13.1Krishnaश्रीभगवानुवाच। इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥Commentary · Sanskrit।।13.2।।यो मायां जगदेकमोहनकरीमाश्रित्य सृष्ट्वालयं देहं जीवतयानुविश्य मतिभिः संयाति नानात्मताम्।वन्दे तं परमार्थतः सुखधनं ब्रह्माद्वयं केवलं कृष्णं वेदशिरोभिरेव विदितं श्रीशंकरं शाश्वतम्।।1।।आकाशस्य यथा धटादिभिरसौ भेदो नचास्तत्यर्थत एवं ब्रह्माणि निर्गुणेऽतिविमले बुद्य्धादिभूः कल्पितः।यस्मिन्नेकरसे विमायममितं तं वासुदेवं भजे सत्यानन्दचिदात्मकं गुरुगुरुं शर्वं तमोनाशकम्।।2।।देवीं भक्तजनार्थसार्थजननीं प्रत्हूदैत्यार्दिनीं प्रत्यूहदैत्यार्दिनीं भानुं भानुमृगेन्द्रसूदितमहद्विघ्नौघनागं प्रभुम्।शुण्डावज्रनिरस्तसर्वदुरितागं पावनं मङ्गलं ध्येयं नौमि गजाननं सुरगणैरिन्द्रं गणानां विभुम्।।3।।एवं षट्कद्वयेन त्वंपदार्थ तत्पदार्थं च प्रतिपाद्याखण्डार्थप्रतिपादनाय तृतीयषट्कमारभ्यते। तत्रभूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च। अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा। अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्। जीवभूतां महाबाहो ययेदं धार्यते जगत्। एतद्योनीनि भूतानि सर्वाणीत्युपधारय। अहं कृतस्त्रस्य जगतः प्रभवः प्रलयस्तथा।। इति सप्तमेऽध्याये त्रिगुणात्मिका क्षेत्रलक्षणा संसारहेतुत्वादपरैका? अन्या च जीवभूता क्षेत्रलक्षणा ईश्वरात्मकत्वात्परेतीश्वरस्य द्वे प्रकृती सूचिते। याभ्यामीश्वरो जगदुत्पत्त्यादिहुतुत्वं प्रतिपद्यते। तत्र क्षेत्रक्षेत्रज्ञलक्षणप्रकृतिद्वयनिरुपणद्वारा तद्वत ईश्वरस्य तत्त्वनिर्णयार्थं द्वादशाध्याये चअद्वेष्टा सर्वभूतानां मैत्रः करुण एव च इत्यादितत्त्वज्ञविशेषणान्युक्तानि। येन पुनस्तत्त्वज्ञानेन संपन्ना यथोक्तविशेषणविशिष्टा मम प्रिया भवन्तीत्यस्तत्त्वज्ञानावधारणार्थं च श्रीभगवानुवाच -- इदमित्यादिना। इदं प्रत्यक्षादिनोपलभ्यमानं दृश्यम्। इदमोक्तं विशिनष्टि शरीरं। त्रिगुणात्मिका प्रकृतिः सर्वकार्यकारणविषयाकारेण परिणता पुरुषस्य भोगापवर्गयोरर्थयोरेव कर्तव्यतया देहेन्द्रियाद्याकारेण संहन्यते सोयं संघातः शरीरशब्देनोच्यते। इदं शरीरं हे कौन्तेय क्षतात्र्णात्क्षेत्रं? क्षिणोत्यात्मानमविद्यया त्राति तं विद्यया? क्षीयते नश्यति क्षरति अपक्षीयतेऽतोपि क्षेत्रमित्यभिधीयते। क्षेत्रवदस्मिन्कर्मफलं निष्पद्यते इति वा। यथा कुन्ती त्वत्प्रादुर्भावस्थानत्वात्क्षेत्रं तथात्मनोऽभिव्यक्तिस्थानत्वादपीदं क्षेत्रमिति संबोधनाशयः। अनेन शरीरस्यात्मनोऽन्यत्वं बोधितं क्षेत्रशब्दादुपस्थितमितिपदं क्षेत्रशब्दविषयमन्यथावैयर्थ्यात्क्षेत्रमित्येवमनेन क्षेत्रशब्देनाभिधीयते कथ्यत इत्यर्थः। दृश्यं शरीरं प्रदर्श्य ततोऽतिरिक्तं द्रष्टारमात्मानं दर्शयति। एतच्छरीरं क्षेत्रं यो वेत्ति आपदतलमस्तकं मनुष्योऽहं ममेदं शरीरमिति स्वाभाविकेन? शरीरं आत्मा दृश्यत्वात् घटवदित्यौपदेशिकेन स्वातिरिक्तत्वेन वा ज्ञानेन जानाति विषयीकरोति तं तद्विदस्तौ क्षेत्रक्षेत्रज्ञौ दृश्यत्वेन द्रष्टत्वेन विदन्तीति तथा तं क्षेत्रज्ञ इति प्राहुः क्षेत्रज्ञ इत्येवम्। क्षेत्रज्ञशब्देन तं कथयन्तीत्यर्थः।Compare this verse →
13.2Krishnaक्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत। क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥Commentary · Sanskrit।।13.3।।एवं दृश्यानां दुःखादीनामनात्मधर्मत्वसिद्धये द्रष्टारं शरीराद्य्वतिरिक्तं प्रदर्श्य किमेतावन्मात्रेण ज्ञानेन ज्ञातव्यौ एतावन्मात्रेणऐव ज्ञानेन मोक्षस्य सांख्याभिमतत्वादित्याशङ्कानिरासायात्मनः सर्वदेहेष्वैक्योक्तिपूर्वकं स्वेन परमार्तेनाक्षरेण परब्रह्मणा भेदं दर्शयति -- क्षेत्रज्ञं चापीति। क्षेत्रज्ञं क्षेत्रज्ञातारं दृश्यात्क्षेत्राच्छरीरान्निष्कृष्टं द्रष्टारम्। चापीति निपातौ जीवस्याक्षरत्वज्ञानस्य शरीरादन्यत्वाज्ञानेन समुच्चायार्थौ भिन्नकमौ। न सांख्यवद्दृश्यादन्यमेव क्षेत्रज्ञं विद्धि जानीहि किंतु मां मदभिन्नं चापि क्षेत्रज्ञं विद्धीति संबन्धः। यद्वा चकारः क्षेत्रज्ञज्ञानं समुच्चिनोति। अपिरेवार्थः। सर्वक्षेत्रेषु द्रष्टारं क्षेत्रज्ञमन्यं विद्धि तं च मामसंसारिणं परमेश्वरमेव विद्धीत्यर्थः। सर्वक्षेत्रेषु यः क्षेत्रेज्ञः ब्रह्मादिस्तम्बपर्यन्तानेकक्षेत्रोपाधिप्रविभक्तस्तं निरस्तसमस्तोपाधिमेदं सदसदादिशब्दप्रत्ययागोचरं मां विद्धीत्यभिप्रायः। यथा भरतवंशोद्भवत्वाद्भारतस्त्वं तथा मयि कल्पितः क्षेत्रज्ञोऽहमेवेति ध्वनयन्संबोधयति -- भारतेति। उत्तमवंश्यत्वादेतज्ज्ञातुं योग्योऽसीति वा संबोधनाशयः। नन्वेतत्किमर्थं ज्ञातव्यमित्यपेक्षायां मोक्षानन्यसाधनसम्यग्ज्ञानत्वेन मदभिप्रेतत्वादित्याह -- क्षेत्रेति। यस्माद्दृश्यद्रष्टृप्रत्यगभिन्नपरमात्मयाथात्म्यव्यतिरेकेण ज्ञानगोचरस्यावशिष्टस्यान्यस्यासत्वात् क्षेत्रक्षेत्रज्ञयोर्ज्ञेयभूतयोर्यज्ज्ञानं क्षेत्रमात्मनि कल्पितं दृश्यं क्षेत्रज्ञश्च परमेश्वराभिन्नः प्रत्यगात्मा तौ क्षेत्रक्षेत्रज्ञौ येन ज्ञानेन गोचरीक्रियेते तज्ज्ञानं सम्यग्ज्ञानमिति मम वासुदेवस्य परमेश्वरस्य विष्णोः शास्त्रयोनेभिप्रेतमित्यर्थः। ननु जीवेश्वरयोरेकत्वे सर्वक्षेत्रेष्वेक ईश्वरो नान्यस्तद्य्वतिरिक्तो भोक्तेति जीवस्येश्वरेन्तर्भावो न वक्तुं शक्यः। संसारालम्बनस्य जीवस्येश्वरादन्यस्याभावे संसारस्य निरालम्बनत्वानुपपत्त्या परस्यैव संसारित्वप्रसङ्गात्। संसाररिणि जीवे ईश्वरस्यान्तर्भावोऽपि न शक्यते वक्तुम्। संसारिणोऽन्यस्याभावात् तस्य चापहतपाप्मत्वादिगुणकस्य विपरीतगुणकत्वेन ग्रहणानुपत्त्या संसारित्वस्यानिष्टत्वेन संसाराभावप्रसङ्गात्। नच प्रसङ्गद्वयमपीष्टमिति वाच्यम्। संसारभावेतयोरन्यः पिप्पलं स्वाद्वत्ति इत्यादिबन्धशास्त्रस्य,तद्धेतुकर्मविषयककर्मकाण्डस्य चानर्थक्यापत्तेः ईश्वराश्रिते च संसारेअनश्रन्नन्यो अभिचाकशीत इतीश्वरासंसारित्वबोधकस्य शास्त्रस्य मोक्षतद्धेतुज्ञानप्रतिपादकस्य च ज्ञानकाण्डस्य वैयर्थ्यप्रसङ्गाच्च। किचं प्रत्यक्षादिविरोधादपि संसारभावप्रसङ्गस्यानिष्टत्वं सुखदुःखतद्धेतुलक्षणस्य संसारस्य प्रत्यक्षेणोपलभ्यमानत्वात्। संसारः विचित्रहेतुकः विचित्रकार्यत्वात् प्रासादादिवदित्यनुमानाच्च संसाराभावप्रसङ्गस्यानिष्टत्वं तस्मादात्मेश्वरैकत्वमनुपपत्तिग्रस्तत्वान्न युक्तम्। अपिच जीवेश्वरयोरैक्यमेव न संभवति परोक्षापरोक्षत्वादिविरुद्धधर्मवत्त्वात् ईश्वराद्भिन्नोऽहं कर्ता भोक्ता चेति सर्वप्रमाणोपजीव्येन ज्येष्ठेन प्रत्यक्षेण गहीतस्य प्रत्ययस्य वाक्यप्रमाणजन्यज्ञानेन बाधायोगाच्च। तस्मात्क्षेत्रज्ञं तापि मां विद्धीत्यादिवदतो भगवतो नात्मेश्वरैकत्वबोधने तात्पर्यं किंतु प्रतिमादिषु विष्ण्वादिदर्शनमिव क्षेत्रज्ञे मद्दृष्टिर्विधेयेति चेन्न। ज्ञानाज्ञानयोः स्वरुपतः फलतश्चान्यत्वोपपत्त्या जीवेश्वरयोरैक्येऽप्यज्ञानकृतं संसारित्वं ज्ञानकृतमसंसारित्वमिति विभागेनानुपपत्त्यभावात् विरुद्धधर्माणां ब्रह्मण्यध्यस्तत्वात् शुद्धचैतन्ययोरभेदस्याविरुद्धत्वाच्च। तथा चदूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता। विद्याभीप्सितं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्तः। श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ संपरीत्य विविनक्ति धीरः। श्रेयो हि धीरोऽभिप्रेयसो वृणीते प्रेयो मन्दो योगक्षेमादृणीते इति श्रुतिभ्यां स्वरुपतः फलतश्च विलक्षणत्वेन विद्याविद्ये निर्दिष्टे। दूरं दूरेण महातन्तरेण विपरीते विवेकाविवेकात्मत्वात् तमःप्रकाशवत्परस्परव्यावृत्तात्मिके विषूची विषूच्यौ नानागती बन्धमोक्षहेतुत्वाद्भिन्नफले। के ते इत्यत आह। अविद्या या च विद्येति। ज्ञातागता पण्डितैस्तत्र विद्याभीप्सितं विद्यार्थिनं नचिकेतसं त्वा त्वामहं मन्ये। यस्मादाविद्वद्विप्रलोभनः कामा अप्सरःप्रभृतयो बहवोऽपि त्वां न लोलुपन्तः श्रेयोमार्गाद्विच्छेदं न कृतवन्तः साधनतः फलतश्च मन्दबुद्धीनां दुर्विवेकरुपत्वात्। व्यामिश्रीभूते इव श्रेयश्च प्रेयश्च मनुष्यं आ इतः प्राप्नुतः। अतो हंस इवाम्भसः पयस्तौ श्रेयःप्रेयः पदार्थौ संपरीत्य सम्यक् परिगम्य मनसालोक्य धीरो धीमान् गुरुलाघवं विवनक्ति पृथक्करोति विविच्य च धीरः श्रेयो हि श्रेयो मोक्षलक्षणमेवाभिवृणीते प्रेयसोऽम्यर्हितत्वात्। यस्तु मन्दोऽल्पबुद्धिः सदसद्विवेकासामर्थ्याद्योगक्षेमात् योगक्षेमनिमित्तं शरीराद्युपचयरक्षणनिमित्तं प्रेयः पशुपुत्रादिलक्षणं वृणीते इति श्रुत्योरर्थः। किंचद्वाविमावथ पन्थानौ इत्यादिवदता वेदव्यासेनात्र च निष्ठाद्वयं दर्शयता भगवता ते विलक्षणोऽभिहिते। अत्राविद्या च संसारहेतुभूता सहकार्येण मोक्षहेतुभूतया विद्यया हातव्येति श्रुतिस्मृतिन्यायेभ्योऽवगम्यते। तथाच श्रुतयःइह चेदवेदीदथ सत्यमस्ति नचेदिहावेदीन्महती विनष्टिःतमेवं विद्वानमृत इह भवतितमेव विदत्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनायविद्वान्न विबेति कुतश्चनउदरमन्तरं कुरुते अथ तस्य भयं भवतिमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिअविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः। दंद्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाःअसूर्या नाम ते लोका अन्धेन तमसावृताः। तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाःतरति शोकमात्मवित्ब्रह्माविदाप्नोति परम्ब्रह्म वेद ब्रह्मैव भवतिअन्योऽसावन्योऽहमस्मीति न सवेद यथा गशुरेव स देवानाम्आत्मवित् यः स इदं सर्वं भवतिभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे।यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः। तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति इत्याद्याः सहस्त्रशः। स्मृतयश्चअज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवःअन्यथा सन्तमात्मानं योऽन्यथा प्रतिद्यते। किं तेन न कुतं पापं चौरेणात्मापहारिणाज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः। तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परं। इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः। समं पश्यन्हि सर्वत्र इत्याद्याः अनर्थनिवृत्तिर्ज्ञानफलमनर्थप्राप्तिरज्ञानफलमित्येतदन्वयव्यतिरेकन्यायादपि सिध्यति। तदुक्तं पुरोणेसर्पान्कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति। अज्ञानतस्तं च पतन्ति केचिज्ज्ञाने फलं पश्य यथा विशिष्टम् इति। इह जीवदवस्थायाम्। चेच्छब्देन विद्योदयतौर्लम्यं द्योत्यते। अवेदीदहं ब्रह्मेति ज्ञातवान्। अथ ज्ञानानन्तरमेव सत्यमवितथमबाध्यं कैवल्यमस्ति स्यात्। नचेदिहावेदीत् इह चेन्न विजानीयात् तर्हि महती विनष्टिः जन्ममरणादिल क्षणा संसृतिरस्ति। तमेव परमात्मानमेव विदत्वा ज्ञात्वा विदत्वैवेति वा अतिमृत्युमेति मृत्युमत्येति अतिक्रामति मुच्यते। अयनाय मोक्षाय। उदरमत्यल्पमपि। अविद्यायामन्तरे मध्ये धनीभूत इव तमसि वर्तमानाः पुत्रधनादितृष्णापशशतैरावेष्ठ्यमानाः स्वयं धीरा धीमन्तो नत्वन्यैर्धीरत्वेनाभिमता अपण्डितमात्मानं पण्डितं शास्त्रकुशलं मन्यमाना ये एतादृशास्ते दंद्रम्यमाणा अत्यन्तं कुटिलामनेकुरुपां गतिं गच्छन्तः परियन्ति जरामरणादिदुःखे परिगच्छन्ति। यतो मूढा अविवेकिनः। तत्र दृष्टान्तः। अन्धेनैव दृष्टिहीनेनैव विषमे पथि नीयमाना यथान्धाः महान्तमनर्थं प्राप्नवन्ति तद्वदिति कठिनश्रुत्यक्षरार्थः। तथाच देहेन्द्रियाद्यनात्मसु आत्मबुद्धिमतोऽज्ञस्य रागद्वेषादिप्रयुक्तस्य धर्माधर्मानुष्ठानकर्तुः जन्ममरणादिलक्षणसंसारभाक्त्वं देहेन्द्रियादिव्यतिरिक्तात्मदर्शिनो रागद्वेषादिप्रहाणापेक्षधर्माधर्मप्रवृत्त्युपशमात् मोक्षभाक्त्वं श्रतिस्मृतिन्यायादवगतं न केनचित् वादिना कयाचिदपि युक्त्या वारयितुं शक्यम्। एवंचोक्तप्रकारेण ज्ञानाज्ञानयोः स्वरुपतः कार्यतश्च भेदे सति वस्तुतः क्षेत्रज्ञस्यैवेश्वरस्य सतोऽविद्याकृतबुद्य्धाद्युपाधिमेदात्संसारित्वमाविद्यकमाभासरुपं प्रातिभासिकं सिध्यति। यथा पुरःस्थिते वस्तुतः स्थाणावविद्याकृतेऽतस्मिंस्तद्वुद्धिलक्षणे पुरुष इति निश्चये जातेपि पुरुषधर्मः शिरःपाण्यादिमत्त्वं न स्थाणोर्भवति तद्धर्मो वक्रत्वादिमत्त्वं वा न पुरुषस्य दृश्यते। तथा देहाद्यनात्मस्वात्मभावनिश्चयेऽविद्याकृते सर्वजन्तुप्रसिद्धे जाते न चैतन्यं देहादिधर्मो देहादेर्धर्मो न वा जाड्यजरामरणादिचैतन्यस्य। ननु जाड्यादेरनात्मधर्मत्वेऽपि सुखादेरात्मधर्मत्वं किं न,स्यादितिचेन्न।कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्नीर्धीर्भीरित्येतत्सर्वं मनएव इति श्रुत्या विमतं सुखदुःखमोहात्मकत्वादिरात्मनो धर्मो न भवति। अविद्याकृतत्वाविशेषात् जराभृत्युवदिति युक्त्या च सुखदुःखादीनामनात्मधर्मत्वसिद्धेः। ननु स्थाणुपुरुषयोर्ज्ञेययोरेव सतोर्ज्ञात्राऽविद्ययान्योन्यस्मिन्नध्यस्तत्वोद्देहात्मनोस्तु ज्ञेयज्ञात्रोरेवाध्यासात् दृष्टान्तदार्ष्टन्तिकयोर्वैषम्येण स्थाणौ पुरुषत्ववदाविद्यकत्वं देहादेरयुक्तम्। अध्यासव्यापकस्योभयोर्ज्ञेयत्वस्य व्यावृत्त्या व्याप्यस्याध्यासस्यापि व्यावृत्तेः। तस्माद्देहधर्मो ज्ञेयोऽपि सुखादिरात्मनो भवतीति चेदुच्यते। अविद्याध्यासमात्रं हि दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं विवक्षितं उभयोर्ज्ञेयत्वं तु नाध्यासव्यापकम्। स्वप्ने ज्ञातरि ज्ञेयाध्यासदर्शनात् सुखदुःखमोहेच्छदीनां देहादेः क्षेत्रस्य धर्माणामात्मधर्मत्वं चेत्तर्हि विशेषहेत्वभावादचैतन्यं जरामरणादिकं चात्मनो दर्वारं स्यात्। सुखादेरात्धर्मत्वाभावे तु विमतं सुखादिकमात्मधर्धो न भवति अविद्यारोपितत्वात् आगमापायित्वात् दृश्यत्वाज्जडत्वाज्जरादिवदित्यस्ति हेतुरतःसुखादीनां क्षेत्रधर्मत्वमेव युक्तं नात्मधर्मत्वम्। एवं च सर्वक्षेत्रेष्वपि सतो भगवतः क्षेत्रज्ञात्मकस्येश्वरस्य संसारेण ज्ञेयस्थेन ज्ञातर्यविद्यारोपितेन ज्ञातुर्वस्तुतः स्पर्शाभावात्। नन्वविद्यावत्त्वात्क्षेत्रज्ञस्य तदध्यस्तं संसारित्वामपि स्वाभाविकं स्यादितिचेन्न। तामसे आवरणात्मके तिमिरादिदोषे सत्यग्रहणदेरविद्यात्रस्योपलब्धेर्विवेकप्रकाशात्मके क्षेत्रज्ञे तामसत्वेनावरणात्मिकाया अविद्याया अभावेनाग्रहणविपरीतग्रहणसंशयानामप्यनुपपत्त्या तस्य स्वाभाविकसंसारित्वस्याभावात्। नन्वेवं तर्हि आत्मानं न जानामि मनुष्योऽहमित्यादिप्रत्ययदर्शनात्। ज्ञातुर्धर्मोऽविद्या तद्धर्मवत्वं च ज्ञातुः संसारित्वं तथाचेश्वर एव क्षेत्रज्ञोऽसंसारी चेति विप्रतिषिद्धमितिचेन्न। यतो यथा चक्षुषि तैमिरिकत्वादिदोषे सति विपरीतग्रहणादिकं दृश्यते दोषापगमे च न दृश्यते इत्यन्वयव्यतिरेकाभ्यां निमित्तनैमित्तिकं च करणस्य चक्षुषु एव नतु गृहीतृधर्मस्तथा सर्वत्राग्रहणादिप्रत्ययास्तद्धेतवश्च दोषाः कस्यचित्करणस्यैव भवितुर्महन्ति। तता चावरणाद्यात्मिकाविद्या अन्तःकरणस्य धर्मो नतु क्षेत्रज्ञस्य। तथाचायं प्रयोगः -- निमित्तनैमित्तिकाऽविद्या तत्त्वतो न ज्ञातधर्मो दोषत्वात्तत्कार्यत्वाद्वा तिमिरादिदोषवत् तज्जन्यविपरीतग्रहणबद्धा। किंचाग्रहणादिस्तद्धेतुर्दोषश्च तत्त्वतो न ज्ञातृधर्मः ज्ञेयत्वात् प्रदीपप्रकाशवत्। यज्ज्ञेयं तत्स्वातिरिक्तज्ञेयं यथा प्रदीपप्रकाश इति व्यापत्याऽग्रहणादेरपि ज्ञेयत्वेन स्वातिरिक्तज्ञेयत्वावशयंभावात्। ज्ञाता न ज्ञेयधर्मवान् ज्ञातृत्वात् यथा देवदत्तो न स्वज्ञेयधटादिरुपादिमान् सर्वकरणवियोगे च कैवल्ये सर्ववादिभिरविद्यादिदोषत्त्वानभ्युपगमात्। अविद्यादिस्त्त्वतो न ज्ञातृधर्मो व्यमिचारित्वात् स्थूलत्वकृशवत्दिवत्। अपरिचाविद्यारात्मनो ज्ञातुर्धर्मः किमग्नयौष्णयवत्स्वाभाविकः किंवा आगन्तुकः। नाद्यः स्वाभाविकेन धर्मेण कदाचिदपि वियोगाभावेनानिर्मोक्षप्रसङ्गात्। आगन्तुकोऽपि किं स्वतः उत परतः। नाद्यःअनिर्मोक्षप्रसङ्गादेव। न द्वितीयः विभूत्वादविक्रित्वात् निरवयवत्वादसङ्गात्वादद्वयत्वाच्चात्मनः व्योमत्केनचित्क्वचित्संयोगानुपपत्त्या परतस्तस्मिन्नग्रहणादेर्वक्तुमशक्यत्वात्। तस्मादित्सिद्धं क्षेत्रज्ञस्य कालत्रयेऽपीश्वरत्वम्अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः। शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते। यथा सर्वगत् सौक्ष्यादाकाशं नोपलिप्यते। सर्वत्रावस्तितो देहे तथात्मा नोपलिप्यते?