज्ञया शब्देनैव संज्ञा सम्यग् ज्ञानं यस्यासौ तथोक्तः। मत्स्थानीत्यादेरुक्तत्वात् भूतभृदित्यादिकं पुनरुक्तमित्यत आह -- ममेति। प्राग्भूताधारत्वादिकं स्वस्योक्तम्? अत्र पुनरव्यक्तमूर्तिनेति मूर्तावुक्तायां साऽस्मदादीनामिव भिन्नेति भ्रान्तिनिरासार्थं स्वलक्षणं स्वदेहस्योच्यत इत्यर्थः।,भूतभावनत्वस्याधिकस्योक्तेश्च न पुनरुक्तिरिति भावेनोक्तम् -- भूतेति। स्यादिदं व्याख्यानं यदि भगवद्देहस्येदं भवेत्। तदेव कुतः इत्यत आह -- महाविभूतेरिति। माहात्म्यमेव शरीरं यस्यासौ तथोक्तः।

Compare this verse →
9.6Krishna

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान्। तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥

Commentary · Sanskrit

।।9.6।।एकमेकत्राश्रितमित्यत्रासम्भावनाभावात्? किं दृष्टान्तोक्त्या इत्यत आह -- मत्स्थानीति। तत्र स्थितत्वेऽप्यन्योन्यधर्मासंक्रान्त्यादावित्यर्थः। तदत्र न प्रतीयत इत्यतो व्याचष्टे -- न हीति। स्पर्शादीति तद्धर्मोपलक्षणम्।

Compare this verse →
9.7Krishna

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्। कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥

Commentary · Sanskrit

।।9.7।।यथामया ततम् [9।4] इत्याद्युक्तोपपादनार्थान्युत्तरवाक्यानि? न तथा सर्वभूतानीत्यादि किन्तु स्वतन्त्रमेव ज्ञानप्रतिपादकमिति भावेनाह -- ज्ञानेति। प्रलयादीति तत्कारणत्वम्?प्रकृतिं स्वामवष्टभ्य [9।8],इति वचनात्।

Compare this verse →
9.8Krishna

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः। भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥

Commentary · Sanskrit

।।9.8।।तद्विकलस्य भगवतो न सामर्थ्यमिति प्रतीतिनिरासार्थमाह -- प्रकृतीति। तथा लीलयैव? न तु केवलस्य सामर्थ्याभावादिति शेषः। कुत एतत् भगवतः सर्वसामर्थ्यसम्पूर्णस्य प्रमितत्वादित्याह -- सर्वेति। सर्ववस्तुसामर्थ्यैः। एवंभूतवत् पारतन्त्र्याद्युपेतं किन्तु दैवं देवोत्तमम्। पञ्चमहाभूतानि महदहङ्कारौ च सप्त सूक्ष्माणि।सर्वज्ञता तृप्तिः इत्युक्तप्रकारेण षडङ्गम्। प्रधानस्य मूलप्रकृतेर्विनियोगः कार्येषु यो व्यापारस्तत्स्थस्तज्ज्ञानी। मायामधिरुह्य प्रकृतिमवष्टभ्य। कं कः प्रवोचं प्रावोचत्। प्रकृतेर्वशाद्विसृजामीत्याविद्यकमेवेश्वरस्य कर्तृत्वं वस्तुतस्तु निष्क्रियत्वमित्युच्यत इत्यन्यथाप्रतीतिनिरासायान्यथाऽन्वयमाह -- प्रकृतेरिति। कुत एतदित्यतः पूर्वोक्तार्थसहितेत्यत्र प्रमाणमाह -- त्वमेवेति। एतत्सर्जने एतस्य लोकस्य सृष्ट्याम्। अन्यस्मिन्नपि पालनादौ सर्वकर्मणि। तस्मान्मायावशत्वादेवावशम्? एतदेतं स्रक्ष्यसि सृजसि।

Compare this verse →
9.9Krishna

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय। उदासीनवदासीनमसक्तं तेषु कर्मसु ॥