अन्तःकरणव्यतिरिक्तोऽहमितिप्रतीयमाने जीवः परस्मान्न भिद्यते चेतनत्वाद्ब्रह्मवत् इत्यादिश्रुतियुक्तभ्यश्च। ननु सर्वप्रमाणोपजीव्यतया श्रेष्ठेन ज्येष्ठेन नाहमीश्वर इत्येवंरुपेण प्रत्यक्षेण भेदस्योपलभ्यमानत्वात् तद्विपुद्धं क्षेत्रज्ञेयश्वरयोरैक्यं श्रुतियुक्तिभिर्बोधयुतं न श्क्यते। ननु प्रत्यक्षस्य व्याहारिकभेदविषयत्वेन श्रुत्यादिजन्यज्ञानेन बाधसंभवादिविरोध इति चेन्न। भेदग्राहिप्रत्यक्षस्याहमीश्वर इति तद्विरोधिप्रत्ययाभावेन बाधासंभवात्। ननु क्षेत्रज्ञेश्वरभेदप्रत्यक्षे किं बहिरिन्द्रियं चक्षुरादि हेतुः किंवा मनः। नाद्यः बाह्येन्द्रियाणां रूपादिरहितात्मग्रहणसमार्थ्याभावेन तद्गतभेदग्रहणेऽप्यसामर्थ्यात्। न द्वितीयः।प्रमाणान्तरसहकरिणो मनसः पृथक्प्रमाणत्वायोगात्। तस्मात् क्लृप्तकारणाभावाद्भेदप्रत्यक्षं भ्रान्तिरितिचेन्न। सुखादिप्रत्यक्षस्य प्रमाणान्तराजन्यत्वेन मनस एव तत्प्रमाणत्वे आत्मनोऽपि त्प्रमाणत्वेन तद्गतभेदस्यापि तत्प्रमाणत्वात्। नन्वतीन्द्रियेश्वरप्रतियोगकभेदस्याप्यतीन्द्रित्वात् ईश्वरभेदः कथं प्रत्यक्षः अभावप्रत्यक्षस्य प्रतियोगप्रत्यक्षतन्त्रत्वादिचिचेन्न। मनस्तवे घटत्वाभावस्याप्रत्यक्षत्वात् घटत्वे मनस्त्वाभावस्य प्रत्यक्षत्वाच्च प्रतियोगप्रत्यक्षस्याभावप्रत्यक्षे तन्त्रत्वाभावात्। तथाच यत्र घटत्वादौ यस्य मनस्त्वादेः सत्त्वमनुपलब्धिविरोधि तत्र तदभावः प्रत्यक्षः। ततश्च क्षेत्रज्ञे ईश्वाभेदो यदि स्यात्तर्हि उपलभ्येत। यतो नोपलभ्यते तस्मात्तद्भेदः प्रत्यक्षः। नच स्थूलोहमित्यादिप्रत्यगोचरः स्थौल्यादिर्यथा शरीराद्युपाधिकतयात्मनि कल्पितस्तथा शरीरविशिष्टस्यैवेश्वरभेदानुभवात् भेदप्रत्ययोऽप्यौपाधिकत्वात्कल्पित इति वाच्यम्। जाग्रतस्वप्नयोरेकशरीरानभभासेपि योहं स्वप्नेमोहमिदानीं मनुष्यः कद्वारुढ इत्यहंप्रत्ययस्यैकरुपस्यानुवर्तमानत्वेन देहातिक्तात्मनोऽहमिति प्रत्यक्षप्रत्यगोचरत्वाभ्युपगमावश्वकत्वेन तत्र प्रतीयमानस्येश्वरप्रतियोगिकभेदस्यौपाधिकत्वायोगेनाकल्पिततत्वादितिचेदुच्यते। मनो न प्रमाणं किं चित्प्रमाणसहकारित्वात्कालादिवद्य्वतिरेके चक्षुरादिवत्? अनन्यथासिद्धप्रमेयशून्यत्वात् च मनो न प्रमाकरणं तदाश्रयत्वात्प्रमातृवत्। तदुक्तंप्रमाणसहकारित्वाद्विषस्याप्यभावतः। न प्रमाणं मनोऽस्माकं प्रमादेराश्रयत्वतः। तदपि सुखादिप्रत्यक्षस्येत्यादि तदपि न। सुखादिव्यवहारः स्वविषज्ञानजन्यः अर्थज्ञापनेच्छाधीनजडव्यवहारत्वात् संमतवदित्यनुमानात्। किंच मनो न भेदे प्रमाणमसन्निकृष्टत्वात्संमतवत् मनसो भेदेन संयोगसमवायतादात्म्यानामन्यतो न,भवति इति सुप्रसिद्धम्। अन्यश्चेन्द्रियसंनिकर्षोऽप्रसिद्धः असंनिकृष्टं चेन्द्रियमर्थं नैव गृह्णाति। तदुक्तंसंयोगादेरयुक्तत्वात्तदन्यस्याप्रसिद्धितः। संनिकर्षस्य तेनेदं भेदासंग्येव मानसम् इति। युत्तु मनस्त्वे घटत्वप्रतियोगकाभावस्येत्यादि तदपि न। प्रतियोगसत्त्वस्यानुलब्धिविरोधित्वं तत्प्रतियोग्युलब्धिव्याप्यत्नेवैव वक्तव्यम्। एवं चान्यत्र प्रतियोगसत्त्वस्याभावस्थलीयोपलम्भाव्याप्तत्वेन तत्रत्यानुप्रलब्धिविरोधित्वायोगात्। यत्रेत्यादिवक्तुरभावाधिकरण एव प्रतियोगसत्त्वतदुपलम्भयोर्वाच्यत्वापत्तेः। किंच यथा लौकिकोपदेशस्य सहकारिणोऽभावाद्ब्रह्मणत्वाद्यनुपलम्भस्तदभावं विनोपपन्नस्तथाआचार्यावान्पुरुषो वेद?नावेदविनमुनते तं बृहन्तं?श्रोतव्यो मन्तव्यः इत्यादिना बोधितस्य सहकार्यन्तरस्याभावेन क्षेत्रज्ञे ब्रह्माभेदानुपलम्भोऽप्भावं विनोपपद्यते। अपि च तमसावृतस्य घटस्य सत्त्वं यता नानुपलब्धिविरोधि तथानीहारेण प्रावृताजल्प्या च?अनृतेन हि प्रत्मूढाअज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः?भवत्यभेदो भदश्च तस्याज्ञानकृतो भवेत् इत्यादिश्रुतिस्मृतिऽज्ञानेनावृतत्वप्रतीतेर्ज्ञातृब्रह्माभेदसत्त्वं नानुपलब्धिविरोध। किंच यथा मनसानुपलम्भान्न धर्माद्याभावसिद्धिस्तथायन्मनसा न मनुते?तं त्वैपनिषदं पुरुषं पृच्छामि?सर्वेवेदायत्पदमामनन्ति इत्यादिश्रुत्या मनोगम्यस्य प्रत्यगभिन्नस्य ब्रह्मणः मनसानुपलम्भादभावो न सिध्यति। तदपि जाग्रत्स्वप्नयोरित्यादि तदपि न। नाहमीश्वर इति भेदानुभवस्याहमिहेति परिच्छिन्नतयानुभूयमाने जीवेऽनुभूयमानत्वात् निरुपाध्यात्मनश्च परिच्छेदासंभवाद्धटाकाशवत्परिच्छेस्यौपाधिकत्वेन तद्गतभेदस्याप्यौपाधिकत्वात् प्रत्यक्षस्य व्यावहारिकस्त्तामुपजीव्य प्रवत्तं श्रुत्यादि तस्य पारमार्थकसत्तां निराकरोत्यतो नोपजीव्यविरोधः। ज्येष्ठत्वात् रजतज्ञानवत्। ननु क्षेत्रज्ञस्येश्वाभिन्नत्वे सति संसारसंसारित्वाभावे शास्त्रस्य प्रत्यक्षादेश्चानर्थक्यात् वास्तवत्वमेव संसारसंसारित्वयोरिति चेत् किं विद्यावस्थायां शास्त्रद्यानर्थक्यमुताविद्यावस्तायाम्। आद्ये मुक्तात्मनां संसारसंसारित्वव्यवहारस्य सर्वैरप्यात्मवादिभिरनिष्टत्वेन तैर्यथाशास्त्राद्यानर्थक्यदोषो नैवाभ्युपगतस्तथास्माभिरपि? द्वितीयं च यथा सर्वेषां द्वैतिनां मते बन्धावस्थायामेव शास्त्रार्यर्थत्त्वं न मुक्तावस्थायामेवम्। ननु द्वैतिनां मते आत्मनो बन्ध मुक्त्यवस्थयोर्वास्तवत्वेन हेयोपादेयसाधनसद्भावेन शास्त्रादेरर्थवत्त्वं सिध्यति नत्वद्वैतिनामविद्याकृतत्वात् द्वैतस्यापरमार्थत्वेनात्मनो बन्धावस्थाया अवास्तवत्वादितिचेत् आत्मनो वास्तवे बन्धमुक्त्यवस्थे युगपत्सयातां क्रमेण वा। नाद्यः। एककालीनस्थितिगतिवदेकस्मिन् युगपद्विरोधात्। द्वितीयेऽपि तयोर्निर्निमित्तत्वं सनिमित्तत्वं वा। नाद्यः। अनिर्मोक्षप्रसङ्गात्। द्वितीये स्वतोभावादपरमार्थत्वप्रसङ्गेन बन्धमोक्षावस्थे न वास्तवेऽस्वाभाविकत्वात् स्फटिकलौहित्यवदित्यभ्युपगमहानापत्तेः। द्वितीये स्वतोभावदपरमार्थत्वप्रसङ्गेन बन्धमोक्षावस्थे न वास्तवेऽस्वाभाविकत्वात् स्फटिकलौहित्यवदित्यभ्युपगमहानापत्तेः। किंचावस्थयोर्वास्तत्वमिच्छता तयोर्यौगपद्यासंभवेन क्रमनिरुपणार्थं बन्धवास्थापूर्वं प्रकल्प्यानादिमत्यन्तवती तथा मोक्षावस्था पश्चात्प्रकल्प्या आदिमत्यनन्ता तच्च यदनादिभावरुपं तन्नित्यं यथात्मा। यत्सादिभावरुपं तदन्तवद्यथा घटादीति व्याप्तिद्वयविरुद्धम्। अपि च क्रमभाविनीभ्यावस्थाभ्यामात्मा संबध्यते न वा। आद्ये किं पूर्वावस्थया सहैवोत्तरावस्थया संबध्यते किंवा पूर्वावस्थां विहाय। आद्येऽनिर्मोक्षप्रसङ्गः। द्वतीये आत्मनः सातिशयत्वापत्त्या नित्यत्वमुपपादयितुमशक्यम्। अन्त्ये द्वैतिनामपि शास्त्राद्यानर्थक्यदोषस्यापरिहार्यत्वान्नाद्वैतवादिना परिहर्तव्यम्। तर्हि पक्षद्वयेप दोषाविशेषान्नाद्वैतमतांनुरागे हेतुरिति चेन्न। अद्वैतमते शास्त्राद्यानर्थक्याभावात्। भोक्तृत्वकर्तृत्वयोर्देहादृष्टयोर्वा फलहेत्वोरनात्मनोरहं कर्ताहं भोक्ताहं मनुष्य इत्याद्यत्मदर्शनवतोऽविदुशोऽधिकारिणः संभवात् न शास्त्राद्यानर्थक्यम्। ननु विद्वद्विषयं शास्त्रं किं न स्यादितिचेन्न। विदुषां फलहेतुभ्यामात्मनोऽन्यत्वदर्शने सति तयोरहमित्यात्मदर्शनानुपपत्तेः। नहि जलाग्नयोश्छायातपर्योर्वा भेददर्शी अत्यन्तमूढोऽपि तयोरेत्कामतां पश्यति किमुत विवेकी। तस्माद्विधिनिषेधशास्त्रं न विद्वद्विषयम्। नहि देवदत्त त्वमिदं कुर्विति देवदत्ते नियुक्तं तत्रस्थो नियोगं श्रृण्वन्नपि विष्णुमित्रोहं नियुक्त इति नियोगं प्रतिपद्यते। ननु देवदत्ते नियुक्ते कदाचिद्विष्णुमित्रो विनियुक्तोऽस्मीति प्रतिपद्यत इतिचेत्सत्यम्। नियोगविषयान्नियोज्यादात्मनो विवेकाग्रहणात्। भ्रान्त्या प्रतिपत्त्युत्पत्तेः। तथा फलहेत्वोरप्यात्मनो विवेकाग्रहणात् अविद्वान्संभवत्येव विधिनिषेधशास्त्राधिकारी। ननु यो विद्योदयात्पूर्वमनुभूतोऽविद्योत्पन्नदेहाद्यभिमानसंबन्धस्तदपेक्षया सत्यपि फलहेत्वोरात्मान्यत्वदर्शने इष्टफलहेत्वोः प्रवर्तितोऽस्म्यनिष्टफलहेत्वोर्निवर्तितोऽस्मीति शास्त्रार्थविषया प्रवृत्तियुक्तैव। यथा पुतृपुत्रभ्रात्रादीनामितरेतरात्मान्यत्वदशने सत्यपि पितरमधिकृत्य विधौ निषेधे वा तस्य तदनुष्टानाशक्तो पुत्रस्य तद्विषया धीरिष्टा? एवं पुत्रस्यानुष्ठानाशक्तस्य पितुरित्यन्योन्यनियोगप्रतिषेधार्था प्रतिपत्तिरिति चेन्न। पुत्रादीनां मिथ्याभिमानात्। मथो नियोगादिप्रतिपत्तिसत्त्वेऽपि व्यतिरिक्तात्मदर्शनप्रतिपत्तः प्रागेव फलहेत्वोरात्माभिमानस्य प्रसिद्धत्वेन विदुषस्तदयोगात्। किंचसर्वोपेक्षा च यज्ञादिश्रुतेः इत्यधिकरणे सम्यग्ज्ञानस्यादृष्टसाध्यत्वोक्त्या अनुष्ठितविधिनिषेद्यार्था हि फलहेतुभ्यामात्मनोऽन्यत्वं प्रतिपद्यते। सत्यदृष्टे सम्यग्ज्ञानदर्शनात्? असति च तस्मिञ्छुद्धचित्तस्य तददर्शनादन्वव्यतिरेकाभ्यांतमेतं वेदानुवचनेन ब्राह्णा विवदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन इति श्रुत्या च विधिनिषेधानुष्ठानात्मपूर्वं ताभ्यामात्मनोऽन्यत्वं न प्रतिपद्यते। तस्मादविद्वद्विषयं विधिनिषेधशास्त्रमिति सिद्धम्। ननुस्वर्गकामो यजेत?न कलञ्जं भक्षयेत् इत्यादावात्मनो देहाद्य्वतिरेकं पश्यतां देहाद्यभिमानरुपाधिकारहेत्वभावात् देहादावात्मत्वमनुभवतामपि पारलौकिकप्रतित्त्याभावात् प्रवृत्तिनिवृत्तयभावेन कर्तुरभावात् शास्त्रानर्थक्यमितिचेन्न। प्रत्यगभिन्नब्रह्मविदः ,परलोकाभावविदश्चानात्मवादिनः प्रवृत्तिनिवृत्त्यभावेऽपि विधिनिषेधशास्त्रान्यथानुपपत्त्यानुमितात्मस्तित्वस्य निर्विशेषात्मस्वरुपानभिज्ञस्य कर्मफले स्वर्गादौ नरकादौ च संजाततृष्णस्योत्पन्नत्रासस्य च श्रद्दधानस्य प्रवृत्तिनिवृत्त्योः सर्वप्रत्यक्षसिद्धत्वेन शास्त्रानर्थक्याभावात्। ननु विवेकिनां देहादिभ्यो निष्कृष्टमात्मानं दृष्टवतां विधिनिषेधयोरधिकाराभावेन प्रवृत्तिनिवृत्त्यभावेयद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते इति न्यायेन तदनुगच्छतां तेषां विधिनिषेधशास्त्रेऽप्रवृत्तिदर्शनात्तत्राप्रवृत्तौ शास्त्रानर्थक्यमितिचेत् किं सर्वेषां विवेकित्वाच्छास्त्रानर्थक्यमुच्यत उत कस्यचित्। नाद्यःमनुष्याणां सहस्त्रेषु कश्चिद्यतति सिद्धये। यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः इतिन्यायेन सर्वेषां विवेकित्वाभावात्। न द्वितीयः। मूढानां प्रवृत्तिनिवृत्त्यो रागादिदोषाधीनत्वेन विवेक्यनुगामित्वाभावात्। श्येनाद्यभिचारिकर्मणि विवेकनामप्रवृत्तावपि इतरेषां प्रवृत्तिदर्शनेन तदप्रवृत्तावितरेषामप्यप्रवृत्तिरिति नियन्तुमशक्यत्वात्।स्वभावस्तु प्रवर्तते इत्युक्तत्वेन प्रवृत्तेः स्वभावाख्याज्ञानकार्यत्वाद्विवेकिनां प्रवृत्त्यभावेऽप्यज्ञानां प्रवृत्त्यभावायोगात्। तस्मादविद्यामात्रः विधिनिषेधाधीनप्रवृत्तिनिवृत्त्यात्मको तथा मिथ्याज्ञानस्य परमार्थवस्तुदूषणेऽसामर्थ्यमतो भगवतेदमुक्तंक्षेत्रज्ञं तापि मां विद्धि सर्वक्षेत्रेषु भारत इति। एवंचोक्तयुक्त्यात्वं वा अहमस्मि भगवो देवते अहं वै त्मसि अहं ब्रह्मास्मि तत्सत्यं स आत्मा तत्त्वमसि इत्यादिश्रुत्या असकृदुपदेशाच्च प्रतिमायां विष्णुबुद्धिरिव क्षेत्रज्ञ ईश्वरबुद्धिरिति बालविमोहनमात्रं गौणत्वप्रसङ्गात् वाक्यवैरुप्याच्च।अथ योऽन्यां देवतामुपास्तेऽन्योसावन्योऽन्योऽहमस्मीति न स वेद।मृत्योः स मृत्युमाप्राप्नोति य इह नानेव पश्यति।सर्व तं परादाद्योन्यत्रात्मनः सर्वं वेद इत्यादिश्रुतिभिर्भेदर्शनस्य निषिद्धत्वाच्च। यत्पुनरुक्तं विरुद्धधर्मवत्त्वादैक्यं न संभवतीति तदपि न। विरुद्धमर्मताया मिथ्यात्वोपपत्त्या जहदजहल्लक्षणया सोऽयंदेवदत्त इतिवदैक्यस्य सुवचत्वात्। तसमात्क्षेत्रज्ञस्येश्वराभिन्नस्य न संसारसंस्पर्शः। ननु संसारिणामिवाहं ब्राह्मण एवमाभिजात्यादिविशिष्टः इदं पुत्रक्षेत्रकलत्रादकं ममेति पण्डितानामपि संसारित्वप्रतीते क्षेत्रज्ञस्य वस्तुतः संसारासंस्पर्शे विद्वदनुभवो विरुध्येदिति चेन्नेदं पाण्डित्यं कूटस्थासंसार्यात्मदर्शनं कुंतु क्षेत्रज्ञ एवात्मदर्शनं क्षेत्रज्ञ कूटस्थं पश्यतां अयमहं कर्ता ममेदं भोग्यं रयान्ममानेन कर्मणेदं फलं सेत्स्यतीति प्रत्ययो न संभवति। कूटस्थात्मधीविरुद्धत्वादस्य प्रत्ययस्य। नन्वविक्रियात्मदर्शिनो बोगकर्माकाङ्क्षयोरभावे कः शास्त्राधिकारितिचेत् दुर्वचत्वात्तस्य निवृत्तिनिष्ठत्वं न सिध्यतीति चेत्सत्यम्। तथापि कार्यकरणसंघातव्यापारोपरमे निवृत्तिरुपचर्यते। इदं चान्यत्पाण्डित्यं कस्यचित्पण्डितंमन्यस्य। क्षेत्रज्ञ ईश्वर एव क्षेत्रं चान्यत्। क्षेत्रज्ञविषयः अहं तु वस्तुतः संसारी सुखी दुःखी च। ननु संसारित्वस्य वास्तवत्वे तदनिवृत्त्या पुरुषाथासिद्धिरिति चेन्न। क्षेत्रं ज्ञात्वा ततो निष्कृष्टस्य क्षेत्रज्ञस्य ज्ञानेन मम संसारीपरमस्य कर्तव्यत्वात्। ननु क्षेत्रज्ञज्ञानं खतं संसारोपरत्युत्पादकमितिचेत्। ध्यानेनेश्वरं क्षेत्रज्ञं साक्षात्कृत्य तत्स्वरुपावस्थानेनेति गृहाण। तथा चाहं वस्तुतः संसारी असंसारिणः क्षेत्रज्ञादीश्वरादन्यस्तस्मान्मम संसारिणोऽसंसारिश्वरत्वं कर्तव्यभित्येवं यो बुध्यते यो वा तथाविधं ज्ञानं त्वया संपादनीयमिति बोधयति नासौ क्षेत्रज्ञः। अन्यथोपदेशानर्थक्यमित्येवं मन्यमानो पण्डितापसदः। अयमात्मा ब्रह्मेत्याद्यात्मनो ब्रह्मत्वबोधकश्रुत्या प्रतिपादितोपपत्त्या च विरोधात्। ननु संसारस्य वस्तुत्वाभ्युपगमात्संसारावस्थायां कर्मकाण्डस्यार्थवत्त्वं संसारिनिरासेनात्मनो ब्रह्मत्वे ध्यानादिना साधिते मोक्षावस्थायां ज्ञानकाण्डस्यार्थवत्त्वं तत्कथं यथोक्तज्ञानवान्पण्डितापसन इत्युच्यत इति चेत्। उच्यते। संसारमोक्ष्योः शास्त्रस्य चार्थवत्त्वं करोमीति मन्यमानः पण्डितापसद एव। यतः कल्पितं संसारित्वमधिकृत्य साध्यसाधनसंबन्धं बोधयतः कर्मकाण्डस्य तथाविधं संसारित्वं पराकृत्याखण्डैकरसे प्रत्यग्ब्रह्मणि पर्यवस्यतः ज्ञानकाण्डस्य आत्मनः शास्त्रसिद्धं ब्रह्मत्वं च त्यक्त्वा संसारित्वस्य वास्तवत्वमात्मनोऽब्रह्मत्वं च कल्पयन्नात्महा भूत्वा शास्त्रार्थसंप्रदायरहितत्वात् तत्त्वमसीतिवत्प्रसिद्धक्षेत्रज्ञानुवादेनाप्रसिद्धं तस्येश्वरत्वं क्षेत्रज्ञं चापि मां विद्धीत्युपदेशतः श्रुतं तस्य हानिमश्रुत्यस्य जीवेश्वरयोर्भेदस्य कल्पनां च कुर्वनत्स्वयं मूढः क्षेत्रज्ञं तापि मां विद्धीत्यनेन सर्वक्षेत्रान्तर्यामी परो जीवादन्यो निरुप्यते नतु जीवस्येश्वरत्वं बोध्यते इत्यन्यांश्च व्यामोहयति। तस्मादसंप्रदायविद्यथोक्तं पाण्डित्यं पुरुस्कृत्य सर्वशास्त्रार्थविदपि मूर्खवदुपेक्षणीयः। तथाच विद्याविद्यायोर्वैलक्षण्याभ्युपगमात् ईश्वरस्य क्षेत्रज्ञैकत्वे संसारित्वं प्राप्नोति क्षेत्रज्ञानां चेश्वरैकत्वे संसारिणोऽभावात्संसाराभावप्रसङ्ग इत्येतौ दोषौ प्रत्युक्तौ। अविद्यापरिकल्पितदोषेण तद्विषयं वस्तु न दुष्यतीत्यत्र दृष्टान्तस्योक्तत्वात्। संसारसंसारिणोरविद्याकल्पितत्वेनोपपत्तेः। नन्वविद्या संसारसंसारिणौ कल्पयन्ती() आश्रयान्तराभावात्क्षेत्रज्ञाश्रया तस्य त तद्वत्तत्वमेव संसारित्वम्। नचाविद्यावत्त्वमविद्याकृतमनवस्थाप्रसङ्गात्। ननूत्खातदन्तोरगवदविद्या किं करिष्यतीतिचेन्नाहं दुःख्यहं सुखीति तत्कृतस्य दुःखित्वादेः प्रत्यक्षसिद्धत्वादिति चेन्न। क्षेत्रज्ञ आपाद्यामानस्य दोषजातस्य ज्ञेयत्वोपपत्त्या क्षेत्रधर्मत्वेन क्षेत्रज्ञधर्मात्वाभावात्। नच क्षेत्रद्वारा क्षेत्रज्ञस्तत्कृतदोषवत्तया दुष्यति क्षेयेन ज्ञातुः संसर्गे ज्ञेयत्वाभावप्रसंगेन तेन ज्ञातुः संसर्गानुपपत्तेः। ननु धर्मधर्मित्वेन संसर्गेऽपि ज्ञेयत्वे का क्षतिरितिचेत्। अविद्यावत्त्वदुःखित्वादेरात्मधर्मत्वे स्वधर्मस्य च स्वज्ञेयत्वे स्वस्यापि स्वज्ञेयत्वापत्त्या कर्मकर्तृविरोध इति गृहाण। किंच विमतं नात्माश्रितं तज्ज्ञेयत्वात् रुपादिवदित्यनुमानात्। दुःखित्वादेः प्रत्यक्षेणोपलभ्यमानत्वेन ज्ञेयत्वेनात्मधर्मत्वं न संभवति तद्धर्मत्वे वा ज्ञेयत्वम्। किंच महाभूतानीत्यादिना ज्ञेयमात्रस्य क्षेत्रान्तर्भावकथनात् एतद्यो वेत्तीत्युक्त्या क्षेत्रज्ञस्य ज्ञातृत्वानिर्णयाज्ज्ञेयं सर्वं क्षेत्रं ज्ञातैव क्षेत्रज्ञ इत्यवधार्यते। तस्मात्प्रमाणयुक्त्याख्यावष्टभान्तराभावात् केवलाविद्यावष्टम्भात् अविद्यादुःखित्वादेः,क्षेत्रज्ञधर्मत्वं तस्य च प्रत्यक्षोपलभ्यत्वमिति विरुद्धमुच्यते। ननु यया अविद्या विरुद्धमपि निर्वोढुं शक्यते तस्याः स्वातन्त्र्याभावात् चितोऽन्यस्य वास्तववस्तुनोऽविद्यसानत्वात् आविद्यकस्य च विद्यमानत्वेऽपि तस्य तत्कार्यतया तदाश्रयत्वासंभात् अविद्या कस्येति चेत्। किमाश्रयमात्रं पृच्छसि तद्विशेषं वा। आद्ये तस्यादृश्यत्वेन पारतन्त्र्यात् किंचिन्निष्ठैव दृश्यते। तथाच यमाश्रयते तस्यैव सेत्यतो नाश्यमात्रं प्रष्टव्यं तस्योपलभ्यमानमत्वात्। आश्रयविशेषस्योपलभ्यमानत्वादेव। न द्वितीयः। नहि गोमत्युपलभ्यमाने गावः कस्यति प्रश्नो युज्यते। ननु गवां तद्वतश्च प्रत्यक्षत्वात्तसंबन्धोऽपि प्रत्यक्ष इति तत्प्रश्नो यथा निरर्थकः तथाऽविद्यातद्वतोश्च प्रत्यक्षत्वाभावात्प्रश्नानर्थक्याभावात्। दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमिति चेदप्रत्यक्षेणाविद्यावताऽवित्यासंबन्धे ज्ञाते तव किं स्यात्। नन्वविद्याया अनर्थहेतुत्वात् परिहर्तव्या स्यादितिचेत् यस्यास्ति सा स तां परिहरिष्यति। ननु ममैवाविद्या तत्परिहारे मयैव प्रयतितव्यमितिचेत् तर्ह्यविर्यां तद्वन्तं चात्मानं जानासीत्यतः प्रश्नानर्थक्यम्। ननु जानन्नपि तद्विषयप्रत्यक्षाभावात्पृच्छामीतिचेत् अहमविद्यावानविद्याकार्यवत्त्वात् व्यतिरेकेण मुक्तात्मवदित्यनुमानेन चेज्जानासि तर्हि संबन्धग्रहणं कथं। ज्ञातैवात्मा स्वस्याविद्यासंबन्धं जानाति किंवान्यो ज्ञाता। नाद्यः। स्वस्याविद्यां प्रति ज्ञातृत्वकालेऽविद्याश्रयत्वेन गृहीतत्वात् तज्ज्ञातृत्वेनैवोपयुक्तस्यात्मनः कर्मकर्तृविरोधात्तस्याः स्वात्मनि संबन्धग्रहासंभवात्। न द्वितीयः। अनवस्थाप्रसङ्गात्। तथा चाविद्यादिकं ज्ञेयं ज्ञेयमेव ज्ञाता च ज्ञातैवातोऽविद्यादुःखित्वार्धैर्न ज्ञातुः क्षेत्रज्ञस्य किंचिद्दुष्यति। ननु दोषवत्क्षेत्रज्ञातृत्वमेवात्मनो दोष इतिचेत् किं ज्ञातृत्वं ज्ञानक्रियाकर्तृत्वं उत ज्ञानस्वरुपत्वम्। नाद्यः। तदनभ्युपगमेन तत्प्रयुक्तदोषाभावात्। द्वितीयं यथोष्णतामात्रेण व्हनेस्तापे तापयितृत्वोपचारस्तथा विज्ञानस्वरुपस्याऽविक्रियात्मनो विज्ञातृत्वोपचाराददोष इत्यलं विस्तरेण।Compare this verse →
13.3Krishnaतत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्। स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥Commentary · Sanskrit।।13.4।।इदं शरीरमित्यादिनोपदिष्टस्य क्षेत्राध्यायार्थस्य संग्रहश्लोकं प्रतिपत्तिसौकर्यार्थमुपन्यस्याति -- तदिति। इदं शरीरमिति यन्निर्दिष्टं तत्तदा परामृशति। यच्चेदं निर्दिष्टं क्षेत्रं स्वरुपतो जडं स्तावरजंगमादिभेबैर्भिन्नं दृश्यत्वादिस्वभावं तत्। यादृक् च स्वकीयैधर्मैः यादृशं यत्प्रकारकं च यद्विकारि ये विकारा अस्य तत्। यतो यस्माच्च यत्कार्यमुत्पद्यत इति शेषः। यतश्च प्रकृतिपुरुषसंयोगाद्भवति। यदिति यैः स्तावरजंगमादिभेदैर्भिन्नमिति त्वाचार्यैर्यच्चेत्यस्मिन्नुक्तस्य यत्पदार्थस्यान्तर्भावाद्यत्पदवैयर्थ्यमभिप्रेत्य न व्याख्यातम्। अत्र चकाराः सर्वे समुच्चायार्थाः। सच क्षेत्रज्ञो यः निर्दिष्टः स्वरुपतः सच्चिदानन्दस्वभावः यत्प्रभावाः प्रभावा शक्तयो यस्य स तद्यथोक्तविशेषणविशिष्टक्षेत्रज्ञयाथात्म्यं समासेन संक्षेपेण मे मम वाक्यात् श्रृणु श्रुत्वाऽवधारयेत्यर्थः।Compare this verse →
13.4Krishnaऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्। ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥Commentary · Sanskrit।।13.5।।श्रोतृप्ररोचनाय क्षेत्रक्षेत्रज्ञयाथात्म्यं स्तौति -- ऋषिभिरिति। ऋषिभिर्वसिष्ठादिभिर्वासिष्ठातौ बहुधा बहुप्रकारं गीतं कथितम्। न केवलमाप्तोक्तमेव क्षेत्रादियाथात्म्ये प्रमाणमपितु छन्दांसीत्याह। छन्दोभिऋःगादिभिर्विविधैः शाखामेदेन नानाप्रकारैः पृथग्विवेकतो गीतम्। उक्तार्थे श्रुतिस्मृती प्रमाणमभिधाय युक्तमाह -- ब्रह्मेति। ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणिः तैः पद्यते ज्ञायते ब्रह्मेति तानि पदान्युचयन्ते तैरेवं क्षेत्रक्षेत्रज्ञयाथात्म्यं गीतं इत्यनुवर्तते। आत्मेत्येवोपासीतेत्येवमादिभिर्हि ब्रह्मसूत्रपदैः आत्मा ज्ञायते हेतुमद्भिर्युक्तियुक्तैः विनिश्चितेः न संशयरुपैः निश्चितप्रत्ययोत्पादकैः इति भाष्ये। आदिपदात्यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति? सत्यं ज्ञानमनन्तं ब्रह्म? तत्त्वमसि? ब्रह्मविदाप्नोति परं? न स वेद यथा पशुः इत्यादीनि सूत्रपदानि गृह्यन्ते। तथैच ब्रह्मसूत्राणि च तानि पदानीति भाष्योक्तलघुभूतकर्मधारयं विहाय ब्रह्मसूत्राणि च पदानि चेति समासो न प्रदर्शनीयः फलाभावात्। हेतुमद्भिर्युक्तियुक्तैःसदेव सोभ्येदमग्र आसीत्?कथमसतः सज्जायेत इति। तथाको ह्येवानयात्कः प्राण्यात् यदेश आकाश आनन्दो न स्यात्? एष ह्येवानन्दयति?अन्नेन सोम्य शुङ्गेनापोमूलमन्विच्छ अद्भिः सोभ्य शुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः प्रजाः इत्यादिभिः। यद्वाअथातो ब्रह्मजिज्ञासा इत्यादीन्यपि सूत्राण्यत्र गृहीतानि। अन्यथा छन्दोभिरित्यादिना पौनरुक्त्यादिति मत्वा विशिनष्टि। हेतुमद्भिरिति। यत् ऋष्यादिभिर्गीतं तत्सामासेन श्रृण्वित्यन्वयः।Compare this verse →
13.5Krishnaमहाभूतान्यहंकारो बुद्धिरव्यक्तमेव च। इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥Commentary · Sanskrit।।13.6।।एवं क्षेत्रादियाथात्म्यस्तुत्याभिमुखीकृतायार्जनाय किं तदिति जिज्ञासवे यथोद्देशं क्षेत्रं निर्दिशति -- महाभूतानीति। सर्बविकारव्यापकत्वान्महान्ति च तानि भूतानि सूक्ष्माणि अहंप्रत्ययरुपोहंकारः महाभूतकारण बुद्धिरध्वसायलक्षणाहंकारकारणं न व्यकतव्यक्तं अव्याकृतमीश्वरशक्तिर्मायामायां तु प्रकृतिं विद्यात्?मम माया दुरत्यया इत्युक्ता। एवशब्दोऽवधारणार्थः। एतावत्येवाष्टधा भिन्ना प्रकृतिरित्यर्थः। चकारः मूलप्रकृत्या सह तन्मात्रादिभेदानां समुच्चयार्थः। इन्द्रियाणि दश श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि ज्ञानोत्पादकत्वाज्ज्ञानेन्द्रियाणि पञ्च? वाक्पाणिपादपायुपस्थाख्यानि कर्मनिर्वर्तकत्वात्मकर्मेन्द्रियाणि पञ्च एकं एकादशं संकल्पविकल्पात्मकं मनः पञ्चेन्द्रियाणां गोचराः विषयाः शब्दस्पर्शरुपरसगन्धाख्यगुणविशिष्टानि स्थूलभूतानीत्यर्थः। तान्येतानिमूलप्रकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त।,षोडशकस्तु विकारः इति वादिनः सांख्याश्चतुर्विशतितत्त्वानि व्याचक्षते।Compare this verse →
13.6Krishnaइच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः। एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥Commentary · Sanskrit।।13.7।।एवं क्षेत्रस्वरुपनिर्देशेनैव तत्क्षेत्रं यच्च यादृक्चेति व्याख्यायेच्छादीनामात्मविकारत्वानिवृत्तये क्षेत्रविकारत्वनिरुपणेन यद्विकारीत्येतन्नरुपयन्नात्मगुणा इति यानाचक्षते वैशेषिकास्तेऽपि क्षेत्रधर्मा एव नतु क्षेत्रज्ञस्येत्याशयेनाह -- इच्छेति। इच्छा पर्वोपलब्धसुखहेतुसजातीये हेतौ उपलभमाने इदं मे स्यादिति स्पृहा। तथानुभूतदुःखहेतुसजातीये हेतावुपलभमाने इदं मे मा भूदिति चित्तवृत्तिर्द्वेषः। तथा प्रसन्नत्वात्मकमनुकूलं सुखं प्रतिकूलात्मकं देहेन्द्रियाणआं संहतिः संघातः। तस्मिन्नभिव्यक्तान्तःकरणवृत्तिरात्मचैतन्याभासानुविद्धा चेतना ययावसादप्राप्तानि देहेन्द्रियाणि ध्रियन्ते सा घृतिः। इच्छादिग्रहणं संकल्पविकल्पाद्यन्तःकरणधर्मोपलक्षणार्थम्। तथाच श्रुतिः -- कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्नीर्धीर्भीरित्येतत्सर्वं मन ए इति। तथा चेच्छादीनां ज्ञेयत्वाज्ज्ञेयान्तःकरणधर्मत्वप्रतिपादनेन श्रुत्या सर्वज्ञेन भगवता च वैशेषिकमतस्य हेयत्वं बोधितम्। क्षेत्रनिरुपणमुपसंहरति। एतत्क्षेत्रं सविकारं विकारेण महदादिना तद्विकारेण चेच्छादिना सहितं समासेन सेक्षेपेणोदाहृत्मुक्तं। यस्य क्षेत्रभेदजातस्य संहतिरिदं शरीरं क्षेत्रमित्युक्तं तत्क्षेत्रं महाभूतादिभेदभिन्नं धृत्यन्तं विरक्तस्य ज्ञानाधिकाराय वैराग्यार्थं व्याख्यातमित्यर्थः।Compare this verse →
13.7Krishnaअमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्। आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥Commentary · Sanskrit।।13.8।।सप्रभावं क्षेत्रज्ञं यत्तदित्यादिना निरुपयितुं यस्मिन्त्सत्यममृतत्वसाधनक्षेत्रज्ञज्ञानायोग्योऽधिकृतो भवति तं तत्त्ज्ञानसाधनगणं आयुर्वै घृतमितिवज्ज्ञानममानित्वादिलक्षणं विदधाति -- अमानित्वमित्यादिना। विद्यमानाविद्यमानुणैरात्मनः श्लाघनं मानित्वं तद्वर्जितत्त्वममानित्वं? पूजालाभाद्यर्थ स्वधर्मानुष्ठानप्रकटीकरणं दम्भित्वं तस्याभावोऽदम्भित्वं? कायादिभिः प्राणिनामपीडनं अहिंसा? परापराधप्राप्तौ चित्तस्याविकृतता क्षान्तिः? आर्जवं ऋजुभावोऽवक्रत्वं? आचार्यस्य मोक्षासाधनोपदेष्टुः कायादिना शुश्रूषादिप्रयोगेण सेवनमाचार्योपासनं? शौचं कायमलानां मृज्जलाभ्यां प्रक्षालनं? अन्तश्च रागादिमलानां मोक्षप्रतिपक्षभावनयापनयः शौचम्। तथाच स्मृतिःशौचं हि द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा। मृज्जालाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथान्तरं इति। मोक्षामार्गे प्रवृत्तस्यानेकान्तरायप्राप्तावपि तन्निवृत्त्यर्थं प्रयत्नपुरःसरं तत्रैव कृतव्यवसायित्वं स्थैर्यम्? आत्मोपकारत्वादात्मनो हेहेन्द्रियादिसंघातस्य स्वभावेन सर्वतः प्रवृत्तस्य सर्वस्मान्मोक्षप्रतिकूलमार्गात्प्रतिरुध्य सन्मार्गे स्थापनमात्मविनिग्रहः। अमानित्वादीनामेतज्ज्ञानमिति प्रोक्तमित्यनेन संबन्धः।Compare this verse →
13.8Krishnaइन्द्रियार्थेषु वैराग्यमनहंकार एव च। जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥Commentary · Sanskrit।।13.9।।किंचैहिकामुष्मिकेन्द्रियार्थेषु शब्दादिविषयेषु रागाभावो वैराग्यम्। अहं सर्वोत्तम इति मनसि प्रादुर्भूतो गर्वोऽहंकारस्तदभावोऽनहंकारः। गर्वस्योक्तानुक्तनाशकत्वादनहंकारस्यावश्यसंपाद्यत्वद्योतनार्थ अयोगव्ययवच्छेदार्थ एवकारः। समुच्चयार्थश्चकारः। तेनामानित्वादीनां विंशतिसंख्याकानां समुच्चितो योग एव ज्ञानमिति प्रोक्तं नत्वेकस्याप्यभाव इत्यर्थ इति केचित्। आचार्यैस्तु सुगमत्वादव्ययार्थः सर्वत्र न प्रदर्श्यते। जन्ममृत्युजराव्याधिदुःखदोषानुर्दशनं जन्मादिषु दुःखान्तेषु प्रत्येकं दोषानुदर्शनम्। यद्वा दुःखान्येव दोषो दुःखदोषस्तस्य जन्मादिषु दर्शनमालोजनं जन्मादयो दुःखनिमित्तत्वाद्दुःखं दुःखानि पुनः स्वरुपेणैव दुःखमित्येवं जन्मादिषु दुःखदोषानुदर्शनाद्देहेन्द्रियादिविषयाणां भोगेषु वैराग्यमुपजायते। ततश्चात्मदर्शनाय प्रत्यगात्मनि करणानां प्रवृत्तिर्भवतीत्येवं ज्ञानहेतुत्वाज्जन्मादिषु दुःखदषानुदर्शनं ज्ञानमुच्यते। तथाचोक्तं विष्णुपुराणे -- आध्यात्मिकादि मैत्रेय ज्ञात्वा तापत्रयं बुधः। उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम्। आध्यात्मिको वै द्विविधः शारीरो मानसस्तथा। शारीरो बहुभिर्मेदैर्भिद्यते श्रयतां च सः। शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः। गुल्मार्शःश्वासश्वयथुच्छर्द्यादिभिरनेकधा। तथाक्षिरोगातीसारकुष्ठाङ्गमयसंज्ञिकैः। भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि। इत्येवमादिकैर्भेदैस्तापो ह्यात्धात्मिकः स्मृतः। मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः। सरीसृपाद्यैश्च नृणां जन्यते चाधिभोतिकः। शीतोष्णवातवर्षाम्बुविद्युदादिसमुद्भवः। तापो द्विजवरश्रेष्ठ कथ्यते चाधिदैविकः। गर्भजन्मजराज्ञानमृत्युनारकजं तथा। दुःखं सहस्त्रोशो भेदैर्भिद्यते मुनिसत्तम्। सुकुमारतुनुर्गर्भे जन्तुर्बहुमलावृते। उल्बसंवेष्टितो भग्नपृष्ठग्रीवास्थिसंहतिः। अत्यम्लकटुतीक्ष्णोष्णलवणैर्मार्तुभोजनैः। अतितापिभिरत्यर्थ वर्धमानातिवेदनः। प्रसारणाकुञ्चनादेर्नाङ्गानां प्रभुरात्मनः। शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः। निरुच्छ्वासः सचैतन्यः स्मरञ्जन्मशतान्यथ। आस्ते गर्भेऽतिदुःखेन निजकर्मनिबनधनः। जायमानः पुरीषासृङ्यूत्रशुक्राविलाननः। प्राजापत्येन वातेन पीज्यमानावस्थिबन्धनः। अधोमुखो वै क्रियते प्रबलैः सूतिमारुतैः। क्लेशैर्निष्कान्तिमाप्नोति क्रकचैरिव दारितः। पूतिव्रणान्निःपतितो धरायां कृमिको यथा। जराजर्जरदेहश्च शिथिलावयवः पुमान्। विगलच्धीर्णदशनो वलीस्त्रायुशिरावृतः। दुरप्रनष्टनयनो व्योमान्तर्गततारकः। नासाविवरनिर्यातलोमपुञ्जश्र्चलद्वपुः। प्रकटीकृतस्थिर्नतपृष्टास्थिसंहतिः। उत्सन्नजढराग्नित्वाल्पाहारो विचेष्टितः। कृच्छ्रचंक्रमणोत्थानशयनासनचेष्टितः। मन्दीभवच्छ्रोत्रनेत्रः स्त्रवल्लालाविलाननः आपन्नैस्तः समस्थैश्च करणऐर्मरणोन्मुखः। तत्क्षणेऽप्यनुभूतानामस्तार्ताखिलवस्तुनाम्। सकृदुच्चरिते वाक्ये समुद्भूतमहाश्रमः। श्वासकासमहायामममुद्भूतप्रजागरः। अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी। भृत्यात्मपुत्रदाराणामवमानास्पदीकृतः। संस्मरन्योवने दीर्घं निश्वसत्यतितापितः।,एवमादीनि दुःखानि जरायामनुभूय वै। मरणे यानि दुःखानि जरायामनुभूय वै। मरणै यानि दुःखानि प्राप्नोति श्रृणु तान्यपि। श्वथग्रीवाङ्गिस्तोऽथ व्याप्तो वेपथुना भृशम्। मुहुर्ग्लान्या परवशो मुहुर्ज्ञानलवान्वितः। हिरण्यधान्यकास्योग्रैश्छिद्यमानास्तिबन्धनः। एते कथं भविष्यन्ति ममेति ममताकुलः। मर्मभिद्भिर्महारोगैः क्रकचैरिव दारुणैः। शरैरिवान्तकास्योग्रेश्छिद्यमानास्थिबन्धनः। विवर्तमानताराक्षिर्हस्तं पादं मुहुः क्षिपन्। संशुष्यमाणताल्वौष्ठकण्ठो घुरघुरायते। निरुद्धकण्ठो दोषौघैरुदानश्वासपीडितः। तापेन महता व्याप्तस्तृषा चार्तस्तथा क्षुधा। कल्शादुत्क्रान्तिमाप्नोति याम्यकिंकरपीडितः। ततश्च यातनादेहं क्लेशेन प्रतिपद्यते। एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम्।।35।। इत्यादि भाष्यस्योपलक्षणार्थत्वेन जन्मादिषु दुःखदोषयोरनुदर्शनं जन्ममृत्युजराव्याधिदुःखदोषाणामनुदर्शनमिति वा। दोषश्च वातपित्त श्लेष्ममलमूत्रादिपरिपूर्णत्वेन कायजुगुप्सतत्वरुपः दैन्यादिरुपश्चेत्यपि बोध्यम्।Compare this verse →
13.9Krishnaअसक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु। नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥Commentary · Sanskrit।।13.10।।किंचासक्तिः सङ्निमितेषु विषयेषु प्रीततिमात्रस्याभावः। अनभिष्वङ्गः अन्यस्मिन्पुत्रादौ सुखिनि वा जीवति मृते वाहमेव सुखी दुःखी च जीवामि मरिष्यामीति चेति। पुत्रादिषु तादात्म्यभावनालक्षणस्याभिष्वङ्गस्याभाव। आदिपदादन्यदप्यत्यन्तेषं दासपश्वादिकं गृह्यते। इष्टा नामनिष्टानां चोपपत्तिषु प्राप्तिषु नित्यं सर्वदा समचित्तत्वं इष्टोपपत्तिषु हर्षस्यानिष्टोपपत्तिषु कोपस्य च वर्जनं तच्चैतन्त्रयमपि ज्ञानान्तरङ्गसाधनत्वाज्ज्ञानमित्यर्थः।Compare this verse →