Commentary · Sanskrit

।।9.9।।स्वतः कर्तृत्वे कथमुदासीनत्वमुच्यते इति चेत्? न वतिना तस्य निषिद्धत्वादिति भावेनाह -- उदासीनवदिति। अनुदासीनत्वेऽपि वतिर्व्यर्थः स्यात्? अन्यस्य तदर्थस्याभावादित्यत आह -- तदर्थमिति। वत्यर्थं सादृश्यं स्वयमेव विवृणोतीत्यर्थः। परमेश्वरस्य कर्मसु सक्त्यभावे प्रमाणमाह -- अवाक्येति। सर्वथोदासीन एव किं न स्यात् इति चेत्? न तथा सति प्रकृत्यादीनामसत्त्वप्रसङ्गादिति भावेनाह -- द्रव्यमिति। यदीश्वरस्य स्वतः कर्तृत्वं स्यात्तदाउदासीनं इत्येतत्?न तु मां तानि कर्माणि निबध्नन्ति इत्यत्र कथं हेतुः स्यात् इत्यत आह -- यस्येति। असक्त्या अनादरेणानायासेनेति यावत्। भगवतोऽपि कर्मबन्धोऽस्तीति केषाञ्चित्प्रलापः? यथाविष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे [भ.नी.श.92] इत्यादि तन्निरासाय श्रुत्युपपत्ती प्राह -- न कर्मणेति। नियामयति नियच्छति।

Compare this verse →
9.10Krishna

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्। हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥

Commentary · Sanskrit

।।9.10।।कथं तर्ह्यहं केवलं द्रष्टैव? प्रकृतिरेव चराचरं सूयत इत्युत्तरवाक्यमित्यतस्तन्निवर्त्याशङ्कां प्रदर्श्य व्याचष्टे -- उदासीनवदिति। भगवतोदासीनसादृश्यं स्वयमेव व्याख्यातम्? तदज्ञात्वा क्रियाभाव एवोक्त इति मत्वा शङ्कितम्। पुराप्रकृतिं स्वामवष्टभ्य विसृजामि [9।8] इत्युक्तम् इदानीं तुउदासीनवत् [2।9] इति निष्क्रियत्वमुच्यते। एवं तर्हि प्रकृतिरेव सूयते? त्वयि तु तत्सन्निधानात्कर्तृत्वोपचारमात्रमित्यापन्नमिति तन्निवृत्त्यर्थमिदं वाक्यम्। तत्रअध्यक्षेण इत्यनेन प्रकृतिसूतेर्द्रष्टाऽहमेवेत्युच्यते। तृतीयया च तत्प्रयोजककर्ता चाहमेव? न तु तस्याः स्वातन्त्र्यमिति दर्शनपूर्वकत्वात्प्रयोजकत्वस्य तदुक्तिः? अन्यथा तृतीया व्यर्था स्यादिति भावः। प्रकृतिप्रयोजकत्वं परमेश्वरस्य कुतः इत्यत आह -- यत इति। प्रसूता सृष्टावभिमुखीभूता प्रसूती प्रसूतिः तोयेन कर्मणा व्यससर्ज विससर्ज। बहुलग्रहणात्।

Compare this verse →
9.11Krishna

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्। परं भावमजानन्तो मम भूतमहेश्वरम् ॥

Commentary · Sanskrit

।।9.11।।उत्तरवाक्यस्य सङ्गत्यप्रतीतेस्तामाह -- तर्हीति। यदि त्वमेव जगतः सृष्टिस्थितिसंहाराणां कर्ता? कैश्चिदवज्ञानात् तेषां चानर्थाभावादुक्तमसदिति शङ्काभिप्रायः।मानुषीं तनुमाश्रितं इत्येतदन्यथाप्रतीतिनिरासाय व्याचष्टे -- मानुषीमिति। भ्रान्त्यनुवाद एवायमिति भावः। कुतो न इत्यत आह -- उक्तं चेति। चो हेतौ। शरीराणि हि भौतिकानि भवन्ति। भूतानि चेश्वरस्य बुद्धिजानि? तत्कथं तानि बध्नीत्युरित्यर्थः। अत्रैवईश्वरो हि इत्यादिनाऽन्ये हेतवोऽभिधीयन्ते। विराट् नित्याभिव्यक्तरूपः। वरदो मोक्षप्रदः। सगुणः स्वातन्त्र्यादिगुणवान्। भूतानि प्रलीयन्ते यस्मिंस्तदव्यक्तम्? तदभिमानिनी देवता तस्य शुश्रूषुः। लिङ्गव्यत्ययश्छान्दसः। अस्त्वेतन्मूलरूपविषयम्? अवतारस्य तु कृष्णस्य मानुषत्वं भवत्वित्यत आह -- अवतारेति।यत्तद्ददृशिवान् ब्रह्मा रूपं हयशिरोधरम् [म.भा.12।] इति ह्वयग्रीवावतारप्रसङ्गे। अस्तु हयग्रीवस्यैवम्। कृष्णस्तु मानुषशरीर एव किं न स्यात् इति चेत्? न युक्तिसाम्यात् विशेषप्रमाणाच्चेत्याह -- रूपाणीति। असृजद्व्यभजत्। प्रादुर्भावभवायोत्तरत्र। स नारायणः। मानुषं कृष्णादिकम्। तत्रैव मोक्षधर्म एव? प्रथमसर्गकाल एव? मानुषादिजात्युत्पत्तेः प्रागेवेत्यर्थः। उपसंहरति -- अत इति। तेषामवताराणाम्। उत्तरपदविरोधश्चान्यथेति भावेन तद्व्याचष्टे -- भूतमिति। भूतं सर्वदा विद्यमानमिति कालानन्त्यमाचष्टे -- महदिति देशानन्त्यम्? ईश्वरमिति गुणानन्त्यम्। भावं याथार्थ्यमिति व्याख्यानपेक्षया नपुंसकम्। अत्र श्रुतिं पठति, -- तथा हीति। ईशं वराणामितीश्वरम्। षष्ठ्याः परनिपातः। देवाः वीर्यं पुत्रा यस्यासौ तथोक्तः।महतो भूतस्य इति देशकालानन्त्यमुच्यते। वराणां देवानामीशत्वे ब्रह्मेति मोक्षधर्मवाक्यं प्रमाणं पुरोहितादिदेवनिकायास्त्वदधीना इत्यर्थः। ब्रह्मेति द्विरुक्तिरादरार्था।