13.10Krishnaमयि चानन्ययोगेन भक्तिरव्यभिचारिणी। विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥Commentary · Sanskrit।।13.11।।किंच मयि परमेश्वरेऽनन्ययोगेन नान्यो भगवतो वासुदेवात्परोऽस्त्यतः स एव नो गतिरित्येवं निश्चिताऽव्यभिचारिणी बुद्धिरनन्ययोगोऽपृथक्समाधिस्तेन भजनं भक्तिः केनापि कारणेन न व्यभिचरणशीलाऽव्यभिचारिणई। सा च ज्ञानान्तरङ्गसाधनत्वाज्ज्ञानम्।येषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मानुपयान्ति ते।वासुदेवे भगवति भक्तियोगः प्रयोजितः। जनयत्याशु वैराग्यं ज्ञानं यत्तदहैतुकम् इत्युक्तेः। विविक्तं स्वभावतः संस्कारेण वा अशुच्यादिभिः सर्पव्याघ्रादिभिश्च वर्जितं वननदीतटदेवालयादिदेशं सेव्रितं शीलमस्येति विविक्तदेशसेवी तस्य भावो विविक्तदेशसेवित्वम्। यतो विविक्तात्मभावनाचित्तप्रसादहेतुभूतेषु विविक्तदेशेषु सिध्यत्यतो विविक्तदेशसेवित्वं ज्ञानसाधनत्वाज्ज्ञानम्। तथाच श्रुतिःसमे शुौ शर्करवह्निवालुकाविवर्जिते शब्दजलाशयादिभिः। मनोकूले नतु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत् इति। जनानां प्राकृतानां विषयलम्पटानां अविनीतानां कालहोन्मिषितचित्तानां संसत्समवायस्तत्रारतिरप्रीतिर्नतु संस्कारवतां विनीतानां तत्त्वविदां संसदि। तस्याः ज्ञानोपकारकत्वात्। तथाचोक्तंसङ्गः सर्वात्मना हेयः स चेत्यक्तुं न शक्यते। स सद्भिः सह कर्तव्यः सन्तः सङ्गस्य भषजम् इति।Compare this verse →
13.11Krishnaअध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्। एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥Commentary · Sanskrit।।13.12।।किंचात्मानधिकृत्य प्रवृत्तमात्मानात्मविवेकज्ञानमध्यात्मज्ञानं तस्मिन्नित्यभावो नित्यत्वं सततं तत्रैव निष्ठावत्त्वमध्यात्मज्ञाननित्यत्वम्। अमानित्वादिसाधनानां यत्नेन साधितानां प्रकर्षपर्यन्तत्वमिमित्तं तत्त्वज्ञानम्। तदिति सर्वनाम। सर्वं च ब्रह्म तस्य नाम तदिति तस्य ब्रह्मणो भावो याथात्म्यं तस्य ज्ञानं तत्त्वज्ञानंसत्य ज्ञानमनन्तं ब्रह्म? एकमेवाद्वितीयं? नेह नानास्ति किंचन? वाचारम्भणं विकारो नामधेयम् इति श्रुत्युक्तस्य ब्रह्मजगतो याथात्म्यस्य ज्ञानं तत्त्वज्ञानमिति वा तस्यार्थः प्रयोजनं सर्वानर्थनिवृत्तिपरमानन्दप्राप्तिस्वरुपो मोक्षस्तस्य दर्शनम्।न स पुनरावर्तते? इति श्रुत्यायद्गत्वा न निवर्तन्ते तद्धाम परमं मम इति स्मृत्या च तस्यैव नित्यत्वबोधनात्।तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पिण्यचितो लोकः क्षीयते इत्यादिश्रुत्या प्रत्यक्षादिना च धर्मार्थकामानामनित्यत्वागममाच्च मोक्षएव सर्वोत्कृष्टत्वात्परमपुरुषार्थः स च तत्त्वज्ञानस्य फलं नान्यस्य।तरति शोकमात्मवित्तमेव विदित्वादिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय इत्यादिश्रुतेतरित्येवं तत्त्वज्ञानार्तालोचने हि तत्साधनानुष्ठाने प्रवृत्तिर्भवति। एतदमानित्वादितत्त्वज्ञानार्थदर्शनान्तं विंशतिसंख्याकं ज्ञानसाधनत्वाज्ज्ञानमिति प्रोक्तं श्रुतिस्मृतीहासपुराणादिषु प्रकर्षेणोक्तं कथितम्। अतोऽस्माद्यथोक्तादन्यथा च। जन्ममृत्युराव्याधिदुःखदोषाप्रदर्शनम्। तथासक्तिरभिष्वङ्गः पुत्रदारगृहादिषु। नित्यं चासमचित्तत्वमिष्टानिष्टोपपत्तिषु। मयि नानन्ययोगेन भक्तिरव्यभिचारिणी। विकीर्णदेशसेवित्वमरतिर्जनसंसदि। नाध्यात्मज्ञानित्यत्वं ज्ञानार्थादर्शनं तथा। इत्येतज्ज्ञेयज्ञानं हेयं संसारकारणम्। तथा चैतत्परित्यागेन संसारोपरमायामानित्वादिकमुपेयमिति भावः।Compare this verse →
13.12Krishnaज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते। अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥Commentary · Sanskrit।।13.13।।यथोक्तज्ञानसाधनेन ज्ञानशब्दितेन ज्ञेयं किमित्याकाङ्क्षायामाह -- ज्ञेयमिति। उक्तज्ञानसाधनपरिपाकलब्धसाक्षात्कारवृत्तिविषयं ज्ञेयं। नचैवमन्तःकरणवृत्तिविषयत्वेन ब्रह्मणो दृश्यत्वं तस्य वृत्तिविषयत्वेन ज्ञेयत्वेऽपि फलविषयत्वाभावेन दृश्यत्वाभावात्। तथाच श्रुतिःस वेत्ति वेद्यं न च तस्यास्ति वेत्ता? विज्ञातारमरे केन विजानीयात् इत्याद्या। ज्ञेयं यत्तत्प्रकर्षेण यथावत् वक्ष्यामि। फलप्रदर्शनेन श्रोतारं रोजयन्नभिमुखीकरोति। यज्ज्ञेयं ज्ञात्वाऽमृतमपुनरावृत्तिलक्षणं मोक्षमश्रुते। मुक्तो भवतीत्यर्थः। किं तदित्यत आह। अनादिमत् आदिरस्यास्तीत्यादिमत् नादिमदनादिमत् परं निरतिशयं ब्रह्म ज्ञेयमित्यर्थः। यत्तु अनादिमदिति च्छेदे बहुव्रीहिणोक्तेऽर्थे मतुप,आनर्थक्यप्रसङ्गादुक्तार्थानामप्रयोगीदितिन्यायात् मत्परमिति च्छेदः। अहं वासुदेवाख्या परा शक्तिर्यस्य तस्मत्परमित्यर्थ इति तन्न। न सत्तन्नासदुच्यत इति सर्वविशेषप्रतिषेधेन विजिज्ञापयितत्वेन विशिष्टशक्तिमत्त्वप्रदर्शनस्य विप्रतिषिद्धत्वेनोक्तार्थासंभवात्। तस्मान्मतुपो बहुब्रीहिसमानार्थत्वेऽप्यतिशायने नित्ययोगे वा श्लोकपूरणार्थः प्रयोगः। ननु मम विष्णोः परं निर्विशेषं रुपं मत्तः सगुणात् ब्रह्मणः परमिति वा। यद्वा आदिमच्च ततः परं चादिमत्परे कार्यकारणे ताभ्यामन्यदनादिमत्परिमित्येवं मतुपः सार्थकत्वसंभवे किमित्याचार्यैरेवमुक्तमिति वा। यद्वा आदिमच्च ततः परं चादिमत्परे कार्यकारणे ताभ्यामन्यदनादिमत्परामित्येवं मतुपः सार्थकत्वसंभवे किमित्याचार्यैरेवमुक्तमिति चेत् परमिति विशेषणादेव सगुणात्परस्य निर्विशेषस्य लाभेन मत्पदवैयर्थ्यं मत्तः सगुणात् ब्रह्मणः परमिति वा। यद्वा आदिमच्च ततः परं चादिमत्परे कार्यकारणे ताभ्यामन्यदनादिमत्परमित्येवं मतुपः सार्थकत्वसंभवे किमित्याचार्यैरेवमुक्तमिति चेत् परमिति विशेषणादेव सगुणात्परस्य निर्विशेषस्य लाभेन मत्पदवैय्त्यं मत्तः परतरं नान्यदित्यादिना विरोधं परपदस्य पूर्वनिपातापत्तिं कार्यकारणान्यत्वस्य न सदित्यादिविशेषणेऽन्तर्भावं चाभिप्रेत्येति गृहाण। एतेनानादिमत्परिमित्येकं पदम्। अनादिर्माया तद्वतो मायावच्छिन्नादनाद्यज्ञानवतो जीवात्परं निर्मायज्ञानकृतजीवत्वोपाधिरहितं चेत्येवमादि यत्किंचित्कल्पमस्मदादिभिः क्रियमाणमपि हेयं परमिति विशेषणैवोक्तार्थस्य लाभेनानादिमत्पदस्य वैयर्थ्यात्। अनादिमत्परं ब्रह्म ज्ञेयमृतत्वफलं मयोच्यत इति प्ररोजनेनाभिमुखीकृत्याह। सत् कार्यमभिव्यक्तनामरुपत्वात् असत् कारणं तद्विपर्ययात्। तथा च तज्ज्ञेयं सन्नोच्यते नाप्यसदुच्यते। ननु ज्ञेयं वक्ष्यामिति महता कण्ठवेणोद्धुष्य न सत्तन्नासदुच्यत इत्यननुरुपमुक्तमितिचेन्न। स्वयंज्योतीरुपस्य परब्रह्मणः विधिमुखेनोपदेशायोगादध्यस्तातद्धर्मनिवृत्तये निषेधद्वारोपदेशस्य श्रुतिषु प्रसिद्धेरारेपितविशेषनिषेधरुपस्य प्रवचनस्य प्रतिज्ञानुरुपत्वात्। तथाच श्रुतयःअथात आदेशो नेतिनेति? अस्थूलमनणु? अपूर्वमनपरम् इत्यादयः। एवंच ज्ञेयस्य ब्रह्मणो वाचो गोचरत्वात् श्रुत्यादौ निषेधमुखेनैवोपदेशो नत्विदं तदिति विधिमुखेनेति भावः। ननु ब्रह्मणोऽस्तिशब्दावाच्यत्वे नास्तिशब्दवाच्यशशविषाणवन्नास्तित्वप्रसङ्ग इति चेन्न। शशश्रृङ्गवद्ब्रह्मणो नास्तिधीविषयत्वाभावात्। ननु सर्वासां बुद्धीनामस्तिनास्तिनास्तित्वानुगतत्वेन ब्रह्मणोऽन्यतरबुद्य्धविषयत्वेनानिर्वाच्यत्वं दुर्वारमितिचेन्न। इन्द्रियग्राह्यघटादेरुभयबुद्धिविषयाद्विलक्षणस्यातीन्द्रियस्य ब्रह्मणस्तदविषत्वेति शब्दैकप्रमाणगम्यत्वेन ज्ञेयत्वानपायात्। किंच गौरश्व इति वा जातितः? पचति पठतीति वाक्रियातः? शुक्लः कृष्ण इति वा गुणतो? धनी गोमानिति वा संबन्धतः सर्वो गवादिशब्दोऽर्थ प्रत्याययति। ननु ब्रह्म जात्यादिमदतो न सदादिशब्दावाच्य। तथाच श्रुतःअगोत्रमवर्णं? निष्क्रियं शान्तं? केवलो निर्गुणश्च? एकमेवाद्वितीयम् इत्याद्याः। तथाचाविषत्वादात्मत्वात्केनापि शब्देन मुख्यया वृत्त्या ब्रह्म नोच्यत इति युक्तम्।यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इत्यादिश्रुतिभ्यश्च।तं त्वौपनिषदं पुरुषं पृच्छामि इत्यत्र तु निषेधमुखोपदेशेनोपनिषत्प्रतिपाद्यमित्यर्थ इत्यविरोधः। यत्तु पूरणार्थात्पृ़ इत्यस्माद्धातो परशब्दव्युत्पत्तेः परं पूर्णं त्रिविधपरिच्छेदशून्यं। ननु देशकालवस्तूनामद्वैतमतेऽसत्त्वात्कुतस्तत्कृतच्छेद इत्याशङ्क्याविद्याविलासत्वं देषां वक्तुं ब्रह्म विशिनष्टि -- अनादिमदिति। अनादि अज्ञानं तद्वत्तसंबन्धीत्यर्थः। तेन देशादीनां संभव इति भावः। नन्वयं शान्तिकर्मणि वेदालोदयः यदज्ञानमेवानादिदितीयमङ्गीक्रियत इत्याशङ्क्याज्ञानं विशिनष्टि -- न सदिति। तदज्ञानं न सदुच्यते बाध्यतया सत्त्वेनानिरुपणात्। तथा नासदुच्यते अपरोक्षतया प्रतीतेरस्तस्यानर्वचनात्। भुजंगेनेव रज्जुर्नाज्ञानेन ब्रह्म सद्वितीयमिति भावः। यद्वास्मिन्व्याख्याने द्वितीयनकारवैयर्थ्याद्ब्रह्मैव विशेषणीयं तद्ब्रह्म न सन्नासदिति नोच्यतेऽनिर्वचनीयं न भवति। सत्त्वेन निरुपणादतोऽर्थादनाद्यज्ञानमेवानिर्वचनीयमित्यर्थ इति तच्चिन्त्यम्। ज्ञेयप्रवचनं प्रतिज्ञायाज्ञाननिरुपणस्यानौचित्यात्। अज्ञानवतो जीवस्य ज्ञातत्वेन ज्ञेयत्वाभावात् ब्रह्म विशेषणीयमिति पक्षे तत्सदुच्यते इत्येतावतैव निर्वाहेऽवशिष्टस्य वैयर्थ्यापत्तेःनासदासीन्नो सदासीत् इत्यादिश्रुत्या विरोधापत्तेश्चेति दिक्।Compare this verse →
13.13Krishnaसर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्। सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥Commentary · Sanskrit।।13.14।।ननु सर्व विशेषरहितस्य वागाद्यगोचरस्य सच्छब्दाविषयत्वादसत्त्वाशङ्कायां न सदित्यनेन संक्षेपतः समाहितायामपि प्रत्यक्त्वेनेन्द्रियप्रवृत्त्यादिहेतुत्वेन कल्पितद्वैतसत्तास्फूर्तिप्रदत्वेन च ज्ञेयस्यास्तित्वं प्रतिपादयन्नादौ यथाऽचेतनानां रथादीनां चेतनाधीना प्रवृत्तिस्तथा सर्वप्राणिकरणानामचेतनानां तच्च प्रत्यक्चैतन्यं ब्रह्मैवेति विस्तरेण तदाशङ्कानिवृत्त्यर्थमाह। सर्वतः सर्वत्र पाणयो हस्ताः पादाश्च यस्य तत् ज्ञेयं तथा तद्यपि पाण्यदीनां देहस्थत्वेनात्मधर्मत्वं तथापि करणप्रवृत्तिश्चेतनाधिष्ठानपूर्विका प्रेक्षापूर्वकप्रवृत्तित्वात् रथादिप्रवृत्तिवदिति सर्वप्राणिकरणोपाधिभिः क्षेत्रज्ञास्तित्वं विभाव्यते। ननूक्तरीत्या चेतनास्तित्वमिद्धावपि कथं क्षेत्रज्ञास्तित्वमितिचेत् चेतन एव क्षेत्रोपाधितः क्षेत्रज्ञ इत्युच्यते इत्यतस्तदस्तित्वं क्षेत्रज्ञास्तित्वमेव। ननु क्षेत्रोपाधितश्चैतन्यस्य क्षेत्रज्ञत्वेऽपिपाण्यादिमत्त्वं कथमितिचेत्। क्षेत्रस्य पाण्यादिभिरनेकधाभिन्नत्वेन तदुपाधितः क्षेत्रज्ञस्यापि पाण्यादिमत्तायाः सुवचत्वात्। न सत्तन्नासदुच्यत इति निर्विशेषत्वेन ज्ञेयत्वोक्तिस्तु क्षेत्रोपाधिकृतस्य विशेषजातस्य मिथ्यात्वात्। क्षेत्रज्ञस्य तदपनयेन सुवचा। ननु पाण्यादिमत्त्वस्यैवोपाधिकृतस्य मिथ्यात्वात् ज्ञेयप्रवचनाधिकारे तदुक्तिरपार्थेति चेन्न। ज्ञेयास्तित्वबोधनाय ज्ञेयधर्मवत्परिकल्प्यतथाभूतपाण्याद्युक्तेः सार्थकत्वात्। तदुक्तं संप्रदायविद्भिःअध्यारोपापवादाभ्यां निष्प्ररञ्चं प्रपञ्चयते इति। सर्वतोक्षीणि शिरांसि मुखानि च यस्य तत्। सर्वतः,श्रुतिः श्रवणेन्द्रियमस्त्यस्य तत् पाणिपादमुखवत्त्वमवशिष्टकर्मेन्द्रियवत्त्वस्याक्षिश्रुतिमत्त्वं चावशिष्टज्ञानेन्द्रियत्त्वस्य मनोबुद्य्धादिमत्त्वस्य चोपलक्षणम्। सर्वत्र सर्वदेहावयवत्वेन गम्यमानाः पाणिपादातयो ज्ञेयस्य परमात्मनः सन्निधिमात्रेण प्रवर्तनसमर्थस्य सत्त्वं निमीत्तीकृत्य स्वकार्यवन्तो भवन्तीत्यतो ज्ञेयसद्भावलिङ्गानि ज्ञेयस्येत्युपचारत उच्यते। लोके सर्वप्राणिसमुदाये सर्वं चराचरं सत्तादिनाध्यासिकसंबन्धेनावृत्य संव्याप्य तिष्ठति निर्विशेषामेव स्थितिं लभते नतु चलति। अध्यारोपितसविशेषप्रपञ्चने स विशेषत्वं नैव लभत इत्यर्थः।Compare this verse →
13.14Krishnaसर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्। असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥Commentary · Sanskrit।।13.15।।अपाधिभूतपाण्यादीन्द्रियाध्यारोपणं विना ज्ञयस्य साक्षादेव तद्वत्ताभ्रमनिरासायाह -- सर्वेति। सर्वाणि च तानीन्द्रियाणि श्रोत्रवागादीनि बुद्धीन्द्रियकर्मेन्द्रियाणि ज्ञेयोपाधित्वस्य तुल्यत्वात् अन्तःकरणोपाधिद्वारेणैव श्रोत्रादीनामप्युपाधित्वाच्च सर्वेन्द्रिग्रहणेनान्तःकरणे बुद्धिमनसी अपि गृह्येते। तताजान्तःकरणबहिःकरणव्यापार उपलक्ष्यते इति श्रुत्यर्थः। व्यापृतमेव ब्रह्मेति भ्रमनिराकरणायाह। सर्वेन्द्रियविवर्जितं विशेषेण कालत्रयेऽपि सर्वकरणरहितमतो न करणव्यापारैः वस्तुतो व्यापृतं तज्ज्ञेयमित्यर्थः। ननुअपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः। स वेत्ति वेद्यं नच तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तरम् इत्यादिमन्त्रेण साक्षादेव ज्ञेयस्य वेगवद्विहरणादिक्रियावत्ताप्रतीत्या कुचोऽस्य करणव्यापारैः व्यापृतत्वमेव न व्याख्यायत इतिचेत्। ध्यायतीवेतिश्रुत्यनुसारेण मन्त्रस्यापि सर्वेन्द्रियोपाधिगुणानुगुण्यभजनशक्तिमत् ज्ञेयमत्येव प्रदर्शनार्थत्वेनान्धो मणिमविन्ददित्यादिमन्त्रार्थवादवदस्यार्थवादस्य श्रुतेः साक्षादेव चवादिक्रियावत्त्वरुपेऽर्थे तात्पर्याभावेन प्रकृतेः प्रतिकूलताया अभावात्। सर्वकरणविवर्जितत्वादक्तं सर्वसङ्गविनिर्मुक्तंअसङ्गो हीति श्रुतेः। वस्तुतः सर्वसङ्गविवर्जितमपि सर्वाधिष्टानमित्याह। सर्वभृच्चैव स्वसत्तामात्रेणाधिष्ठानतया सर्वं पुष्णातीत्यर्थः। तथाचायं प्रयोगः। विमतं सत्यध्यस्तं प्रत्येकं तदनुविद्धधीबोध्यत्वात् प्रत्येकं चन्द्रानुविद्धधीबोध्यचन्द्रभेदवदिति। तथाच सर्वस्यापि व्यावहारिकप्रातिभासिकपदार्थजातस्य निरास्पदत्वाभावात् विचार्यमाणँ तस्य सदास्पदत्वात् सर्वभृज्ज्ञेयमित्यर्थः। सर्वाधिष्ठानत्वेऽपि वस्तुतस्तस्य निर्गुणत्वमाह। निर्गुणं गुणऐः सत्त्वरजस्तमोभिः शून्यं तज्ज्ञेयम्। यद्यप्येवं तथापि मायाय गुणभोक्तृ च। गुणानां सत्त्वादीनां शब्दारिद्वारेण सुखदुःखमोहाकारेण परिणतानां भोक्तृ उपलब्धृ ज्ञेयं ब्रह्मेत्यन्वयः।Compare this verse →
13.15Krishnaबहिरन्तश्च भूतानामचरं चरमेव च। सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥Commentary · Sanskrit।।13.16।।इतोऽपि ज्ञेयस्य ब्रह्मणोऽस्तित्वं ज्ञातव्यमित्याशयेनाह -- बहिरिति। त्वक्पर्यन्तं देहमात्मत्वेनाविद्याकल्पितमपेक्ष्य तमेवावाधिं कृत्वा बहिरुच्यते। तता प्रत्यगात्मानमपेक्ष्य देहमेवावधिं कृत्वान्तरुच्यते। तथाच भूतेभ्यो बहिर्बाह्यं विषयाद्यात्मकं भूतानां चराचराणामन्तर्मध्ये प्रत्यग्भूतं ज्ञेयमित्यर्थः। मध्ये प्राप्तमभावं वारयति। अचरं चरमेवच। यन्मध्ये भूतात्मकनानाविधदेहात्मना भासमानमपि तदेव ज्ञेयं यता रज्जौ भासमानः सर्पो रज्जुरेव तथासति ज्ञेये भासमानं ज्ञेयमेवेत्यर्थः। यद्येवं तर्हि सर्वैरिदमिति किमर्थं न विज्ञेयमिति चेत्तत्राह। शूक्ष्मत्वात्तदविज्ञेयं। यथा आम्रादिगते रुपे चक्षुषा दृश्यमानेऽप्ययोग्यत्वात्तत्स्थिं रसादि तेन न दृश्यते तथा सर्वात्मकमपि ज्ञेयं सर्वस्मिञ्ज्ञातेप्याकाशवदतीन्द्रित्वात् तज्ज्ञेयमविज्ञेयम्। एतेन घटादिज्ञानेन ब्रह्मज्ञानमपि स्यात् घटाद्यात्मकत्वाद्ब्रह्मण इति शङ्कापि निरस्ता। अतएवाविदुषां तत्प्राप्तिसाधनशून्यानामविज्ञाततया दूरस्थं वर्षसहस्त्रकोट्याप्यप्राप्यत्वात्। अन्तिके च तत्। विदुषां तुआत्मैवेदं सर्वं ब्रह्मैवेदं सर्वम् इत्यादिप्रमाणतो नित्यविज्ञाततया स्वात्मभूतत्वाद्य्ववधानरहितमित्यर्थः। तथाच श्रुतिःतदेजति तन्नैजति तद्दूरे तद्विन्तिके। तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः। दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् इत्याद्या।Compare this verse →
13.16Krishnaअविभक्तं च भूतेषु विभक्तमिव च स्थितम्। भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥Commentary · Sanskrit।।13.17।।किंचेतोऽपि ज्ञेयास्तित्वमित्याह। अविभक्तं विभागशून्यं प्रतिदेहं व्योमवदेकं तद्भेदे मानाभावाद्भिन्नत्वे च घटवदनात्मत्वापातात्। तथाच श्रुतिःएकमेवाद्वितीयं नेह नानास्ति किंचन। मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति इत्याद्या। तेन प्रतिदेहं भिन्न आत्मेति सांख्यादिमतं श्रुतिस्मृतिविरुद्धं नादर्तव्यम्। कथं तर्हि भेदबुद्धिरित्याशंक्य कल्पनयेत्याह। भूतेषु सर्वप्राणिषु विभक्तमिव च स्थितं मिथ्याभूतभेदवत्प्रतीतं जलमात्रेषु चन्द्रावद्देहेष्वेव विभाव्यमानत्वात्।एकएव तु भूतात्मा भूतेभूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् इतिश्रुतेः। एव ज्ञेयस्य प्रत्यगात्मत्वेनास्तित्वमभिधाय परमेश्वरात्मनास्तित्वमाह। भूतभर्तृ च स्थितिकाले तज्ज्ञेयं। भूतानि बिभार्ति धारयति पालयति चेति तत्प्रलयकाले तदेव ग्रसिष्णु ग्रसनशीलं उत्पत्तिकाले प्रभविष्णु प्रभवनशीलं यथा कल्पितसर्पादीनां स्थितिकाले रज्जवादिरेव तान्बभर्ति। बाधकाले च ग्रसिष्णुरुत्पत्तिकाले च प्रभविष्णुरित्यर्थः। तेन कार्यकारणत्वस्य वस्तु त्वाद्द्वतमिति न शङ्कनीयम्।Compare this verse →
13.17Krishnaज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते। ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥Commentary · Sanskrit।।13.18।।सर्वत्र विद्यमानं सन्नोपलभ्यते चेज्ज्ञेयं तर्हि तम इति भ्रमनिवृत्त्यर्थमाह -- ज्योतिषमिति। ज्योतिषामादित्यादीनां बुद्य्धादीनामपि तज्ज्ञेयं ज्योतिस्तेषामात्मचैतन्यज्योतिरिद्धदीप्तिमत्त्वात्।येन सूर्यस्तपति तेजसेद्धः?न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोयमग्निः। तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति।यदादित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्दि मामकम् इत्यादिश्रुतिस्मृतिभ्यः ज्ञेयस्य ज्योतिःस्वरुपत्वेऽपि,तमःस्पष्टत्वभ्रमं वारयति। तमसो ज्ञानात्परमसंस्पृष्टमुच्यते।अदित्यवर्ण तसमः परस्तात् इत्यादिश्रुतिभिः कथ्यत इत्यर्थः। किंच ज्ञाततेऽनेनेति ज्ञानममानित्वादि। ज्ञेयं यत्तत्प्रवक्ष्यामीत्यादिनोक्तं ज्ञेयमेव सत् ज्ञातं ज्ञानफलमिति ज्ञानगम्यमुच्यते। ज्ञायमानं तु ज्ञेयम्। अतो ज्ञेयपदेन ज्ञानगम्यत्वान्न पौररुक्त्यम्। ज्ञानं ज्ञेयं ज्ञानगम्यमित्येतन्त्र्यं सर्वस्य प्राणिजातस्य हृदि बुद्धौ विष्ठितं विशेषेण स्थितं। धिष्ठितमिति पाठस्त्वाचार्यैरनादृतत्वादपपाठः। दुःसंपादनबुद्य्धा प्राप्तावसादस्य ज्ञानादेः पकटीकरणार्तं ज्ञानादेः दुःसंपादनबुद्य्धा प्राप्तावसादस्यार्जुनस्याश्वसनार्थे वा ज्ञेयप्रवचनोत्तरं भगवतेदमुक्तं हृदि विष्ठितमिति। बुद्धावेव तेषामनुभूयमानत्वात्। ननु तदेव वृत्तावभिव्यक्तं संविद्रूपं ज्ञानं रुपाद्याकारेण ज्ञेयं सर्वस्य प्राणिजातस्य हृदि बुद्धौ विष्ठितं सर्वत्र सामान्येन स्थितमपि विशेषरुपेण तत्र स्थितमभिव्यक्तजीवरुपेणान्तर्यामिरुपेण चेत्याचार्यैः कुतो न व्याख्यामिति चेत्सुगमत्स्वोक्तार्थे स्वरसाधिक्यादुक्तार्थस्य बहिरन्तश्च भूतानामित्यादावन्तर्भावाच्चेति गृहाण। अन्तर्भावप्रकारश्च बहिर्भुतेभ्यो बाह्यं रुपाद्याकारमन्तर्भूतानां हृदि अभिव्यक्तजीवरुपेणान्तर्यामिरुपेण च स्थितं ज्योतिषामपि तज्जयोतिर्वृत्त्याभिव्यक्तसंविदादिरुपेण बुद्य्धादीनां प्रकाशकमित्येवंरित्या बोध्यः।Compare this verse →
13.18Krishnaइति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः। मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥Commentary · Sanskrit।।13.19।।प्रतिज्ञातार्थमुपपाद्योपसंहरति -- इतीति। इत्येवं क्षेत्रं महाभूतादिधृत्यन्तं? तथा ज्ञानममानित्वादि तत्त्वज्ञानार्तदर्शनावसानं? ज्ञेयं च ज्ञेयं यत्तदित्यादि तमसः परमुच्यत इत्येवमन्तमुक्तं। हृदि सर्वस्य विष्ठितमित्यन्तमित्याधुनिकानामुक्तस्तु नादर्तव्या। ज्ञानादेर्ज्ञेयप्रवचनपरत्वेऽस्वरसस्योक्तत्वात्। वसिष्ठादिभिर्यद्विस्तरेण गीतं तत्समासतः संक्षेपतो मया प्रतिपादितं एतावानेव सर्ववेदार्थो गीतार्थश्चातः संक्षिप्य भगवतोपसंहृत्योक्तः। यथोक्तसम्यग्दर्शने कोऽधिकारित्यत आह। मयि सर्वेश्वरे सर्वज्ञे परमगुरौ भगवति वासुदेवे यच्छ्रणोति स्पृशति पश्यति आस्वादयति जिघ्रति वा सर्वेमेव श्रीभगवान्वासुदेव इत्येवं ग्रहाविष्टबुद्धितया समर्पितसर्वात्मभावो मद्भक्तः एतादृशः सन्नेतद्यथोक्तं क्षेत्रज्ञानज्ञयानां याथात्म्यं विज्ञाय मद्भवाय परमात्मभावाय मोक्षायोपपद्यते योग्यो भवतीत्यर्थः।Compare this verse →
13.19Krishnaप्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि। विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥Commentary · Sanskrit।।13.20।।सप्तमे ईश्वरस्य द्वे प्रकृती परापरे क्षेत्रक्षेत्रज्ञलक्षणे उपन्यस्य एतद्योनीनि भूतानित्युक्तं तत्र प्रकृतिद्वयनिरुपणार्थमारब्धेऽस्मिन्नध्याये इदं शरीरमिति द्वाभ्यां क्षेत्रक्षेत्रलक्षणप्रकृतिद्वयस्वरुपं निर्दिश्य तत्क्षेत्रं यच्च यादृक्चेत्यादिना तत्प्रतिपादितं? ततो महाभूतानीत्यादिना यच्च यादृक्चेति प्रतिपाद्य सच यो यत्प्रभावश्चेति पुरुष इति द्वाभ्यां प्रतिपादयितुमादौ एतद्योनीनि भूतानिति निरुपणाय प्रतिज्ञातं यद्विकारि यतश्च यदिति प्रतिपादयति -- प्रकृतिमिति द्वाभ्याम्। प्रकृतिरीश्वरस्य हि विकारकारणशक्तिस्त्रिगुणात्मिका मायामायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं।देवी ह्येषा गुणमयी मम माया दुरत्यया िति श्रुतिस्मृतिभ्यां पुरुषः क्षेत्रज्ञलक्षणा परा प्रकृतिः तौ प्रकृतिपुरुषावुभावपि अनादी एव नतु सादी इति विद्धि। नैक्सायपि सादित्त्वमिति द्रढयितुमुभावपीत्युक्तं। न विद्यते आदिः कारणं ययोस्तावनादी। ईश्वरस्य नित्यत्वात्तत्प्रकृत्योरपि तथात्वेन भवितुं युक्तम्। संसारोत्पादनोपयुक्तमनादित्वं ययोस्ताभ्यां प्रकृतिभ्यामीश्वरस्य जगदुत्पत्तिस्थतिप्रलयहेतुत्वसंपत्त्या तद्वयवत्त्वमेव तस्येश्वरत्वम्। ननु प्रकृतिपुरुषोरनादित्वे तयोरेव जगत्कर्तृत्वं नेश्वरस्य तयोरादिमत्त्वे त्वीश्वरस्य तत्कर्तृत्वं सिध्यतीत्यतो न अनादीति तत्पुरुषसमासो वक्तव्य इतिचेन्न। प्रकृतिपुरुषोरुत्पत्तेः प्रागीशितव्याभावादीश्वरस्यानीश्वरत्वप्रशङ्गात्। संसारस्य निर्निमित्तत्वे मुक्तानामपि संसारापत्तेरनिषेधादनिर्मोक्षप्रसघङ्गेन शास्त्रानर्थक्यप्रसङ्गात्। तदुतयात्पर्वं बन्धस्याभावेन तन्निवृत्त्यात्मनो मोक्षास्याभावात् बन्धमोक्षाभावप्रसङ्गाच्च। प्रकृतिपुरुषयोरनादित्वे विकाराणआं गुणानां च प्रकृतिकार्यत्वादात्म नो निर्विकारत्वं निर्गुणत्वं च सिध्यति। इदमेवाभिप्रेत्याह। इदमेवाभिप्रेत्याह। विकारन्वक्ष्यमाणान् बुद्य्धादिदेहेन्द्रियान्तान् गुणांस्चैव सुखदुःखमोहप्रत्ययाकारपरिणतान् सत्त्वरजस्तमःसंज्ञान् प्रकृतिसंभवान् त्रिगुणात्मिकमायापरिणामान् विद्धि जानीहि। पुरुषं च वित् हि विद्धीति पुरुषादिशब्दावृत्त्या उत्तरार्धस्तविद्धीत्यस्य संबन्धेन योज्यम्। तेन नित्यज्ञानस्वरुपस्य विवक्षितत्वात्पुरुषशब्दस्य कार्यकरणसंघाते प्रसिद्धेस्तस्य च सादित्वात्कथमनादित्मिति शङ्का न प्रभवतीति क्लिष्टकल्पना तु पूर्वं महता प्रयत्नेन संघातात्पुरुषवैलक्षण्यप्रतिपादनादस्याः शङ्कयाया एवाभावात्सर्वज्ञैराचार्यैः कथं कर्तव्येति तदकरणातेषां न्यूनता न शङ्कनीया।Compare this verse →
13.20Krishnaकार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते। पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥Commentary · Sanskrit।।13.21।।के पुनर्विकारा गुणाश्च प्रकृतिसंभवा इत्याकाङ्क्षायां तान्यदर्शयन् प्रकृतेः संसारहेतुत्वं दर्शयति -- कार्येति। कार्यं शरीरम्। कार्यग्रहणेन शरीरारम्भकाणि भूतानि विषयाश्च गृह्यन्ते। करणानि देहस्थानि। ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं मनो बुद्धिरहंकारश्चेति त्रयोदश। करणग्रहणेन करणाश्रितत्वात्सुघदुःखमोहात्मका गुणा गृह्यन्ते। तेषां कार्यकरणानां कर्तत्वे उत्पादकत्वे प्रकृतिरारम्भकत्वेन हेतुः कारणमुच्यते। एवं कार्यकरणकर्तृत्वेन संसारस्य कारणं प्रकृतिरुक्ता। कार्यकारणकर्तृत्वे इति पाठेप्ययमेवार्थः। यद्वा एकादशेन्द्रियाणि प़ञ्चविषयाः षोडशविकाराः कार्यं महानहंकारो भूततन्मात्राणि पञ्चेति सप्तप्रकृतिविकृतयः कारणं तेषां कर्तत्वे हेतुः प्रकृतिरुच्यते इत्यर्थः। एवमपरप्रकृतेः संसारकारणत्वं प्रदर्श्य,परप्रकृतेस्तत्कारणत्वं दर्शयति। पुरुषः जीवः क्षेत्रज्ञः सुखदुःखानां भोग्यानां भोक्तृत्वे उपलब्धृत्वे हेतुरुच्यते। तथाच कार्यकारणसुखदुःस्वरुपेण हेतुफलात्मना प्रकृतेः परिणामाभावे पुरुषस्य च चेतनस्य तदुपलब्धृत्वेऽसति संसारो न संभवतीत्यतः प्रकृतिपुरुषयोः कार्यकारणकर्तृत्वेन सुखदुःभोक्तृत्वेन च संसारकारणत्वमिति। संसारश्च सुखदुःखभोगः पुरुषस्य च सुखदुःखानां भोक्तृत्वं संसारित्वं। अन्ये तु यथाभाष्यं व्याख्यातमित्युक्त्वा वर्णयन्ति। यद्वा पुरुषस्य कार्यत्वे कारणत्वे कर्तत्वे च प्रकृतिरेव पुरुषतादात्म्यं प्राप्ता हेतुर्भवति। तथा प्रकृतेः सुखदुःखभोक्तृत्वे स्वच्छायाप्रदाने पुरुषः कारणं कार्यत्वादयः प्राकृतदेहेन्द्रियबुद्धिधर्माः सन्तश्चिदात्मन्यारोप्यन्ते गौरोहममुष्य पुत्रोऽहं काणोऽहं खञ्जोऽहं करोभ्यमकार्षमहमिति तथा चिच्छायापन्ना बुद्धिः तेचयाम्यहं सुखदुःखादीनुपालमे इति मन्यत। सायं प्रकृतिपुरुषोरन्योन्यधर्माध्यासः संसारस्य कारणमित्युपपादितं भवति। सांख्याभिमतं पुरुषस्य भोक्तृत्वमपि निरस्तं भवति। अन्यथा प्रकृतिः कर्त्री पुरुषो भोक्तेति कर्तृत्वभोक्तृत्वयोर्वैयदिकण्यमापद्येत। नच भोक्तुर्निर्विकारित्वमपि वक्तुं शक्यमिति। अत्रेदमवधेयम्। यथा मूलं व्याख्यानकर्तृ़णां सर्वज्ञानां भाष्कृतां व्याख्याने सांख्यमतस्येश्वरानधिष्ठितं जडं प्रधानं कर्तृ चेतनश्च भोक्तेत्येवंरुपस्य नास्ति प्रवेशः प्रकृतिरीश्वरस्य हि विकारकारणशक्तिस्त्रिगुणात्मिका माया पुरुषः जीवः क्षेत्रज्ञ इत्येवं तैरुक्तत्वात्। उत्तरश्लोके पुरुषो भोक्ता प्रकृतिस्थः प्रकृतावविद्यालक्षणायां स्थिति इत्यादिवक्ष्यमाणत्वाच्च। तताचाविद्यैक्याध्यासादात्मनो भोक्तृत्वेन संसारित्वमिति वस्तुतो निर्विकारत्वं दुर्निवारम्। यद्यपि प्रकृतिस्थस्य कर्तृत्वभोक्तृत्वे तथापि कर्तृत्वे उपाधिप्राधान्यात्पृकृतेः कर्तृत्वमुच्यते। भोक्तृत्वे तूपहितस्य प्राधान्याज्जीवस्य भोक्तृत्वमतो न वैयधिकरण्यदोषोऽपीत्यादिसर्वं भाष्यादेव लभ्यत इत्यतोऽध्याहारेण क्लिष्टकल्पनया च भाष्यातिरिक्तव्याख्यानप्रदर्शनं नोचितमिति। एतेन कार्यं यज्ञब्रह्महत्यादि कारणं पुरोडाशखङ्गादि कर्तृत्वं साधनप्रयोक्तृत्वं तच्च तच्चेति द्वन्द्वे एकवद्भावः। हेतुः प्रकृतिरुच्यते एवं चेत्प्रकृतेरेव स्वर्गनरकादि भवेन्न जीवस्य। तथाच बन्धाभावान्न मोक्षे जीवानां प्रयत्नः स्यादित्यत आह। पुरुषइत्यादिकाः पूर्वोत्तरप्रकरणानुरोधविनिर्मुक्ता भाष्यबहिर्भूताः कल्पना निराकृता वेदितव्याः।Compare this verse →
13.21Krishnaपुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्। कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥Commentary · Sanskrit।।13.22।।पुरुषस्य सुखदुःखभोक्तृत्वलक्षणसंसारित्वं किंनिमित्तमितिचेत् अविद्यैक्याध्यासनिमित्तमित्याह -- पुरुष इति। हि यस्मात्पुरुषो प्रकृतावविद्यालक्षणायां स्थितस्तदैक्याध्यासं प्राप्तस्तस्मात्सुखी दुःखी मूढः पण्डितोऽहमित्येवं प्रकृते जातान्सुखदुःखमोहाकाराभिव्यक्तान् गुणान्सत्त्वादीन् भुङ्क्ते उपलभते। प्रकृतिस्थस्तत्कार्ये देहे तादात्म्येन स्थित इति त्वाचार्यैः देहतादात्म्यस्याप्यविद्यातादात्म्याध्यासायत्तत्वं मुख्यार्थत्यागापत्तिं चाभिप्रेत्य न व्याख्यातम्। भोक्तृत्वलक्षणे संसारित्वे प्रकृतिस्थत्वं कारणमुक्त्वा जन्मनः प्रधानं कारणमाह -- कारणामिति। अस्य पुरुषस्य भोक्तुः सत्यश्चासत्यश्च योनयः सद्योनयोदेवादियोनयः असद्योनयः पश्वादियोनयः। योनिद्वयनिर्देशसामर्थ्यान्मध्यवर्तिन्यः सदसद्योनयो मनुष्ययोनयोपि द्रष्टव्याः। तासु जन्मानि तेषु विषयभूतेषु गुणेषु गुणसङ्गः गुणेषु सुखदुःखमोहात्मकेषु विषयेषु भूज्यमानेषु यस्तादात्म्यभाव आसीक्तिर्वा स एव सत्यायामप्यविद्यायां प्रधानं कारणमित्यर्थः।स यथाकामो भवति तत्कतुर्भवति यत्कतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसंपद्यते इति श्रुतेः। सदसद्योनिजन्मनस्तस्य संसारस्य गुणसङ्गः कारणमिति संसारपदमध्याहृत्य वा व्याख्यायेयम्। गुणसङ्गः सत्त्वरजस्तमोगुणात्मकप्रकृतितादात्म्याभिमान इति तु प्रकृतिमात्मत्वेन गतः प्रकृतिस्थ इत्यनेन पौररुक्त्यमभिप्रेत्याचार्यैर्न व्याख्यातम्। गुणैः शुभाशुभकर्मकारिभिरिन्द्रियैः सङ्गस्य विषयसङ्गाधीनत्वमभिप्रेत्य न प्रदर्शितम्।इन्द्रियेभ्यः परा ह्यर्था इति श्रुतेः। अन्ये तु यद्वा प्रकृतिस्थो विद्वान्वा गुणान् भुङ्क्ते। पश्वादिभिश्चाविशेषादितिन्यायात्। तत्किं विद्वानिवाविद्वानपि कुतो न मुच्यते। अविद्वानिव विद्वानपि कुतो न बध्यत इत्याशङ्क्याह -- कारणमिति। गुणेषु देहेन्द्रियविषयेषु सङ्गः अहमिदं ममेदमित्यभिनिवेशः स एव जन्म कारणं विदुषां तु तदभावान्न जन्म। समानेऽपि देहसंबन्धे यदा यक्षो देहाभिमानं धत्ते तदा स एव देहपीडया पीड्यते नतु देहपतिर्जीवः। यदात्वयं देहाभिमानं धत्ते तदा नेतर इति प्रसिद्धम्। सङ्गस्य बन्धकत्वं नतु सांनिध्यमात्रं बन्धकं अतो विद्वदविदुषो समानेपि देहसंबन्धे संगतदभावकृतो महाविशेष इति भाव इति वर्णयन्ति। भाष्यकारैस्तु प्रकृतिं पुरुषं चैव विद्य्धनादी उभावपीत्युपक्रमानुरोधेन पुरुषशब्दार्थप्रदर्शनसामञ्जस्यभिप्रेत्यामर्थो न प्रदर्शितः।Compare this verse →
13.22Krishnaउपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः। परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥Commentary · Sanskrit।।13.23।।पुरुषमेव साक्षान्निर्दिशति -- उपद्रष्टेति। यथा ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तटस्थोऽन्यो व्यापृतो यज्ञविद्याकुशलस्तद्य्वापारगुणदोषणामीक्षिता तथा कार्यकरणानां व्यापारवतां समीपे स्थितः सन् स्वयव्यापृतो द्रष्टा सन्निधिमात्रेण तेषां साक्षी। यद्वा देहचक्षुर्मनोबुद्य्धात्मानो द्रष्टारः तेषां बाह्यो द्रष्टा देहस्तत आरभ्यान्तरतमश्च प्रत्यक्समीप आत्मा द्रष्टा यतः परतरो नास्ति द्रष्टा सोऽतिशयमामीप्येन द्रष्टृत्वादुपद्रष्टा स्यात्। यज्ञोपद्रषश्टृवद्वा सर्वविषयीकरणादुपद्रष्टा। ये स्वयं कुर्वन्तो व्यापारवन्तो भवन्ति तेषु कुर्वत्सु यास्तेषां क्रियास्तासु पार्श्वस्थस्य परितोषोऽनुमननमनुमोदनं तस्य संनिधिमात्रेण कर्ता अमुमन्ता? कार्यकरणप्रवृत्तिषु स्वयमप्रवृत्तोऽपि प्रवृत्त इव तदनुकूलो विभाव्यते तेन वानुमन्ता? स्वव्यापारेषु प्रवृत्तान् तत्साक्षिभूतः कदाचिदपि न निवारयतीति वाऽनुमन्ता? देहेन्द्रियमनोबुद्धीनां,संहतानां चैतन्यात्मपारार्थ्येन निमित्तभूतेन चैतन्याभासानां स्वरुपावधारणस्य चैतन्यात्मकृत्वात् भर्तात्मोच्यते। भोक्ता नित्यचैतन्यस्वरुपेण बुद्धेः सुखदुःखमोहात्मिकान् प्रत्ययान्सर्वविषयविषयान् विभक्ततयोपलब्धातो भोक्ता आत्मोच्यते सर्वात्मत्वात्स्वन्त्रत्वाच्च। महांश्चासावीश्वरश्चेति महेश्वरः देहादिबुद्य्धन्तानां प्रत्गात्मत्वेनाविद्यया प्रकल्पितानां परम उपद्रष्टृत्वादिलक्षण आत्मेति परमात्मा इत्यनेन शब्देन चाप्युक्तः श्रुतौ कथितः। यः परमात्मा श्रुतावुक्तः स एव देहेस्मिन् पुरुषः परः अव्यक्तादुत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृत इति वक्ष्यमाणः। श्रुतिःसाक्षी चेता केवलो निर्गुणश्चएष भूताधिपतिरेष लोकेश्वर एष लोकपालःईशानं भूतभव्यस्यतस्सृष्ट्वा तदेवानुप्राविशत?अनेन जीवेनात्मनानुप्रविश्य नामरुपे व्याकरवाणिअव्यक्तात्पुरुषः परः इत्याद्या।Compare this verse →