Compare this verse →
9.12Krishna

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः। राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥

Commentary · Sanskrit

।।9.12।।किञ्च तेषां फलमित्यस्य परिहारो न दृश्यते अत आह -- तेषामिति। अनर्थत्वप्रदर्शनाय व्याचष्टे -- वृथेति। सम्पदादिप्राप्तिदर्शनात्कथमित्यत आह -- भगवदिति। युद्धादिकर्मणां साफल्यदर्शनात्कथं मोघकर्माणः इत्यत आह -- यज्ञादीति। ज्ञानं तत्त्वविषयं तेषां नास्त्येव? अतः कथं तस्य मोघत्वमुच्यते इत्यत आह -- ज्ञानं चेति। ज्ञानं च तेषां वृथैवेत्यस्य केनापीत्यर्थ इति सम्बन्धः। अनेन ज्ञानपदमुपलक्षणमिति चोक्तं भवति। न केवलं पुरुषार्थानवाप्तिः? अपितु दुःखावाप्तिश्चेति भावेन तत्र प्रमाणान्याह -- वक्ष्यति चेति। आ सम्यक् लोकान्तस्य चण्डालादेः। पुष्करविष्टराद्ये पद्मासनस्य पितरि। भ्रूणानन्तघ्नोऽनन्तभ्रूणघ्नः। यद्येवं? कथं तर्हि भागवतादौ भगवद्द्वेषस्य मोक्षसाधनत्ववचनम् इत्यत आह -- द्वेषादिति। तद्गतिं गता इति सम्बन्धः। वैरेण ध्यायन्तः यदीयगत्यादिभिराकृतधियः आकृष्टबुद्धयः। ये पूर्वं भक्ताः शिशुपालादयस्तद्विषये भवत्वेषा गतिः? न तु पौण्ड्रशाल्वादिविषये? अत आह -- नित्येति। भक्तप्रियत्वज्ञापनार्थमित्युक्तं विवृणोति -- स्वभक्तस्येति। इति भक्तप्रियत्वज्ञापनार्थमिति योजना।स्यादेतत्? यदि तेषां स्वतो भक्तत्वं शापबलादेव द्वेषित्वमित्येतत्प्रमितं स्यात् तदेव कुतः इत्यत आह -- भक्ता एव हीति। प्रसिद्धमेवैतत् भागवतादावित्यर्थः। कुतो वचनानामर्थान्तरकल्पनेति चेत्?यो द्विष्यात् इत्याद्युदाहृतवाक्याविरोधात्। हेत्वन्तरं चाह -- तत्प्रश्नेति।अहो अत्यद्भुतं ह्येतद्दुर्लभैकान्तिनामपि। वासुदेवे भगवति गतिश्चैद्यस्य विद्विषः [भाग.7।1।15] इति युधिष्ठिरेण द्वेषिणः कथं मुक्तिर्जातेत्येवंरूपे तद्विषये प्रश्ने कृते सति नारदेनमातृष्वसेयो वश्चैद्यो दन्तवक्त्रश्च पाण्डव। पार्षदप्रवरौ विष्णोर्विप्रशापात्पदच्युतौ [भाग.7।1।32] इति तदुत्तरत्वेन पूर्वपार्षदत्वादिकं कथ्यते। ततोऽपि द्वेषो न मोक्षसाधनमित्येततज्ज्ञायते। कथमित्यत आह -- अन्यथेति। यदि द्वेषो मोक्षसाधनं स्यात्तदा किमत्राद्भुतम् यतो द्वेषोऽप्येको मुक्तिमार्ग इत्युत्तरं वक्तव्यम्। पूर्वपार्षदत्वादिकं त्वप्रस्तुतमनुपयुक्तं न वक्तव्यं स्यादित्यर्थः। ननु नारदेननिन्दनस्तवसत्कारन्यक्वारार्थं [भाग.7।1।