13.23Krishnaय एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह। सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥Commentary · Sanskrit।।13.24।।क्षेत्रज्ञं तापि मां विद्वीत्युपन्यस्तमात्मतत्त्वं व्याख्यायोपसंहृतमिदानीं शुद्धार्थयोरैक्यरुपात्मतत्त्वस्य प्रागुक्तस्य ज्ञानं फलोक्त्या स्तौति -- यइति। एवं यथोक्तेन प्रकारेण पुरुषं जीवेश्वरादिसर्वकल्पनाधिष्ठानं यो वेत्ति उक्तलक्षणः पुरुषोऽहमिति साक्षाज्जानाति प्रकृतिं चानद्यनिर्वाच्यां सर्वानर्थोपाधिभूतां गुणैः स्वविकारैः सह प्रागुक्तैकत्वगोचरया विद्यया।ञभावमापादितां यो वेत्तीति संबन्धः। स सर्वथा वर्णाश्रमधर्मानुल्लङ्घ्य प्रवर्तमानोऽपि भूयः पुनः पतितेऽस्मिञशरीरे देहान्तराय न जायते नोत्पद्यते। आवर्तमानो जन्मालावनपि सर्वथा भूयो नाभिजायत इति कल्पना तु भाष्यबहिर्भूता नादर्तव्या। आवर्तमान इत्याद्युक्तेः फलाभावात्।क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेब्रह्म वेद ब्रह्मैव भवतितस्य तावदेव चिरं यावन्न विमोक्ष्येइषीकातूलवच्च सर्वकर्माणि प्रदह्यन्ते?यथैधांसि समिद्धोऽग्निर्मस्मसात्कुरुतेऽर्जुने। ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथाबीजान्यग्नयुपदग्धानि न रोहन्ति यथा पुनः। ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संपद्यते पुनः।।अविद्याकामक्लेशबीजनिमित्तानां फलारम्भकाणां जन्मान्तराङ्कुरारम्भसामर्थ्यवतां कर्मणां ज्ञानग्मिनोक्तबीजदाहे सति जन्माङ्करारम्भसामर्थ्य न घटते इति श्रुतिस्मृतियुक्तभिरुक्तम्। विदुषो जन्माभावमभिप्रेत्य भगवतोक्तं न स भूयोभिजायत इति। एतेन ज्ञानोत्पत्तेः प्राक्कृतानां कर्मणामुत्तरकालभाविनामति क्रान्तोनेकजन्मकृतानां च फलमदत्त्वा प्रारब्धकर्मवन्नाशो न युक्तः।नाभूक्तं क्षीयते कर्म कल्पकोटिशतैरपि इत्यादिवचनात्। तस्मान्त्रिप्रकाराण्यपि कर्माणि त्रीणि जन्मामि संहतानि वा सर्वाण्येकं जन्मारभेरन्। अन्यथा कृतविप्रणाशे सर्वत्रानाश्वासप्रशङ्गः शास्त्रानर्थक्यं च स्यादीति शङ्का प्रत्युक्ता। सर्वकर्माणीति विशेषणात्। सर्वेषां कर्मणां दाहस्य वक्तुं युक्तत्वात्। ननु ज्ञानोत्पत्त्युत्तरकालकृतानां सर्वकर्मणां ज्ञानसहभावित्वात्तेन दाहोऽस्तु नत्वन्येषाम्। तथाच न विशेषणवैयर्थ्यमिति चेन्न। संकोचे मानाभावात्। प्रारब्धकर्मणां मुक्तेषुवत्प्रवृत्तफलत्वात्तत्साम्यमनारब्धवेगेषुवदन्येषां कर्मणां न युज्यत इत्यतः पतितेऽस्मिन्विद्वच्छरीरे न स भूयोभिजायत इति युक्तमेवोक्तमिति सिद्धम्।Compare this verse →
13.24Krishnaध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना। अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥Commentary · Sanskrit।।13.25।।एवं तत्त्वंपदार्थौ संशोध्य प्रतिपादितमिदानीमात्मदर्शनोपायविकल्पान्यथाधिकारं प्रतिपादयति -- ध्यानेनेति। केचिदुत्तमाधिकारिणो योगिनः एतज्जन्मनि जन्मान्तरे वा कृताभ्यां श्रवणममनाभ्यामसंभावनादिदोषनिर्मुक्ताः शब्दादिविषयेभ्यः श्रोत्रादीनि करणानि मनस्युपसंहृत्य मनश्च पत्गात्मन्येकाग्रं विधाय तैलधारावत्संतताविच्छिन्नप्रत्ययेन निदिध्यासनापरपर्यायेण ध्यानेनात्मनि बुद्धौ आत्मानं प्रत्यक्वेतनमात्मना ध्यानसंस्कृतेनान्तःकरणेन पश्यन्ति साक्षात्कुर्वन्ति। आत्मनि देहे इति व्याख्याने तूक्तार्थापेक्षया सामञ्जस्यं चिन्त्यम्। अन्ये मध्यमाधिकारिणः। श्रवणमननपरायणा इमे सत्त्वरजस्तमांसि गुणाः सविकाराः अनात्मानं मिथ्याभूतास्तद्य्वापारसाक्षिभूतोऽपिणामी नित्यो गुणविलक्षणो विभुः सच्चिदानन्दघन आत्मेति वेदान्तविचारजन्येन चिन्तनात्मकेन सांख्येन योगेन ध्यानोत्पत्तिद्वारा आत्मन्यात्मानमात्मना पश्यन्तीति पूर्ववत्। अपरे मन्दाधिकारिणः कर्मैव योगार्थत्वगुणेन योगस्तेन कर्मयोगेन ईश्वरार्पणबुद्य्धानुष्ठीयमानेन सत्त्वशुद्धश्रवणमननध्यानापरोक्षज्ञानोत्पत्तिद्वारेणात्मन्यात्मानमात्मना पश्यन्तीति पूर्ववत्।Compare this verse →
13.25Krishnaअन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते। तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥Commentary · Sanskrit।।13.26।।मन्दतरानाह। अन्येतु। तुशब्दः पूर्वेभ्यो वैलक्षण्यद्योतनार्थः। एषु विकल्पेषु अन्यतरेणाप्येवं यथोक्तमात्मानमजानन्तः श्रुतिपरायणाः श्रुतिः श्रवणं परमयनं मोक्षमार्गप्रवृत्तौ परं साधनं येषां केवलं परोपदेशप्रमाणाः स्वयं विवेकररिताः अन्येभ्य आचार्येभ्य इदमेव चिन्तयतेति वदद्य्भः श्रुत्वा श्रद्दधानाः सन्तस्तदेवोपासते चिन्तयन्ति तेऽपि च मृत्युयुक्तं संसारं अतितरन्त्येवातिक्रामन्त्येव। चकारः पूर्वोक्तसमुच्चयार्थः। तेप्यतितरन्ति पूरवोक्तास्त्रयः तरन्तीति किमु वक्तव्यमिति कैमुत्यन्यायबोधनार्थोऽपिशब्दः तेषामुक्तमादित्वाभावेऽपि संसारातितरणे संशयो नास्तीत्यवधारणार्थः।Compare this verse →
13.26Krishnaयावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्। क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥Commentary · Sanskrit।।13.27।।अत्र क्षेत्रज्ञं चापि मां विद्धीति क्षेत्रज्ञेश्वरैकत्वविषयं ज्ञानं मोक्षसाधनं यज्ज्ञात्वामृतमश्रुत इत्युक्तं तत्र हेतुमाह -- यावदिति। यत्किंचित्सत्त्वं वस्तु स्थावरजंगमं संजायते समुत्पद्यते तत्सर्वं क्षेत्रक्षेत्रज्ञयोः संयोगाज्जायत इत्येवं विद्धि जानीहि। एतज्ज्ञातुं योग्योऽसीति सूचयन्नाह -- हे भरतर्षभेति। ननु क्षेत्रक्षेत्रज्ञयोः संयोगादिति भगवतोक्तं न संगच्छते,क्षेत्रस्याकाशवन्निरवयवत्वेन क्षेत्रेण रज्जवेव घटस्यावयवसंश्लेषद्वारकस्य संबन्धविशेषस्य संयोगस्यासंभवात्। तन्तुपटयोरिव क्षेत्रक्षेत्रज्ञयोरितरेतरकार्यकारणभावानभ्युपगमेन लक्षणया समवायलक्षणस्याप्यसंभवात्। तमः प्रकाशवद्विस्वभावयोस्तादात्म्यासंभवाच्चेति? चेन्न। रज्जुशुक्तिकादीनां तद्विवेकज्ञानाभावादध्यारोपितसर्परजतादिसंयोगवत् विषयविषयिणोर्भिन्नस्वभावयोः क्षेत्रक्षेत्रज्ञयोरितरेतरतद्धर्माध्यासलक्षणस्य संयोगस्य क्षेत्रक्षेत्रज्ञस्वरुपविवेकाभावनिबन्धनस्य संभवात्। तथाच यथाशास्त्रं मुञ्जादिवेषीकां यथोक्तलक्षणात्क्षेत्रात् यथोक्तलक्षणं क्षेत्रज्ञं विभज्य निरस्तसर्वोपाधिमीश्वराभिन्नं यः पश्यति क्षेत्रं च मायानिर्मितहस्तिस्वप्नद्रष्टवस्तुगन्धर्वनगरद्विचन्द्ररज्जूरगवदसदेव सदिवाभासत इत्येवं निश्चितविज्ञानी यस्तस्य सभ्यग्दर्शनेन जन्महेतोः मिथ्याज्ञानस्यापगमान्मोक्ष उपपद्यते नत्वन्यस्येत्यतो युक्तमुक्तं य एवं वेत्तीत्यादि।Compare this verse →
13.27Krishnaसमं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥Commentary · Sanskrit।।13.28।।न स भूयोभिजायत इत्यनेन सभ्यग्दर्शनफलमविद्यादिसंसारबीजनिवृत्तिद्वारेण ज्माभाव उक्तो जन्मकारणं चाविद्यानिमित्तकक्षेत्रक्षेत्रसंयोग उक्तः। अतः सर्वथापि सर्वानर्थमूलभूतस्याज्ञानस्य निवर्तकं सभ्यग्दर्शनमुक्तमप्यतिसूक्ष्मार्थस्य पुनः पुनर्वचनेनाधिकारिभेदानुग्रहं मत्वा शब्दान्तरेण पुनराह -- सममिति। सर्वेषु ब्रह्मादिस्थावरान्तेषु भूतेषु भवनधर्मकेषु प्राणिषु परस्परमत्यन्तविषमेष्वनेकेषु समं तिष्ठन्तं निर्विशेषमेवं स्थितिं कुर्वन्तं परमेश्वरं देहेन्द्रियाद्यात्मानमपेक्ष्य परमश्चासावीशनशीलश्च तं विनश्यत्सु सर्वेषां भावविकारणां जन्मोत्तरभावित्वात् नाशेन षट्भावविकारा गृह्यन्ते। सर्वभाविकारवत्सु अविनश्यन्तं सर्वविकाररहितं। तथाचसर्वभूतेब्योऽत्यन्तविलक्षणं प्रत्यगभिन्नं परमेश्वरं यः पश्यति स एव पश्यति नतु विपरीतदर्शी। यताऽनेकचन्द्रदर्श्यपेक्षया एकचन्द्रदर्शी विशिष्यते तथा विभक्तानेकात्मविपरीतदर्शिभ्यो यथोक्तात्मदर्श्यपीत्यर्थः।Compare this verse →
13.28Krishnaसमं पश्यन्हि सर्वत्र समवस्थितमीश्वरम्। न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥Commentary · Sanskrit।।13.29।।श्रोतृप्ररोचनाय यथोक्तं सभ्यग्दर्शनं फलवचनेन स्तौति -- सममिति। सर्वत्र समं तुल्यतयावस्तितं ईश्वरमुक्तलक्षणं समं पश्यन् उपलभमानः। हि यस्मादात्मना स्वेनैव स्वात्मानं न हिनस्तिहिंसां न करोति ततस्तस्मात्परां प्रकृष्टां मोक्षाख्यां गतिं याति प्राप्नोति। मुच्यत इत्यर्थः। अयमर्थः -- सर्वो ह्यज्ञोऽत्यन्तप्रसिद्धं साक्षादपरोक्षमप्यात्मानं तिरस्कृत्यानात्मानमात्मत्वेन परिगृह्य तमपि धर्माधर्मौ कृत्वोपात्तमात्मानं हत्वाऽन्यमात्मानमुपादत्ते तमपि हत्वाऽन्यमित्येवमुपात्तमुपात्तमात्मानं हन्तीत्यात्महा उत्यते।असूर्या नाम ते लोका अन्धेन तमसावृताः। तांस्ते प्रत्याभिगच्छन्ति ये केचात्महनो जनाः।अन्यथा सन्तमात्मानं योऽन्यथा प्रतिपद्यते। किं तेन न कृतं पापं चोरेणात्मापहारिणा इत्यादि श्रुतिस्मृतिभ्यां परमार्थात्माप्यविद्वद्भिरविद्यया हत इव। अतः सर्वेऽप्यविद्वांस आत्महन एवोच्यन्ते। यस्त्वितरो यथोक्तात्मदर्शी स उभयथाप्यात्मना आत्मानं न हिनस्ति ततो याति परां गतिम्। एतेन कश्चिदपि प्राणी स्वयं स्वमात्मानं नैव हिनस्तीत्यतो प्राप्तं हननं किमिति प्रतिषिध्यत इति शङ्का प्रत्युक्ता। आत्मशब्दस्य स्वस्मिन्मुख्यत्वादुक्तार्थे स्वरसाधिक्याच्चात्मना देहादिनात्मानं। यद्वा ऐक्यात्मदर्शित्वात्स्वात्मानमिवान्यमप्यात्मानं न हिनस्ति सर्वत्र दयालुर्भवतीति व्याख्यानमाचार्यैर्न प्रदर्शितम्।Compare this verse →
13.29Krishnaप्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः। यः पश्यति तथात्मानमकर्तारं स पश्यति ॥Commentary · Sanskrit।।13.30।।ननु सुखदुःखादिभिः गुणैर्धर्माधर्माख्यैः स्वकर्मभिश्च वैलक्षण्यात्प्रतिदेहं भेदे तद्विशिष्टेष्वतामसु साभ्यदर्शनमनुपपन्नमिति चेत्तत्राह। प्रकृतिस्त्रिगुणात्मिका भगवतो माया।मायां तु प्रकृतिं विद्यात् इति श्रुतेः। तयैव च कर्माणि वाङ्यनःकायारभ्याणि क्रियमाणानि सर्वशः सर्वप्रकारैः। सर्वप्रकारत्वे च काम्यत्वनिषिद्धत्वादिना प्रकारबाहुल्यं यः पश्यति तथात्मानं क्षेत्रज्ञमकर्तारं सर्वोपाधिशून्यमेकं यः पश्यति स पश्यति परमार्थदर्शीति पूर्ववत्। निर्गुणस्याकर्तुर्निर्विशेषस्याकाशस्येव भेदे प्रमाणानुपपत्तेरित्यर्थः।Compare this verse →
13.30Krishnaयदा भूतपृथग्भावमेकस्थमनुपश्यति। तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥Commentary · Sanskrit।।13.31।।प्रकृतेर्विकाराणां च सांख्यवत्पुरुषादन्यत्वप्रसक्तिं निराकुर्वन्पुनरपि तदेव सम्यग्दर्शनं शब्दान्तरेण प्रपञ्चयति -- यदेति। यदा यस्मिन्काले भूतानां पृथग्भावः पृथक्त्वमेकस्थमेकस्मिन्नात्मनि प्रकृत्यादिसमस्तप्रपञ्चाधिष्ठाने प्रत्यगभिन्ने ब्रह्माणि सद्रूपे स्तितं कल्पितस्याधिष्ठानानतिरेकादात्मानतिरिक्तमनु शास्त्राचार्योपदेशात्पश्चात्पश्यतिआत्मैवैदं सर्वं? सर्वं खल्विदं ब्रह्म नेहनानास्ति किंचन? अहं ब्रह्मास्मि इति साक्षात्करोति ततएव परमात्मन एव विस्तारंयतो वा इमानि भूतानि जायन्ते? आनन्दाद्य्धवे खल्विमानि भूतानि जायन्ते? तस्माद्वा एतस्मादात्मन आकाशः संभूतः? तदैक्षत? तत्तेजोऽसृजत इति सर्वप्रपञ्चविस्तारमनुपश्यति तदा तस्मिन्काले ब्रह्म संपद्यते। ब्रह्मैव भवतीत्यर्थः।ब्रह्म वेद ब्रह्मैव भवति इति श्रुतेः। एकस्यामेवेश्वरशक्तिरुपायां प्रकृतौ स्थितं प्रलयेऽनुपश्यति। तत एव च तस्या एव प्रकृतेः सकाशाद्भूतानां विस्तारं सृष्टिसमयेऽनुपश्यतीति तूक्तप्रसक्त्यनिरासं ब्रह्म संपद्यते इति कथनानुपपत्तिं चाभिप्रेत्याचार्यैर्न व्याख्यातम्।Compare this verse →
13.31Krishnaअनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः। शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥Commentary · Sanskrit।।13.32।।नन्वेकस्यात्मनः सर्वत्र समवस्थितत्वेन देहादिगतकर्तृत्वादिमत्त्वं प्राप्तं पवित्रस्यापि गङ्गाजलादेः अपवित्रप्राण्युतरान्तरदोषेण दोषवक्त्ववदिति तत्राह -- अनादित्वादीति। अयं परमात्माव्ययोऽपक्षयरहितः कूटस्थ इत्यर्थः। तत्र,व्ययस्त्रिविधः स्वभावतो वा? अवयवद्वारको वा गुणाद्वारको वा। स्वतस्तु परब्रह्मणो न संभवतीति कथयितुं परमात्मेत्युक्तम्। द्वितीयासंभवे हेतुमाह -- अनादित्वादिति। आदिः कारणं नास्ति तदनादि। घटादेरादिमत्त्वेन सावयवत्वाद्य्वयो दृष्टः? आत्मनस्तवनादित्वेन निरवयवत्वादवयवद्वारको व्ययो न संभवतीत्यर्थः। तृतीयं निराकरोति -- निर्गुणत्वादिति। तथा सगुणो गुणव्ययाद्य्वेति अयंतु निर्गुणत्वान्न व्येति। गुणद्वारकोऽस्य व्ययो न संभवतीत्यर्थः। यत एवमतः शरीरस्थोपि शरीरेष्वात्मन उपलब्धिधर्मवतीति शरीरस्थ उच्यते। सर्वगतत्वेन सर्वात्मत्वेन च देहादौ स्थितोऽपि स्वतो देहात्मना वा न करोति कूटस्थात्वाद्देहादेश्च तस्मिन्कल्पितत्वादित्यर्थः। कर्तृत्वाभावादेव कर्मफलेन न लिप्यते। कुन्त्युत्पन्नशरीरस्थस्यापि तव कर्तृत्वं लेपश्च नास्तीति संबोधनाशयः। ननु एवं यः शरीरस्थः करोति लिप्यते च स कः किमुक्तलक्षणादकर्तुरलिप्तादात्मनोऽन्यः किंचाऽनन्यः। नाद्यः तत्त्वमसि? क्षेत्रज्ञं चापि मां विद्धीति क्षेत्रज्ञेश्वरैकत्वप्रतिपादनानुपप्तिप्रसङ्गात्। द्वितीये परमात्मनः कर्तत्वाद्यभावेन प्रतीयमानस्य कर्तृत्वादेरधिकरणं वाच्यम्। तथाच सर्वथेदं दुरुपपादमितिचेन्न। स्वभावस्तु प्रवर्तत इत्यविद्यामात्रस्वभावो हि करोति लिप्यत इति व्यवहारदशायामाविद्यकस्य कर्तृत्वादेर्भगवतैव निरुपितत्वात्। एवंच प्रत्यगभिन्ने ब्रह्मण्याविधकं कर्तृत्वादि न पारमार्थिकमिति भगवता प्रोक्ते औपनिषदे परमार्थसांख्यदर्शने दुर्विज्ञयत्वात् सांख्यवैसेषिकादिभिभ्रान्तिजन्यय पूर्वोक्तशङ्क्या परित्यक्ते स्थितानां ज्ञाननिष्ठानामविद्यापरिकल्पितकर्तृत्वाद्यपगमेन मोक्षप्राप्तिः नत्वन्यस्मिन् शुक्तिरुप्यकल्पे सांख्यादिपरिकल्पितते निष्टावतामिति।Compare this verse →
13.32Krishnaयथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते। सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥Commentary · Sanskrit।।13.33।।कर्तृत्वाभावान्न लिप्यत इत्युक्तं तत्र दृष्टान्तमाह -- यथेति। सर्वत्र देहादौ गतं स्थितमप्याकाशं खं यथा सौक्ष्भ्यात् सूक्ष्मत्वादसङ्गस्वभावत्वात् देहादिगतकर्तृत्वादिभिर्न लिप्यते न संबध्यते तथा सर्वत्र सर्वस्मिन्नवस्थितः आत्मा देहे देहधर्मैर्न लिप्यत इत्यर्थः।Compare this verse →
13.33Krishnaयथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः। क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥Commentary · Sanskrit।।13.34।।प्रकाशरुपत्वाच्च प्रकाशयधर्मैर्न लिप्यत इति दृष्टान्तेनाह -- यथेति। यथा एको रविः सूर्यः कृत्स्त्रं सर्वमिमं प्रत्यक्षादिनानुभूयमानं लोकं प्रकाशयति अवभासयंश्चावभास्यधर्मैर्न लिप्यते। तथा महाभूतादिधृत्यन्तं सर्वं क्षेत्रमेकः क्षेत्री प्रत्यगाभिन्नः परमात्मा प्रकाशयति प्रकाशयंश्च प्रकाश्यधर्मैरेकः परमात्मा न लिप्यत इत्यर्थः। तथाच श्रुतिःसूर्यो यथा सर्वलोकस्य चक्षुर्ने लिप्यते चाक्षुषैर्बाह्यदोषैः। एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःकेन बाह्यः इति। यथा एकएव भरतः स्वनाम्ना भवदादीन्प्रकाशयति तथेति सूचयन्नाह -- भारतेति।Compare this verse →