22] इत्यादिना भगवतो निन्दादौ साम्यमपि तदुत्तरत्वेन कथ्यते? यदि स्तुतेरिव निन्दाया तु मोक्षसाधनत्वं स्यात्तदा तदनुपयुक्तं न वक्तव्यमिति सत्प्रतिपक्षार्थापत्तिरित्यतोऽस्यान्यथोपपत्तिमाह -- भगवत इति। साम्यं निर्विकारत्वम्। भक्तानामपराधं भगवान्न गणयतीत्येतत्कुतः इत्यत आह -- नेति। द्वेषस्य मुक्तिसाधनत्वाभावेभावो यथा कथञ्चिच्चिन्तनं? भवस्य मोक्षस्य कारणम् इत्यादिवचनविरोधः स्यादित्यत आह -- न चेति। कुतो नेत्यत आह -- द्वेषेति। हि यस्मादेतद्वचनमिति युक्तं घटनोपेतं तस्मादित्यर्थः। यथोक्तम्यादृशी भावना ज्ञेया सिद्धिर्भवति तादृशी [ ] इति। प्रतीत एवार्थः किं न स्यात् इत्यत आह -- अन्यथेति। भगवद्द्वेषिणो मुक्तिभाजः तदाकृतधीत्वात्? भगवद्भक्तवत् इत्यनुमानविरोध इत्यत आह -- नचेति। उभयोराकृतधीत्वे सति फलेऽप्यविशेष इति च नेत्यर्थः। कुतः इत्यतः कालातीतत्वादित्याह -- तेषामेवेति। आकृतधीनामेव। विविक्षुर्वक्ष्यतीति सम्भावनाविषयः। आशङ्कायामचेतनेषूपसङ्ख्यानात्। मह्यं मम। ननु वचनत्वाविशेषात्यो द्विष्यात् इत्यादिभिःद्वेषाच्चेद्यादयः इत्यादीनां कथं बाधनं इत्यत आह -- बह्विति। निषेधो द्वेषस्य मुक्तिसाधनतायाः। न केवलं बहुत्वाबहुत्वरूपोऽनयोर्विशेषः। किन्तु स्वव्याहतत्वास्वव्याहतत्वरूपोऽपीत्याह -- यस्मिन्निति। भागवतादौ ग्रन्थेभगवन्निन्दया इत्यादिर्निषेधः।भगवद्गुणोत्कर्ष एव सर्ववेदानां यन्महातात्पर्यं तद्विरोधो द्वेषान्मुक्तिवाचिनाम्? इतरेषां तु तदानुकूल्यमिति च विशेष इति भावेनाह -- महातात्पर्येति। उक्तः उक्तप्रायः। इतोऽपि बाध्यबाधकभावो युक्त इति भावेन व्याप्तिं तावदाह -- अयुक्तिमद्भ्य इति। सप्तम्यर्थे मतुप्। ततः किमित्यत आह -- युक्तयश्चेति। महातात्पर्यविरोधश्चेत्यपेक्षया। अन्येषामनुकूलाः।अव्ययं विबुधश्रेष्ठम्पुष्करविष्टराद्ये इति। सावकाशत्वनिरवकाशत्वविशेषाच्चैवमित्याह -- न चेति। इतरेषां तूक्तैवेति शेषः। इतश्च बाध्यबाधकभावो युक्त इत्यभिप्रेत्य व्याप्तिं तावदाह -- साम्येऽपीति। गुणान्तरेण साम्येऽपीति कैमुत्यार्थं लोकानुकूलशब्देन,लोकदृष्टव्याप्तिकानुमानानुकूलत्वमुच्यते। ततः किमित्यत आह -- लोकेति। इतरद्द्वेषिप्रियत्वं भगवत्प्रीत्यैव मोक्ष इति तु प्रसिद्धमेव। शिशुपालादीनां पूर्वभक्तत्वं प्रसिद्धमित्युक्तम्? तत्कथमिति चेत्? पार्षदत्वात्? वचनाच्चेत्याह -- उक्तं चेति। त्रयाणां लोकानामधीशे। संरम्भेण मार्गमात्रेणाभिनिविष्टचित्तान्। उपसंहरति -- अत इति। गतिः सद्गतिः। स्वमौढ्यादेव मामवजानन्ति। न मद्दोषात्तेषां न महाननर्थ इति सर्वं समाहितम्। राक्षसीमित्यादि तु किमर्थं इत्यत आह -- द्वेषेति। मौढ्यान्मिथ्याज्ञानं भवतु? प्रज्वलनात्मको द्वेषस्तु कुतः इत्याशङ्कानिवृत्त्यर्थमिति शेषः। अन्येषामविद्यमानं मौढ्यमेव तेषां कुतः इत्याशङ्कानिरासार्थमिति वा। अत्र कारणमिति मूलकारणम्।

Compare this verse →
9.13Krishna

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥

Commentary · Sanskrit

।।9.13।।ननु कुतोऽयं विवेकः इत्याकाङ्क्षायां राक्षसादिभ्य इतरे न द्विषन्तीत्येतावदव वक्तव्यम्। भजन्तीत्यादि तु व्यर्थं इत्यत आह -- नेतर इति। सत्यमेतत् तथापि देवानां स्वरूपकथनार्थमेतत्। तच्च द्वेषाभावोपपादनार्थमिति भावः। देवानित्युत्तमजीवोपलक्षणम्।

Compare this verse →
9.14Krishna

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः। नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥

Commentary · Sanskrit

।।9.14।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
9.15Krishna

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते। एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥

Commentary · Sanskrit

।।9.15।।एकत्वेनाद्वैतभावनयेति व्याख्यानमसत्? मिथ्याभावनात्वादिति भावेनाह सर्वत्रेति। सर्वत्र स्थितो नारायण एक एवेति योजना। पृथक्त्वेनादित्यचन्द्रादिरूपेणेत्यसदिति (शं.) भावेनाह -- पृथक्त्वेनेति। अपरस्तु पृथक्त्वेनेत्येतत्सम्यग्व्याख्याय बहुधेत्येतदादित्यादिरूपेणेति व्याख्यातवानत आह -- बहुधेति। कथमित्यत आगमेनैव दर्शयति -- शुक्लमिवेति। इवशब्दोऽप्यर्थः। प्रकारान्तरेण व्याख्याति -- दैवमेवेति।

Compare this verse →
9.16Krishna

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम्। मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥

Commentary · Sanskrit

।।9.16।।विश्वतोमुखं इत्युक्तं सर्वात्मकत्वं प्रपञ्चयत्युत्तरेण इत्यन्यथा व्याख्याननिरासार्थमाह -- प्रतिज्ञातमिति। अन्यथा प्रतिज्ञातानुक्तिप्रसङ्ग इति भावः। व्याख्यानं तुरसोऽहमप्सु [7।8] इत्यादेरिव द्रष्टव्यम्।क्रतवः इति क्रतुयज्ञशब्दयोरर्थभेदमाह। सामान्यविशेषभावेन भेद इत्यर्थः।

Compare this verse →
9.17Krishna

पिताहमस्य जगतो माता धाता पितामहः। वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥

Commentary · Sanskrit

।।9.17।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
9.18Krishna

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्। प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥

Commentary · Sanskrit

।।9.18।।गतिः कर्मफलमिति व्याख्यानं (शं.) अपाकर्तुमाह -- गम्यते इति। शरणमित्यतो भेदार्थमुक्तं मुमुक्षुभिरिति। अत एव गम्यत इत्यस्यावगम्यत इत्यर्थः। कुत एतत् इत्यत आह -- तथा हीति। किमुच्यत इत्यपि प्रश्नोऽध्याहार्यः। साक्षीत्यौदासीन्यं प्रतीयते? अत आह -- साक्षादिति। कुत एतदित्यत आह -- तथा हीति। यदद्राक्षीत्साक्षात्तत्साक्षिणः परमेश्वरस्य साक्षित्वं साक्षिशब्दप्रवृत्तिनिमित्तम्। तदुक्तम्साक्षाद्द्रष्टरि संज्ञायाम् [अष्टा.5।2।91] इति। निवासशब्दागतार्थतया शरणशब्दार्थमाह -- शरणमिति। संसारभीतस्येति मुक्तोपलक्षणम्। विष्णोर्मुक्ताश्रयत्वे प्रमाणमाह -- परमिति। परायणं मुक्तानामाश्रयः। तथापि निधानमिति पुनरुक्तिरित्यत आह -- संहारेति। सर्वभूतानिप्रकृतिं यान्ति [3।33] इत्युक्तत्वात् कथं भगवति निधीयत इत्यत उक्तं प्रकृत्येति। प्रथमं प्रकृतिं यान्ति पश्चात्तत्र निधीयन्त इत्यर्थः। तत्कुतः इत्यत आह -- तथा हीति। विश्वकर्मणीश्वरे शुभ्रचक्षुः शुद्धदृष्टिरहम्।