13.34Krishnaक्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा। भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥Commentary · Sanskrit।।13.35।।अध्यायार्थं सफलमुपसंहरति। क्षेत्रक्षेत्रज्ञयोरुक्तप्रकारेण व्याख्यातयोरेवं यथा प्रदर्शितप्रकारेणान्तरमितरेतरवैलक्ष्ण्यविशेषं कौटस्थ्यपरिणामादिलक्षणं शास्त्राचार्योपदेशजनितमात्मप्रत्यक्षं ज्ञानं चक्षुस्तेन ज्ञानचक्षुषा भूतानां प्रकृतिरविद्यालक्षणाऽव्यक्ताख्या तस्या भूतप्रकृतेः परमार्थात्मविद्यया मोक्षमभावगमनं ये विदुर्जानन्ति ते परं परमार्थतत्त्वं ब्रह्म यान्ति गच्छन्ति पुर्देहं नाददत इत्यर्थः। तदनेन त्रयोदशाध्यायेनामानित्यवादिकं निरुपयता तन्निष्ठस्य क्षेत्रक्षेत्रयाथात्म्यविज्ञानवतः सर्वानर्थनिवृत्त्या परिपूर्णपुरुषार्थसिद्धिरितिवदता तत्त्वंपदयोरैक्यं प्रतिपादितम्।क्षेत्रक्षेत्रयाथात्म्यं सभ्यग्येन प्रकाशितम्। वन्दे तं परमात्मानं शंररं कृष्णमद्वयम्।।1।।इति श्रीपरमहंसपरिव्राजकाचार्यबालस्वामिश्रीपादशिष्यदत्तवंशावतंसरामकुमारसूनुधनपतिविदुषा विरचितायां श्रीगीताभाष्योत्कर्षदीपिकायां त्रयोदशोऽध्यायः।।13।।Compare this verse →
श्रीभगवानुवाच। इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥
।।13.2।।यो मायां जगदेकमोहनकरीमाश्रित्य सृष्ट्वालयं देहं जीवतयानुविश्य मतिभिः संयाति नानात्मताम्।वन्दे तं परमार्थतः सुखधनं ब्रह्माद्वयं केवलं कृष्णं वेदशिरोभिरेव विदितं श्रीशंकरं शाश्वतम्।।1।।आकाशस्य यथा धटादिभिरसौ भेदो नचास्तत्यर्थत एवं ब्रह्माणि निर्गुणेऽतिविमले बुद्य्धादिभूः कल्पितः।यस्मिन्नेकरसे विमायममितं तं वासुदेवं भजे सत्यानन्दचिदात्मकं गुरुगुरुं शर्वं तमोनाशकम्।।2।।देवीं भक्तजनार्थसार्थजननीं प्रत्हूदैत्यार्दिनीं प्रत्यूहदैत्यार्दिनीं भानुं भानुमृगेन्द्रसूदितमहद्विघ्नौघनागं प्रभुम्।शुण्डावज्रनिरस्तसर्वदुरितागं पावनं मङ्गलं ध्येयं नौमि गजाननं सुरगणैरिन्द्रं गणानां विभुम्।।3।।एवं षट्कद्वयेन त्वंपदार्थ तत्पदार्थं च प्रतिपाद्याखण्डार्थप्रतिपादनाय तृतीयषट्कमारभ्यते। तत्रभूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च। अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा। अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्। जीवभूतां महाबाहो ययेदं धार्यते जगत्। एतद्योनीनि भूतानि सर्वाणीत्युपधारय। अहं कृतस्त्रस्य जगतः प्रभवः प्रलयस्तथा।। इति सप्तमेऽध्याये त्रिगुणात्मिका क्षेत्रलक्षणा संसारहेतुत्वादपरैका? अन्या च जीवभूता क्षेत्रलक्षणा ईश्वरात्मकत्वात्परेतीश्वरस्य द्वे प्रकृती सूचिते। याभ्यामीश्वरो जगदुत्पत्त्यादिहुतुत्वं प्रतिपद्यते। तत्र क्षेत्रक्षेत्रज्ञलक्षणप्रकृतिद्वयनिरुपणद्वारा तद्वत ईश्वरस्य तत्त्वनिर्णयार्थं द्वादशाध्याये चअद्वेष्टा सर्वभूतानां मैत्रः करुण एव च इत्यादितत्त्वज्ञविशेषणान्युक्तानि। येन पुनस्तत्त्वज्ञानेन संपन्ना यथोक्तविशेषणविशिष्टा मम प्रिया भवन्तीत्यस्तत्त्वज्ञानावधारणार्थं च श्रीभगवानुवाच -- इदमित्यादिना। इदं प्रत्यक्षादिनोपलभ्यमानं दृश्यम्। इदमोक्तं विशिनष्टि शरीरं। त्रिगुणात्मिका प्रकृतिः सर्वकार्यकारणविषयाकारेण परिणता पुरुषस्य भोगापवर्गयोरर्थयोरेव कर्तव्यतया देहेन्द्रियाद्याकारेण संहन्यते सोयं संघातः शरीरशब्देनोच्यते। इदं शरीरं हे कौन्तेय क्षतात्र्णात्क्षेत्रं? क्षिणोत्यात्मानमविद्यया त्राति तं विद्यया? क्षीयते नश्यति क्षरति अपक्षीयतेऽतोपि क्षेत्रमित्यभिधीयते। क्षेत्रवदस्मिन्कर्मफलं निष्पद्यते इति वा। यथा कुन्ती त्वत्प्रादुर्भावस्थानत्वात्क्षेत्रं तथात्मनोऽभिव्यक्तिस्थानत्वादपीदं क्षेत्रमिति संबोधनाशयः। अनेन शरीरस्यात्मनोऽन्यत्वं बोधितं क्षेत्रशब्दादुपस्थितमितिपदं क्षेत्रशब्दविषयमन्यथावैयर्थ्यात्क्षेत्रमित्येवमनेन क्षेत्रशब्देनाभिधीयते कथ्यत इत्यर्थः। दृश्यं शरीरं प्रदर्श्य ततोऽतिरिक्तं द्रष्टारमात्मानं दर्शयति। एतच्छरीरं क्षेत्रं यो वेत्ति आपदतलमस्तकं मनुष्योऽहं ममेदं शरीरमिति स्वाभाविकेन? शरीरं आत्मा दृश्यत्वात् घटवदित्यौपदेशिकेन स्वातिरिक्तत्वेन वा ज्ञानेन जानाति विषयीकरोति तं तद्विदस्तौ क्षेत्रक्षेत्रज्ञौ दृश्यत्वेन द्रष्टत्वेन विदन्तीति तथा तं क्षेत्रज्ञ इति प्राहुः क्षेत्रज्ञ इत्येवम्। क्षेत्रज्ञशब्देन तं कथयन्तीत्यर्थः।
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत। क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥
।।13.3।।एवं दृश्यानां दुःखादीनामनात्मधर्मत्वसिद्धये द्रष्टारं शरीराद्य्वतिरिक्तं प्रदर्श्य किमेतावन्मात्रेण ज्ञानेन ज्ञातव्यौ एतावन्मात्रेणऐव ज्ञानेन मोक्षस्य सांख्याभिमतत्वादित्याशङ्कानिरासायात्मनः सर्वदेहेष्वैक्योक्तिपूर्वकं स्वेन परमार्तेनाक्षरेण परब्रह्मणा भेदं दर्शयति -- क्षेत्रज्ञं चापीति। क्षेत्रज्ञं क्षेत्रज्ञातारं दृश्यात्क्षेत्राच्छरीरान्निष्कृष्टं द्रष्टारम्। चापीति निपातौ जीवस्याक्षरत्वज्ञानस्य शरीरादन्यत्वाज्ञानेन समुच्चायार्थौ भिन्नकमौ। न सांख्यवद्दृश्यादन्यमेव क्षेत्रज्ञं विद्धि जानीहि किंतु मां मदभिन्नं चापि क्षेत्रज्ञं विद्धीति संबन्धः। यद्वा चकारः क्षेत्रज्ञज्ञानं समुच्चिनोति। अपिरेवार्थः। सर्वक्षेत्रेषु द्रष्टारं क्षेत्रज्ञमन्यं विद्धि तं च मामसंसारिणं परमेश्वरमेव विद्धीत्यर्थः। सर्वक्षेत्रेषु यः क्षेत्रेज्ञः ब्रह्मादिस्तम्बपर्यन्तानेकक्षेत्रोपाधिप्रविभक्तस्तं निरस्तसमस्तोपाधिमेदं सदसदादिशब्दप्रत्ययागोचरं मां विद्धीत्यभिप्रायः। यथा भरतवंशोद्भवत्वाद्भारतस्त्वं तथा मयि कल्पितः क्षेत्रज्ञोऽहमेवेति ध्वनयन्संबोधयति -- भारतेति। उत्तमवंश्यत्वादेतज्ज्ञातुं योग्योऽसीति वा संबोधनाशयः। नन्वेतत्किमर्थं ज्ञातव्यमित्यपेक्षायां मोक्षानन्यसाधनसम्यग्ज्ञानत्वेन मदभिप्रेतत्वादित्याह -- क्षेत्रेति। यस्माद्दृश्यद्रष्टृप्रत्यगभिन्नपरमात्मयाथात्म्यव्यतिरेकेण ज्ञानगोचरस्यावशिष्टस्यान्यस्यासत्वात् क्षेत्रक्षेत्रज्ञयोर्ज्ञेयभूतयोर्यज्ज्ञानं क्षेत्रमात्मनि कल्पितं दृश्यं क्षेत्रज्ञश्च परमेश्वराभिन्नः प्रत्यगात्मा तौ क्षेत्रक्षेत्रज्ञौ येन ज्ञानेन गोचरीक्रियेते तज्ज्ञानं सम्यग्ज्ञानमिति मम वासुदेवस्य परमेश्वरस्य विष्णोः शास्त्रयोनेभिप्रेतमित्यर्थः। ननु जीवेश्वरयोरेकत्वे सर्वक्षेत्रेष्वेक ईश्वरो नान्यस्तद्य्वतिरिक्तो भोक्तेति जीवस्येश्वरेन्तर्भावो न वक्तुं शक्यः। संसारालम्बनस्य जीवस्येश्वरादन्यस्याभावे संसारस्य निरालम्बनत्वानुपपत्त्या परस्यैव संसारित्वप्रसङ्गात्। संसाररिणि जीवे ईश्वरस्यान्तर्भावोऽपि न शक्यते वक्तुम्। संसारिणोऽन्यस्याभावात् तस्य चापहतपाप्मत्वादिगुणकस्य विपरीतगुणकत्वेन ग्रहणानुपत्त्या संसारित्वस्यानिष्टत्वेन संसाराभावप्रसङ्गात्। नच प्रसङ्गद्वयमपीष्टमिति वाच्यम्। संसारभावेतयोरन्यः पिप्पलं स्वाद्वत्ति इत्यादिबन्धशास्त्रस्य,तद्धेतुकर्मविषयककर्मकाण्डस्य चानर्थक्यापत्तेः ईश्वराश्रिते च संसारेअनश्रन्नन्यो अभिचाकशीत इतीश्वरासंसारित्वबोधकस्य शास्त्रस्य मोक्षतद्धेतुज्ञानप्रतिपादकस्य च ज्ञानकाण्डस्य वैयर्थ्यप्रसङ्गाच्च। किचं प्रत्यक्षादिविरोधादपि संसारभावप्रसङ्गस्यानिष्टत्वं सुखदुःखतद्धेतुलक्षणस्य संसारस्य प्रत्यक्षेणोपलभ्यमानत्वात्। संसारः विचित्रहेतुकः विचित्रकार्यत्वात् प्रासादादिवदित्यनुमानाच्च संसाराभावप्रसङ्गस्यानिष्टत्वं तस्मादात्मेश्वरैकत्वमनुपपत्तिग्रस्तत्वान्न युक्तम्। अपिच जीवेश्वरयोरैक्यमेव न संभवति परोक्षापरोक्षत्वादिविरुद्धधर्मवत्त्वात् ईश्वराद्भिन्नोऽहं कर्ता भोक्ता चेति सर्वप्रमाणोपजीव्येन ज्येष्ठेन प्रत्यक्षेण गहीतस्य प्रत्ययस्य वाक्यप्रमाणजन्यज्ञानेन बाधायोगाच्च। तस्मात्क्षेत्रज्ञं तापि मां विद्धीत्यादिवदतो भगवतो नात्मेश्वरैकत्वबोधने तात्पर्यं किंतु प्रतिमादिषु विष्ण्वादिदर्शनमिव क्षेत्रज्ञे मद्दृष्टिर्विधेयेति चेन्न। ज्ञानाज्ञानयोः स्वरुपतः फलतश्चान्यत्वोपपत्त्या जीवेश्वरयोरैक्येऽप्यज्ञानकृतं संसारित्वं ज्ञानकृतमसंसारित्वमिति विभागेनानुपपत्त्यभावात् विरुद्धधर्माणां ब्रह्मण्यध्यस्तत्वात् शुद्धचैतन्ययोरभेदस्याविरुद्धत्वाच्च। तथा चदूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता। विद्याभीप्सितं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्तः। श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ संपरीत्य विविनक्ति धीरः। श्रेयो हि धीरोऽभिप्रेयसो वृणीते प्रेयो मन्दो योगक्षेमादृणीते इति श्रुतिभ्यां स्वरुपतः फलतश्च विलक्षणत्वेन विद्याविद्ये निर्दिष्टे। दूरं दूरेण महातन्तरेण विपरीते विवेकाविवेकात्मत्वात् तमःप्रकाशवत्परस्परव्यावृत्तात्मिके विषूची विषूच्यौ नानागती बन्धमोक्षहेतुत्वाद्भिन्नफले। के ते इत्यत आह। अविद्या या च विद्येति। ज्ञातागता पण्डितैस्तत्र विद्याभीप्सितं विद्यार्थिनं नचिकेतसं त्वा त्वामहं मन्ये। यस्मादाविद्वद्विप्रलोभनः कामा अप्सरःप्रभृतयो बहवोऽपि त्वां न लोलुपन्तः श्रेयोमार्गाद्विच्छेदं न कृतवन्तः साधनतः फलतश्च मन्दबुद्धीनां दुर्विवेकरुपत्वात्। व्यामिश्रीभूते इव श्रेयश्च प्रेयश्च मनुष्यं आ इतः प्राप्नुतः। अतो हंस इवाम्भसः पयस्तौ श्रेयःप्रेयः पदार्थौ संपरीत्य सम्यक् परिगम्य मनसालोक्य धीरो धीमान् गुरुलाघवं विवनक्ति पृथक्करोति विविच्य च धीरः श्रेयो हि श्रेयो मोक्षलक्षणमेवाभिवृणीते प्रेयसोऽम्यर्हितत्वात्। यस्तु मन्दोऽल्पबुद्धिः सदसद्विवेकासामर्थ्याद्योगक्षेमात् योगक्षेमनिमित्तं शरीराद्युपचयरक्षणनिमित्तं प्रेयः पशुपुत्रादिलक्षणं वृणीते इति श्रुत्योरर्थः। किंचद्वाविमावथ पन्थानौ इत्यादिवदता वेदव्यासेनात्र च निष्ठाद्वयं दर्शयता भगवता ते विलक्षणोऽभिहिते। अत्राविद्या च संसारहेतुभूता सहकार्येण मोक्षहेतुभूतया विद्यया हातव्येति श्रुतिस्मृतिन्यायेभ्योऽवगम्यते। तथाच श्रुतयःइह चेदवेदीदथ सत्यमस्ति नचेदिहावेदीन्महती विनष्टिःतमेवं विद्वानमृत इह भवतितमेव विदत्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनायविद्वान्न विबेति कुतश्चनउदरमन्तरं कुरुते अथ तस्य भयं भवतिमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिअविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः। दंद्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाःअसूर्या नाम ते लोका अन्धेन तमसावृताः। तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाःतरति शोकमात्मवित्ब्रह्माविदाप्नोति परम्ब्रह्म वेद ब्रह्मैव भवतिअन्योऽसावन्योऽहमस्मीति न सवेद यथा गशुरेव स देवानाम्आत्मवित् यः स इदं सर्वं भवतिभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे।यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः। तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति इत्याद्याः सहस्त्रशः। स्मृतयश्चअज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवःअन्यथा सन्तमात्मानं योऽन्यथा प्रतिद्यते। किं तेन न कुतं पापं चौरेणात्मापहारिणाज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः। तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परं। इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः। समं पश्यन्हि सर्वत्र इत्याद्याः अनर्थनिवृत्तिर्ज्ञानफलमनर्थप्राप्तिरज्ञानफलमित्येतदन्वयव्यतिरेकन्यायादपि सिध्यति। तदुक्तं पुरोणेसर्पान्कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति। अज्ञानतस्तं च पतन्ति केचिज्ज्ञाने फलं पश्य यथा विशिष्टम् इति। इह जीवदवस्थायाम्। चेच्छब्देन विद्योदयतौर्लम्यं द्योत्यते। अवेदीदहं ब्रह्मेति ज्ञातवान्। अथ ज्ञानानन्तरमेव सत्यमवितथमबाध्यं कैवल्यमस्ति स्यात्। नचेदिहावेदीत् इह चेन्न विजानीयात् तर्हि महती विनष्टिः जन्ममरणादिल क्षणा संसृतिरस्ति। तमेव परमात्मानमेव विदत्वा ज्ञात्वा विदत्वैवेति वा अतिमृत्युमेति मृत्युमत्येति अतिक्रामति मुच्यते। अयनाय मोक्षाय। उदरमत्यल्पमपि। अविद्यायामन्तरे मध्ये धनीभूत इव तमसि वर्तमानाः पुत्रधनादितृष्णापशशतैरावेष्ठ्यमानाः स्वयं धीरा धीमन्तो नत्वन्यैर्धीरत्वेनाभिमता अपण्डितमात्मानं पण्डितं शास्त्रकुशलं मन्यमाना ये एतादृशास्ते दंद्रम्यमाणा अत्यन्तं कुटिलामनेकुरुपां गतिं गच्छन्तः परियन्ति जरामरणादिदुःखे परिगच्छन्ति। यतो मूढा अविवेकिनः। तत्र दृष्टान्तः। अन्धेनैव दृष्टिहीनेनैव विषमे पथि नीयमाना यथान्धाः महान्तमनर्थं प्राप्नवन्ति तद्वदिति कठिनश्रुत्यक्षरार्थः। तथाच देहेन्द्रियाद्यनात्मसु आत्मबुद्धिमतोऽज्ञस्य रागद्वेषादिप्रयुक्तस्य धर्माधर्मानुष्ठानकर्तुः जन्ममरणादिलक्षणसंसारभाक्त्वं देहेन्द्रियादिव्यतिरिक्तात्मदर्शिनो रागद्वेषादिप्रहाणापेक्षधर्माधर्मप्रवृत्त्युपशमात् मोक्षभाक्त्वं श्रतिस्मृतिन्यायादवगतं न केनचित् वादिना कयाचिदपि युक्त्या वारयितुं शक्यम्। एवंचोक्तप्रकारेण ज्ञानाज्ञानयोः स्वरुपतः कार्यतश्च भेदे सति वस्तुतः क्षेत्रज्ञस्यैवेश्वरस्य सतोऽविद्याकृतबुद्य्धाद्युपाधिमेदात्संसारित्वमाविद्यकमाभासरुपं प्रातिभासिकं सिध्यति। यथा पुरःस्थिते वस्तुतः स्थाणावविद्याकृतेऽतस्मिंस्तद्वुद्धिलक्षणे पुरुष इति निश्चये जातेपि पुरुषधर्मः शिरःपाण्यादिमत्त्वं न स्थाणोर्भवति तद्धर्मो वक्रत्वादिमत्त्वं वा न पुरुषस्य दृश्यते। तथा देहाद्यनात्मस्वात्मभावनिश्चयेऽविद्याकृते सर्वजन्तुप्रसिद्धे जाते न चैतन्यं देहादिधर्मो देहादेर्धर्मो न वा जाड्यजरामरणादिचैतन्यस्य। ननु जाड्यादेरनात्मधर्मत्वेऽपि सुखादेरात्मधर्मत्वं किं न,स्यादितिचेन्न।कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्नीर्धीर्भीरित्येतत्सर्वं मनएव इति श्रुत्या विमतं सुखदुःखमोहात्मकत्वादिरात्मनो धर्मो न भवति। अविद्याकृतत्वाविशेषात् जराभृत्युवदिति युक्त्या च सुखदुःखादीनामनात्मधर्मत्वसिद्धेः। ननु स्थाणुपुरुषयोर्ज्ञेययोरेव सतोर्ज्ञात्राऽविद्ययान्योन्यस्मिन्नध्यस्तत्वोद्देहात्मनोस्तु ज्ञेयज्ञात्रोरेवाध्यासात् दृष्टान्तदार्ष्टन्तिकयोर्वैषम्येण स्थाणौ पुरुषत्ववदाविद्यकत्वं देहादेरयुक्तम्। अध्यासव्यापकस्योभयोर्ज्ञेयत्वस्य व्यावृत्त्या व्याप्यस्याध्यासस्यापि व्यावृत्तेः। तस्माद्देहधर्मो ज्ञेयोऽपि सुखादिरात्मनो भवतीति चेदुच्यते। अविद्याध्यासमात्रं हि दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं विवक्षितं उभयोर्ज्ञेयत्वं तु नाध्यासव्यापकम्। स्वप्ने ज्ञातरि ज्ञेयाध्यासदर्शनात् सुखदुःखमोहेच्छदीनां देहादेः क्षेत्रस्य धर्माणामात्मधर्मत्वं चेत्तर्हि विशेषहेत्वभावादचैतन्यं जरामरणादिकं चात्मनो दर्वारं स्यात्। सुखादेरात्धर्मत्वाभावे तु विमतं सुखादिकमात्मधर्धो न भवति अविद्यारोपितत्वात् आगमापायित्वात् दृश्यत्वाज्जडत्वाज्जरादिवदित्यस्ति हेतुरतःसुखादीनां क्षेत्रधर्मत्वमेव युक्तं नात्मधर्मत्वम्। एवं च सर्वक्षेत्रेष्वपि सतो भगवतः क्षेत्रज्ञात्मकस्येश्वरस्य संसारेण ज्ञेयस्थेन ज्ञातर्यविद्यारोपितेन ज्ञातुर्वस्तुतः स्पर्शाभावात्। नन्वविद्यावत्त्वात्क्षेत्रज्ञस्य तदध्यस्तं संसारित्वामपि स्वाभाविकं स्यादितिचेन्न। तामसे आवरणात्मके तिमिरादिदोषे सत्यग्रहणदेरविद्यात्रस्योपलब्धेर्विवेकप्रकाशात्मके क्षेत्रज्ञे तामसत्वेनावरणात्मिकाया अविद्याया अभावेनाग्रहणविपरीतग्रहणसंशयानामप्यनुपपत्त्या तस्य स्वाभाविकसंसारित्वस्याभावात्। नन्वेवं तर्हि आत्मानं न जानामि मनुष्योऽहमित्यादिप्रत्ययदर्शनात्। ज्ञातुर्धर्मोऽविद्या तद्धर्मवत्वं च ज्ञातुः संसारित्वं तथाचेश्वर एव क्षेत्रज्ञोऽसंसारी चेति विप्रतिषिद्धमितिचेन्न। यतो यथा चक्षुषि तैमिरिकत्वादिदोषे सति विपरीतग्रहणादिकं दृश्यते दोषापगमे च न दृश्यते इत्यन्वयव्यतिरेकाभ्यां निमित्तनैमित्तिकं च करणस्य चक्षुषु एव नतु गृहीतृधर्मस्तथा सर्वत्राग्रहणादिप्रत्ययास्तद्धेतवश्च दोषाः कस्यचित्करणस्यैव भवितुर्महन्ति। तता चावरणाद्यात्मिकाविद्या अन्तःकरणस्य धर्मो नतु क्षेत्रज्ञस्य। तथाचायं प्रयोगः -- निमित्तनैमित्तिकाऽविद्या तत्त्वतो न ज्ञातधर्मो दोषत्वात्तत्कार्यत्वाद्वा तिमिरादिदोषवत् तज्जन्यविपरीतग्रहणबद्धा। किंचाग्रहणादिस्तद्धेतुर्दोषश्च तत्त्वतो न ज्ञातृधर्मः ज्ञेयत्वात् प्रदीपप्रकाशवत्। यज्ज्ञेयं तत्स्वातिरिक्तज्ञेयं यथा प्रदीपप्रकाश इति व्यापत्याऽग्रहणादेरपि ज्ञेयत्वेन स्वातिरिक्तज्ञेयत्वावशयंभावात्। ज्ञाता न ज्ञेयधर्मवान् ज्ञातृत्वात् यथा देवदत्तो न स्वज्ञेयधटादिरुपादिमान् सर्वकरणवियोगे च कैवल्ये सर्ववादिभिरविद्यादिदोषत्त्वानभ्युपगमात्। अविद्यादिस्त्त्वतो न ज्ञातृधर्मो व्यमिचारित्वात् स्थूलत्वकृशवत्दिवत्। अपरिचाविद्यारात्मनो ज्ञातुर्धर्मः किमग्नयौष्णयवत्स्वाभाविकः किंवा आगन्तुकः। नाद्यः स्वाभाविकेन धर्मेण कदाचिदपि वियोगाभावेनानिर्मोक्षप्रसङ्गात्। आगन्तुकोऽपि किं स्वतः उत परतः। नाद्यःअनिर्मोक्षप्रसङ्गादेव। न द्वितीयः विभूत्वादविक्रित्वात् निरवयवत्वादसङ्गात्वादद्वयत्वाच्चात्मनः व्योमत्केनचित्क्वचित्संयोगानुपपत्त्या परतस्तस्मिन्नग्रहणादेर्वक्तुमशक्यत्वात्। तस्मादित्सिद्धं क्षेत्रज्ञस्य कालत्रयेऽपीश्वरत्वम्अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः। शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते। यथा सर्वगत् सौक्ष्यादाकाशं नोपलिप्यते। सर्वत्रावस्तितो देहे तथात्मा नोपलिप्यते?