Compare this verse →
9.19Krishna

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च। अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥

Commentary · Sanskrit

।।9.19।।असतो नियाम्यत्वानुपपत्तेःसदसच्चाहं इत्ययुक्तमित्यत आह -- सदिति। कार्यं सदित्युच्यते। अभिव्यक्तिरूपत्वादित्यनेन सदेर्गत्यर्थस्य क्विपि कर्मणि रूपमेतदित्युच्यते। कारणमप्यव्यक्तरूपत्वादेव असच्छब्दितम्। कार्यकारणयोः सदसच्छब्दप्रयोगं च दर्शयति -- असच्चेति। तस्मात्सदसतोर्विश्वस्माद्ब्रह्म परम्।

Compare this verse →
9.20Krishna

त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते। ते पुण्यमासाद्य सुरेन्द्रलोक- मश्नन्ति दिव्यान्दिवि देवभोगान् ॥

Commentary · Sanskrit

।।9.20 -- 9.21।।सदसच्चाहमर्जुन [9।16] इति विज्ञानस्योपसंहृतत्वादुत्तरस्यासङ्गतिमाशङ्क्याह -- तथापीति।अहं क्रतुः [9।16] इत्यादिना सर्वक्रत्वादिभोक्तृत्वं यदुक्तं भगवतस्तदसदिति वक्ष्यामीति गूढाभिसन्धिना यदि सर्वत्र भोक्ता भगवान्? तर्हि किं भागवतानां त्रैविद्यानां च फलसाम्यमेव इति,पृष्टस्येदमुत्तरमित्याशयः। तथापि सर्वत्र भगवतो भोक्तृत्वेऽपि मद्भजनं भागवतैरनुष्ठितम्? देवतेति पित्राद्युपलक्षणम् त्रैविद्याद्यनुष्ठिताद्वरमुत्कृष्टफलम्। इत्यादिना श्लोकत्रयेण।

Compare this verse →
9.21Krishna

ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति। एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥

Commentary · Sanskrit

।।9.20 -- 9.21।।सदसच्चाहमर्जुन [9।16] इति विज्ञानस्योपसंहृतत्वादुत्तरस्यासङ्गतिमाशङ्क्याह -- तथापीति।अहं क्रतुः [9।16] इत्यादिना सर्वक्रत्वादिभोक्तृत्वं यदुक्तं भगवतस्तदसदिति वक्ष्यामीति गूढाभिसन्धिना यदि सर्वत्र भोक्ता भगवान्? तर्हि किं भागवतानां त्रैविद्यानां च फलसाम्यमेव इति पृष्टस्येदमुत्तरमित्याशयः। तथापि सर्वत्र भगवतो भोक्तृत्वेऽपि मद्भजनं भागवतैरनुष्ठितम्? देवतेति पित्राद्युपलक्षणम् त्रैविद्याद्यनुष्ठिताद्वरमुत्कृष्टफलम्। इत्यादिना श्लोकत्रयेण।

Compare this verse →
9.22Krishna

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥

Commentary · Sanskrit

।।9.22।।अद्वैतज्ञानिनोऽनन्याः इति प्रतीतिनिरासार्थमाह -- अनन्या इति। अविद्यमानमन्यद्येषां ते अनन्याः। तच्चअनन्याश्चिन्तयन्तो मां इति प्रसङ्गाच्चिन्तनीयमिति लब्धे अन्यदचिन्तयित्वेति सिध्यति। प्रतीत एवार्थः किं न स्यात् इत्यत आह -- तथा हीति।देवमेव विशन्ति इत्यनेनयोगक्षेमं वहाम्यहं इत्युक्तार्थं भवति। अत्रैव काममित्यागमान्तरम्। प्रभया सन्दृश्यं मण्डलं स्वरूपं यस्यासौ तथोक्तः। दर्शनस्य योगक्षेमसाधनत्वं प्रसिद्धमेव।नित्याभियुक्तानां इत्यस्यापवादविषयाणामित्यन्यथाप्रतीतिनिरासार्थमाह -- नित्यमिति। सर्वतः सर्वस्मिन्देशे। शरीरेन्द्रियमनोभिर्वा युक्तानां भगवति सेवोद्युक्तानाम्।

Compare this verse →
9.23Krishna

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥

Commentary · Sanskrit

।।9.23।।उक्तप्रश्नस्योत्तरं जातं? तत्किमुत्तरेणेत्यतः प्रश्नाभिसन्ध्युद्धाटनस्येदमुत्तरमित्याह -- तर्हीति। भगवद्भोगनिमित्तं हि फलं? स चेत्सर्वत्र समस्तदा सर्वेषां फलसाम्येन भाव्यम्। तदभावश्चेत्तर्हिअहं क्रतुः [9।16] इत्युक्तं सर्वत्र भगवतो भोक्तृत्वमप्यसत्यमित्यर्थः।

Compare this verse →
9.24Krishna

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च। न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥

Commentary · Sanskrit

।।9.24।।अहं क्रतुः [9।16] इत्यादिनोक्तत्वादहं हीति पुनरुक्तिरित्यत आह -- कारणमिति। त्रैविद्यादिकृतानां यज्ञानां भगवांश्चेद्भोक्ता कथं तर्ह्यविधिपूर्वकत्वं इति शङ्कायामिति शेषः।

Compare this verse →
9.25Krishna

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः। भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥

Commentary · Sanskrit

।।9.25।।ते पुण्यमासाद्य [9।20] इतियोगक्षेमं वहाम्यहम् [9।22] इति च फलभेदस्योक्तत्वात्किं यान्तीत्यादिनेत्यत आह -- फलमिति। तस्यैवायं प्रपञ्च इति भावः।

Compare this verse →
9.26Krishna

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥

Commentary · Sanskrit

।।9.26।।पत्रमित्यस्य सङ्गत्यप्रतीतेराह -- दुर्बलैरिति। अतस्तद्भजनस्य महाफलत्वेऽपि तद्विहायाल्पानां देवानां भजनमल्पफलमपि सुशकत्वात्करोमीति प्रासङ्गिकशङ्काशेषः। साधनानादरस्योक्तत्वाद्यत्किञ्चित्पत्रादिकमिति न मन्तव्यमित्याह -- न त्विति। तत्किमपि भगवते समर्पणीयमेवेति नियमोऽत्राभिप्रेत इत्यत आह -- भक्त्यैवेति। कुतः इत्यत आह -- भक्तेति। स्वार्थः स्वार्थसाधनोपायः।

Compare this verse →
9.27Krishna

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥

Commentary · Sanskrit

।।9.27।।आत्मनो गोविन्दस्यासाधनानादरस्य पूर्वमेवोक्तत्वाद्व्यर्थमुत्तरमित्यत आह -- अत इति। सामान्यमुक्त्वा विशेषे निगमनमेतदिति भावः।

Compare this verse →
9.28Krishna

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः। संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥

Commentary · Sanskrit

।।9.28।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
9.29Krishna

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः। ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥

Commentary · Sanskrit

।।9.29।।भक्तप्रियत्वमुक्त्वा तद्विरुद्धं सर्वत्र साम्यं कथमुच्यते इत्यत आह तर्हीति। यदि त्वं भक्तप्रियः तदा द्वेष्योऽप्रियश्च स्याः? ततश्च भक्तेषु द्वेषिषु यथासङ्ख्यं स्नेहद्वेषवत्त्वादल्पभक्तस्यापि कस्यचिद्बहुफलं सुखरूपं ददासि? विपरीतस्याल्पद्वेषिणोऽपि कस्यचिद्बहुफलं दुःखरूपं ददासीत्याद्यापद्यते? राजादिषु तथा दर्शनात्? तथा च वैषम्यनैर्घृण्ये तवेति शङ्कार्थः? पूर्वार्धेनैव शङ्कायाः परिहृतत्वात्किमुत्तरार्धेनेत्यत आह -- तर्हीति। अहं हि सर्वभूतेषु समः? न वैषम्यादिमान् यतो मे तदीयं द्वेषमपेक्ष्याधिकं द्वेष्यो नास्ति? तदीयां भक्तिमपेक्ष्याधिकं प्रियश्च नास्तीति भगवतोक्तेऽपि विपरीतमर्थं गृहीत्वा शङ्कते। यदि ते प्रियो नास्ति तर्हि न भक्तिः प्रयोजनं,फलस्य। तथा चोक्तविरोध इति भावः।मयि ते तेषु चाप्यहम् इत्येतन्न फलं स्वभावसिद्धत्वादित्यत आह -- मयीति। इत्यस्येत्यर्थ इति योजना। कुत एतत् इत्यत आह -- उक्तं चेति। मम ते वशा इत्येतदपि तादृगेव? भजनाभावेऽपि तद्वशत्वस्वाभाव्यादित्यत आह तदिति। यद्यपीति शेषः। अत्र दृष्टान्तं प्रमाणं चाह -- उद्धवादिवदिति। अबुद्धिपूर्वं यो वशः सः।