अन्तःकरणव्यतिरिक्तोऽहमितिप्रतीयमाने जीवः परस्मान्न भिद्यते चेतनत्वाद्ब्रह्मवत् इत्यादिश्रुतियुक्तभ्यश्च। ननु सर्वप्रमाणोपजीव्यतया श्रेष्ठेन ज्येष्ठेन नाहमीश्वर इत्येवंरुपेण प्रत्यक्षेण भेदस्योपलभ्यमानत्वात् तद्विपुद्धं क्षेत्रज्ञेयश्वरयोरैक्यं श्रुतियुक्तिभिर्बोधयुतं न श्क्यते। ननु प्रत्यक्षस्य व्याहारिकभेदविषयत्वेन श्रुत्यादिजन्यज्ञानेन बाधसंभवादिविरोध इति चेन्न। भेदग्राहिप्रत्यक्षस्याहमीश्वर इति तद्विरोधिप्रत्ययाभावेन बाधासंभवात्। ननु क्षेत्रज्ञेश्वरभेदप्रत्यक्षे किं बहिरिन्द्रियं चक्षुरादि हेतुः किंवा मनः। नाद्यः बाह्येन्द्रियाणां रूपादिरहितात्मग्रहणसमार्थ्याभावेन तद्गतभेदग्रहणेऽप्यसामर्थ्यात्। न द्वितीयः।प्रमाणान्तरसहकरिणो मनसः पृथक्प्रमाणत्वायोगात्। तस्मात् क्लृप्तकारणाभावाद्भेदप्रत्यक्षं भ्रान्तिरितिचेन्न। सुखादिप्रत्यक्षस्य प्रमाणान्तराजन्यत्वेन मनस एव तत्प्रमाणत्वे आत्मनोऽपि त्प्रमाणत्वेन तद्गतभेदस्यापि तत्प्रमाणत्वात्। नन्वतीन्द्रियेश्वरप्रतियोगकभेदस्याप्यतीन्द्रित्वात् ईश्वरभेदः कथं प्रत्यक्षः अभावप्रत्यक्षस्य प्रतियोगप्रत्यक्षतन्त्रत्वादिचिचेन्न। मनस्तवे घटत्वाभावस्याप्रत्यक्षत्वात् घटत्वे मनस्त्वाभावस्य प्रत्यक्षत्वाच्च प्रतियोगप्रत्यक्षस्याभावप्रत्यक्षे तन्त्रत्वाभावात्। तथाच यत्र घटत्वादौ यस्य मनस्त्वादेः सत्त्वमनुपलब्धिविरोधि तत्र तदभावः प्रत्यक्षः। ततश्च क्षेत्रज्ञे ईश्वाभेदो यदि स्यात्तर्हि उपलभ्येत। यतो नोपलभ्यते तस्मात्तद्भेदः प्रत्यक्षः। नच स्थूलोहमित्यादिप्रत्यगोचरः स्थौल्यादिर्यथा शरीराद्युपाधिकतयात्मनि कल्पितस्तथा शरीरविशिष्टस्यैवेश्वरभेदानुभवात् भेदप्रत्ययोऽप्यौपाधिकत्वात्कल्पित इति वाच्यम्। जाग्रतस्वप्नयोरेकशरीरानभभासेपि योहं स्वप्नेमोहमिदानीं मनुष्यः कद्वारुढ इत्यहंप्रत्ययस्यैकरुपस्यानुवर्तमानत्वेन देहातिक्तात्मनोऽहमिति प्रत्यक्षप्रत्यगोचरत्वाभ्युपगमावश्वकत्वेन तत्र प्रतीयमानस्येश्वरप्रतियोगिकभेदस्यौपाधिकत्वायोगेनाकल्पिततत्वादितिचेदुच्यते। मनो न प्रमाणं किं चित्प्रमाणसहकारित्वात्कालादिवद्य्वतिरेके चक्षुरादिवत्? अनन्यथासिद्धप्रमेयशून्यत्वात् च मनो न प्रमाकरणं तदाश्रयत्वात्प्रमातृवत्। तदुक्तंप्रमाणसहकारित्वाद्विषस्याप्यभावतः। न प्रमाणं मनोऽस्माकं प्रमादेराश्रयत्वतः। तदपि सुखादिप्रत्यक्षस्येत्यादि तदपि न। सुखादिव्यवहारः स्वविषज्ञानजन्यः अर्थज्ञापनेच्छाधीनजडव्यवहारत्वात् संमतवदित्यनुमानात्। किंच मनो न भेदे प्रमाणमसन्निकृष्टत्वात्संमतवत् मनसो भेदेन संयोगसमवायतादात्म्यानामन्यतो न,भवति इति सुप्रसिद्धम्। अन्यश्चेन्द्रियसंनिकर्षोऽप्रसिद्धः असंनिकृष्टं चेन्द्रियमर्थं नैव गृह्णाति। तदुक्तंसंयोगादेरयुक्तत्वात्तदन्यस्याप्रसिद्धितः। संनिकर्षस्य तेनेदं भेदासंग्येव मानसम् इति। युत्तु मनस्त्वे घटत्वप्रतियोगकाभावस्येत्यादि तदपि न। प्रतियोगसत्त्वस्यानुलब्धिविरोधित्वं तत्प्रतियोग्युलब्धिव्याप्यत्नेवैव वक्तव्यम्। एवं चान्यत्र प्रतियोगसत्त्वस्याभावस्थलीयोपलम्भाव्याप्तत्वेन तत्रत्यानुप्रलब्धिविरोधित्वायोगात्। यत्रेत्यादिवक्तुरभावाधिकरण एव प्रतियोगसत्त्वतदुपलम्भयोर्वाच्यत्वापत्तेः। किंच यथा लौकिकोपदेशस्य सहकारिणोऽभावाद्ब्रह्मणत्वाद्यनुपलम्भस्तदभावं विनोपपन्नस्तथाआचार्यावान्पुरुषो वेद?नावेदविनमुनते तं बृहन्तं?श्रोतव्यो मन्तव्यः इत्यादिना बोधितस्य सहकार्यन्तरस्याभावेन क्षेत्रज्ञे ब्रह्माभेदानुपलम्भोऽप्भावं विनोपपद्यते। अपि च तमसावृतस्य घटस्य सत्त्वं यता नानुपलब्धिविरोधि तथानीहारेण प्रावृताजल्प्या च?अनृतेन हि प्रत्मूढाअज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः?भवत्यभेदो भदश्च तस्याज्ञानकृतो भवेत् इत्यादिश्रुतिस्मृतिऽज्ञानेनावृतत्वप्रतीतेर्ज्ञातृब्रह्माभेदसत्त्वं नानुपलब्धिविरोध। किंच यथा मनसानुपलम्भान्न धर्माद्याभावसिद्धिस्तथायन्मनसा न मनुते?तं त्वैपनिषदं पुरुषं पृच्छामि?सर्वेवेदायत्पदमामनन्ति इत्यादिश्रुत्या मनोगम्यस्य प्रत्यगभिन्नस्य ब्रह्मणः मनसानुपलम्भादभावो न सिध्यति। तदपि जाग्रत्स्वप्नयोरित्यादि तदपि न। नाहमीश्वर इति भेदानुभवस्याहमिहेति परिच्छिन्नतयानुभूयमाने जीवेऽनुभूयमानत्वात् निरुपाध्यात्मनश्च परिच्छेदासंभवाद्धटाकाशवत्परिच्छेस्यौपाधिकत्वेन तद्गतभेदस्याप्यौपाधिकत्वात् प्रत्यक्षस्य व्यावहारिकस्त्तामुपजीव्य प्रवत्तं श्रुत्यादि तस्य पारमार्थकसत्तां निराकरोत्यतो नोपजीव्यविरोधः। ज्येष्ठत्वात् रजतज्ञानवत्। ननु क्षेत्रज्ञस्येश्वाभिन्नत्वे सति संसारसंसारित्वाभावे शास्त्रस्य प्रत्यक्षादेश्चानर्थक्यात् वास्तवत्वमेव संसारसंसारित्वयोरिति चेत् किं विद्यावस्थायां शास्त्रद्यानर्थक्यमुताविद्यावस्तायाम्। आद्ये मुक्तात्मनां संसारसंसारित्वव्यवहारस्य सर्वैरप्यात्मवादिभिरनिष्टत्वेन तैर्यथाशास्त्राद्यानर्थक्यदोषो नैवाभ्युपगतस्तथास्माभिरपि? द्वितीयं च यथा सर्वेषां द्वैतिनां मते बन्धावस्थायामेव शास्त्रार्यर्थत्त्वं न मुक्तावस्थायामेवम्। ननु द्वैतिनां मते आत्मनो बन्ध मुक्त्यवस्थयोर्वास्तवत्वेन हेयोपादेयसाधनसद्भावेन शास्त्रादेरर्थवत्त्वं सिध्यति नत्वद्वैतिनामविद्याकृतत्वात् द्वैतस्यापरमार्थत्वेनात्मनो बन्धावस्थाया अवास्तवत्वादितिचेत् आत्मनो वास्तवे बन्धमुक्त्यवस्थे युगपत्सयातां क्रमेण वा। नाद्यः। एककालीनस्थितिगतिवदेकस्मिन् युगपद्विरोधात्। द्वितीयेऽपि तयोर्निर्निमित्तत्वं सनिमित्तत्वं वा। नाद्यः। अनिर्मोक्षप्रसङ्गात्। द्वितीये स्वतोभावादपरमार्थत्वप्रसङ्गेन बन्धमोक्षावस्थे न वास्तवेऽस्वाभाविकत्वात् स्फटिकलौहित्यवदित्यभ्युपगमहानापत्तेः। द्वितीये स्वतोभावदपरमार्थत्वप्रसङ्गेन बन्धमोक्षावस्थे न वास्तवेऽस्वाभाविकत्वात् स्फटिकलौहित्यवदित्यभ्युपगमहानापत्तेः। किंचावस्थयोर्वास्तत्वमिच्छता तयोर्यौगपद्यासंभवेन क्रमनिरुपणार्थं बन्धवास्थापूर्वं प्रकल्प्यानादिमत्यन्तवती तथा मोक्षावस्था पश्चात्प्रकल्प्या आदिमत्यनन्ता तच्च यदनादिभावरुपं तन्नित्यं यथात्मा। यत्सादिभावरुपं तदन्तवद्यथा घटादीति व्याप्तिद्वयविरुद्धम्। अपि च क्रमभाविनीभ्यावस्थाभ्यामात्मा संबध्यते न वा। आद्ये किं पूर्वावस्थया सहैवोत्तरावस्थया संबध्यते किंवा पूर्वावस्थां विहाय। आद्येऽनिर्मोक्षप्रसङ्गः। द्वतीये आत्मनः सातिशयत्वापत्त्या नित्यत्वमुपपादयितुमशक्यम्। अन्त्ये द्वैतिनामपि शास्त्राद्यानर्थक्यदोषस्यापरिहार्यत्वान्नाद्वैतवादिना परिहर्तव्यम्। तर्हि पक्षद्वयेप दोषाविशेषान्नाद्वैतमतांनुरागे हेतुरिति चेन्न। अद्वैतमते शास्त्राद्यानर्थक्याभावात्। भोक्तृत्वकर्तृत्वयोर्देहादृष्टयोर्वा फलहेत्वोरनात्मनोरहं कर्ताहं भोक्ताहं मनुष्य इत्याद्यत्मदर्शनवतोऽविदुशोऽधिकारिणः संभवात् न शास्त्राद्यानर्थक्यम्। ननु विद्वद्विषयं शास्त्रं किं न स्यादितिचेन्न। विदुषां फलहेतुभ्यामात्मनोऽन्यत्वदर्शने सति तयोरहमित्यात्मदर्शनानुपपत्तेः। नहि जलाग्नयोश्छायातपर्योर्वा भेददर्शी अत्यन्तमूढोऽपि तयोरेत्कामतां पश्यति किमुत विवेकी। तस्माद्विधिनिषेधशास्त्रं न विद्वद्विषयम्। नहि देवदत्त त्वमिदं कुर्विति देवदत्ते नियुक्तं तत्रस्थो नियोगं श्रृण्वन्नपि विष्णुमित्रोहं नियुक्त इति नियोगं प्रतिपद्यते। ननु देवदत्ते नियुक्ते कदाचिद्विष्णुमित्रो विनियुक्तोऽस्मीति प्रतिपद्यत इतिचेत्सत्यम्। नियोगविषयान्नियोज्यादात्मनो विवेकाग्रहणात्। भ्रान्त्या प्रतिपत्त्युत्पत्तेः। तथा फलहेत्वोरप्यात्मनो विवेकाग्रहणात् अविद्वान्संभवत्येव विधिनिषेधशास्त्राधिकारी। ननु यो विद्योदयात्पूर्वमनुभूतोऽविद्योत्पन्नदेहाद्यभिमानसंबन्धस्तदपेक्षया सत्यपि फलहेत्वोरात्मान्यत्वदर्शने इष्टफलहेत्वोः प्रवर्तितोऽस्म्यनिष्टफलहेत्वोर्निवर्तितोऽस्मीति शास्त्रार्थविषया प्रवृत्तियुक्तैव। यथा पुतृपुत्रभ्रात्रादीनामितरेतरात्मान्यत्वदशने सत्यपि पितरमधिकृत्य विधौ निषेधे वा तस्य तदनुष्टानाशक्तो पुत्रस्य तद्विषया धीरिष्टा? एवं पुत्रस्यानुष्ठानाशक्तस्य पितुरित्यन्योन्यनियोगप्रतिषेधार्था प्रतिपत्तिरिति चेन्न। पुत्रादीनां मिथ्याभिमानात्। मथो नियोगादिप्रतिपत्तिसत्त्वेऽपि व्यतिरिक्तात्मदर्शनप्रतिपत्तः प्रागेव फलहेत्वोरात्माभिमानस्य प्रसिद्धत्वेन विदुषस्तदयोगात्। किंचसर्वोपेक्षा च यज्ञादिश्रुतेः इत्यधिकरणे सम्यग्ज्ञानस्यादृष्टसाध्यत्वोक्त्या अनुष्ठितविधिनिषेद्यार्था हि फलहेतुभ्यामात्मनोऽन्यत्वं प्रतिपद्यते। सत्यदृष्टे सम्यग्ज्ञानदर्शनात्? असति च तस्मिञ्छुद्धचित्तस्य तददर्शनादन्वव्यतिरेकाभ्यांतमेतं वेदानुवचनेन ब्राह्णा विवदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन इति श्रुत्या च विधिनिषेधानुष्ठानात्मपूर्वं ताभ्यामात्मनोऽन्यत्वं न प्रतिपद्यते। तस्मादविद्वद्विषयं विधिनिषेधशास्त्रमिति सिद्धम्। ननुस्वर्गकामो यजेत?न कलञ्जं भक्षयेत् इत्यादावात्मनो देहाद्य्वतिरेकं पश्यतां देहाद्यभिमानरुपाधिकारहेत्वभावात् देहादावात्मत्वमनुभवतामपि पारलौकिकप्रतित्त्याभावात् प्रवृत्तिनिवृत्तयभावेन कर्तुरभावात् शास्त्रानर्थक्यमितिचेन्न। प्रत्यगभिन्नब्रह्मविदः ,परलोकाभावविदश्चानात्मवादिनः प्रवृत्तिनिवृत्त्यभावेऽपि विधिनिषेधशास्त्रान्यथानुपपत्त्यानुमितात्मस्तित्वस्य निर्विशेषात्मस्वरुपानभिज्ञस्य कर्मफले स्वर्गादौ नरकादौ च संजाततृष्णस्योत्पन्नत्रासस्य च श्रद्दधानस्य प्रवृत्तिनिवृत्त्योः सर्वप्रत्यक्षसिद्धत्वेन शास्त्रानर्थक्याभावात्। ननु विवेकिनां देहादिभ्यो निष्कृष्टमात्मानं दृष्टवतां विधिनिषेधयोरधिकाराभावेन प्रवृत्तिनिवृत्त्यभावेयद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते इति न्यायेन तदनुगच्छतां तेषां विधिनिषेधशास्त्रेऽप्रवृत्तिदर्शनात्तत्राप्रवृत्तौ शास्त्रानर्थक्यमितिचेत् किं सर्वेषां विवेकित्वाच्छास्त्रानर्थक्यमुच्यत उत कस्यचित्। नाद्यःमनुष्याणां सहस्त्रेषु कश्चिद्यतति सिद्धये। यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः इतिन्यायेन सर्वेषां विवेकित्वाभावात्। न द्वितीयः। मूढानां प्रवृत्तिनिवृत्त्यो रागादिदोषाधीनत्वेन विवेक्यनुगामित्वाभावात्। श्येनाद्यभिचारिकर्मणि विवेकनामप्रवृत्तावपि इतरेषां प्रवृत्तिदर्शनेन तदप्रवृत्तावितरेषामप्यप्रवृत्तिरिति नियन्तुमशक्यत्वात्।स्वभावस्तु प्रवर्तते इत्युक्तत्वेन प्रवृत्तेः स्वभावाख्याज्ञानकार्यत्वाद्विवेकिनां प्रवृत्त्यभावेऽप्यज्ञानां प्रवृत्त्यभावायोगात्। तस्मादविद्यामात्रः विधिनिषेधाधीनप्रवृत्तिनिवृत्त्यात्मको तथा मिथ्याज्ञानस्य परमार्थवस्तुदूषणेऽसामर्थ्यमतो भगवतेदमुक्तंक्षेत्रज्ञं तापि मां विद्धि सर्वक्षेत्रेषु भारत इति। एवंचोक्तयुक्त्यात्वं वा अहमस्मि भगवो देवते अहं वै त्मसि अहं ब्रह्मास्मि तत्सत्यं स आत्मा तत्त्वमसि इत्यादिश्रुत्या असकृदुपदेशाच्च प्रतिमायां विष्णुबुद्धिरिव क्षेत्रज्ञ ईश्वरबुद्धिरिति बालविमोहनमात्रं गौणत्वप्रसङ्गात् वाक्यवैरुप्याच्च।अथ योऽन्यां देवतामुपास्तेऽन्योसावन्योऽन्योऽहमस्मीति न स वेद।मृत्योः स मृत्युमाप्राप्नोति य इह नानेव पश्यति।सर्व तं परादाद्योन्यत्रात्मनः सर्वं वेद इत्यादिश्रुतिभिर्भेदर्शनस्य निषिद्धत्वाच्च। यत्पुनरुक्तं विरुद्धधर्मवत्त्वादैक्यं न संभवतीति तदपि न। विरुद्धमर्मताया मिथ्यात्वोपपत्त्या जहदजहल्लक्षणया सोऽयंदेवदत्त इतिवदैक्यस्य सुवचत्वात्। तसमात्क्षेत्रज्ञस्येश्वराभिन्नस्य न संसारसंस्पर्शः। ननु संसारिणामिवाहं ब्राह्मण एवमाभिजात्यादिविशिष्टः इदं पुत्रक्षेत्रकलत्रादकं ममेति पण्डितानामपि संसारित्वप्रतीते क्षेत्रज्ञस्य वस्तुतः संसारासंस्पर्शे विद्वदनुभवो विरुध्येदिति चेन्नेदं पाण्डित्यं कूटस्थासंसार्यात्मदर्शनं कुंतु क्षेत्रज्ञ एवात्मदर्शनं क्षेत्रज्ञ कूटस्थं पश्यतां अयमहं कर्ता ममेदं भोग्यं रयान्ममानेन कर्मणेदं फलं सेत्स्यतीति प्रत्ययो न संभवति। कूटस्थात्मधीविरुद्धत्वादस्य प्रत्ययस्य। नन्वविक्रियात्मदर्शिनो बोगकर्माकाङ्क्षयोरभावे कः शास्त्राधिकारितिचेत् दुर्वचत्वात्तस्य निवृत्तिनिष्ठत्वं न सिध्यतीति चेत्सत्यम्। तथापि कार्यकरणसंघातव्यापारोपरमे निवृत्तिरुपचर्यते। इदं चान्यत्पाण्डित्यं कस्यचित्पण्डितंमन्यस्य। क्षेत्रज्ञ ईश्वर एव क्षेत्रं चान्यत्। क्षेत्रज्ञविषयः अहं तु वस्तुतः संसारी सुखी दुःखी च। ननु संसारित्वस्य वास्तवत्वे तदनिवृत्त्या पुरुषाथासिद्धिरिति चेन्न। क्षेत्रं ज्ञात्वा ततो निष्कृष्टस्य क्षेत्रज्ञस्य ज्ञानेन मम संसारीपरमस्य कर्तव्यत्वात्। ननु क्षेत्रज्ञज्ञानं खतं संसारोपरत्युत्पादकमितिचेत्। ध्यानेनेश्वरं क्षेत्रज्ञं साक्षात्कृत्य तत्स्वरुपावस्थानेनेति गृहाण। तथा चाहं वस्तुतः संसारी असंसारिणः क्षेत्रज्ञादीश्वरादन्यस्तस्मान्मम संसारिणोऽसंसारिश्वरत्वं कर्तव्यभित्येवं यो बुध्यते यो वा तथाविधं ज्ञानं त्वया संपादनीयमिति बोधयति नासौ क्षेत्रज्ञः। अन्यथोपदेशानर्थक्यमित्येवं मन्यमानो पण्डितापसदः। अयमात्मा ब्रह्मेत्याद्यात्मनो ब्रह्मत्वबोधकश्रुत्या प्रतिपादितोपपत्त्या च विरोधात्। ननु संसारस्य वस्तुत्वाभ्युपगमात्संसारावस्थायां कर्मकाण्डस्यार्थवत्त्वं संसारिनिरासेनात्मनो ब्रह्मत्वे ध्यानादिना साधिते मोक्षावस्थायां ज्ञानकाण्डस्यार्थवत्त्वं तत्कथं यथोक्तज्ञानवान्पण्डितापसन इत्युच्यत इति चेत्। उच्यते। संसारमोक्ष्योः शास्त्रस्य चार्थवत्त्वं करोमीति मन्यमानः पण्डितापसद एव। यतः कल्पितं संसारित्वमधिकृत्य साध्यसाधनसंबन्धं बोधयतः कर्मकाण्डस्य तथाविधं संसारित्वं पराकृत्याखण्डैकरसे प्रत्यग्ब्रह्मणि पर्यवस्यतः ज्ञानकाण्डस्य आत्मनः शास्त्रसिद्धं ब्रह्मत्वं च त्यक्त्वा संसारित्वस्य वास्तवत्वमात्मनोऽब्रह्मत्वं च कल्पयन्नात्महा भूत्वा शास्त्रार्थसंप्रदायरहितत्वात् तत्त्वमसीतिवत्प्रसिद्धक्षेत्रज्ञानुवादेनाप्रसिद्धं तस्येश्वरत्वं क्षेत्रज्ञं चापि मां विद्धीत्युपदेशतः श्रुतं तस्य हानिमश्रुत्यस्य जीवेश्वरयोर्भेदस्य कल्पनां च कुर्वनत्स्वयं मूढः क्षेत्रज्ञं तापि मां विद्धीत्यनेन सर्वक्षेत्रान्तर्यामी परो जीवादन्यो निरुप्यते नतु जीवस्येश्वरत्वं बोध्यते इत्यन्यांश्च व्यामोहयति। तस्मादसंप्रदायविद्यथोक्तं पाण्डित्यं पुरुस्कृत्य सर्वशास्त्रार्थविदपि मूर्खवदुपेक्षणीयः। तथाच विद्याविद्यायोर्वैलक्षण्याभ्युपगमात् ईश्वरस्य क्षेत्रज्ञैकत्वे संसारित्वं प्राप्नोति क्षेत्रज्ञानां चेश्वरैकत्वे संसारिणोऽभावात्संसाराभावप्रसङ्ग इत्येतौ दोषौ प्रत्युक्तौ। अविद्यापरिकल्पितदोषेण तद्