Compare this verse →
9.30Krishna

अपि चेत्सुदुराचारो भजते मामनन्यभाक्। साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥

Commentary · Sanskrit

।।9.30।।अपि चेत् इत्यादिना भक्तेः प्रशंसा क्रियते। तत्र विष्णुभक्तेः सुदुराचारेणैकत्र समावेशप्रतीतौ यथावद्व्याचष्टे -- न भवत्येवेति।

Compare this verse →
9.31Krishna

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति। कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥

Commentary · Sanskrit

।।9.31।।बहुपुण्येन स्वयोग्यादधिकेनार्जितेनसम्यग्व्यवसितो हि सः [9।30] इति हेतोरुक्तत्वात्क्षिप्रं इत्यादि व्यर्थमित्यत आह -- कुत इति। सम्यग्व्यवसायवत्त्वेऽपि सुदुराचारः कुतः साधुर्मन्तव्य इति शङ्कार्थः। सम्यग्व्यवसायवत्त्वात्क्षिप्रं भवति धर्मचित्तः। यदेतद्भक्तेः सुदुराचारेण सहैकत्र क्वचिदवस्थानमङ्गीकृतं तदपि न मनुष्यविषयमित्याह -- देवेति। देवाश्चन्द्रादयः? तदंशाः सुग्रीवादयः। आदिपदेन विश्वामित्रादीनामृषीणां ग्रहणम्। एतच्च देवदेवांशादिष्वेव विषयेषु भवतीति योजना। कुतः इत्यत आह -- उक्तं चेति। दुश्चरितादविरतो यः कश्चित्सोऽमलाशयो भूत्वा वासुदेवे सम्यग्भक्तो न भवेत्? तथाऽभक्तः श्रवणकीर्तनादिभक्तिलिङ्गरहितः? एवमसमाहितो विषयविक्षिप्तमनाश्च। देवादयश्च क्वचिदेवम्भूता अपि सम्यग्भक्ता भवन्ति। कुतः ज्ञानतः सम्यग्व्यवसायत्वात्। ननु देवादिभ्योऽन्योऽपि सुदुराचारस्तद्भक्तो दृश्यते? शङ्खचक्राङ्कितबाहुमूलत्वादिलिङ्गवत्त्वात्। कथमेतत् इत्यत आह -- अतोऽन्य इति। भवति चेत्सुदुराचारोऽपि भक्तिलिङ्गवानिति शेषः। मा भूत्सुदुराचारो भक्तः? मध्यमदुराचारस्तु तथाविधः कथं इत्यत आह -- साधारणेति। महतीति। वक्ष्यमाणसाधारणभक्तिव्यवच्छेदार्थं सुदुराचाराणामपि भगवत्प्रेम्णोऽनुभवसिद्धत्वात्कथं दाम्भिकत्वानुमानं इत्यत आह -- साधारणेति। अल्पेत्यर्थः। प्रेमानुभवाभावेऽनुमानमुक्तम्। महाभक्त्यभावविषयं वेति भावः। सुदुराचारोऽपि भक्तिलिङ्गवान्महाभक्त एवास्तु? किं दाम्भिकत्वादिकल्पनया इत्यत आह -- स इति। शठमतिः दम्भबुद्धिः। महाभक्तेर्दुराचारोपशमहेतुत्वोक्तेश्च न तयोरेकत्र समावेश इत्याह -- सेति? हरिभक्तिः। इतश्चैवमित्याह -- वेदा इति। मम मया। परस्य गुह्यं न च भिन्नपूर्वं पिशुनत्वं नाचरितम्। उपस्थमुदरं पाणिर्वागिति चत्वारि। मे मया। एकान्तभावेन नियतमनसा। सत्त्वमन्तःकरणम्। कारणसामग्र्यां सत्यां कार्यानुदयो ह्याश्चर्यहेतुः। नन्वाचारस्य ज्ञानसाधनत्वोक्त्यां दुराचाराणां ज्ञानाभावः सिध्यतु? महाभक्त्यभावस्तु कुतः इत्यत आह -- ज्ञानेति। कुत एतत् इत्यत आह -- तथा हीति। भक्तिज्ञानयोरविनाभूतत्वाच्च तदभावे तदभावसिद्धिरित्याह -- भक्तिरिति।

Compare this verse →
9.32Krishna

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥

Commentary · Sanskrit

।।9.32।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
9.33Krishna

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा। अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥

Commentary · Sanskrit

।।9.33।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
9.34Krishna

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥

Commentary · Sanskrit

।।9.34।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →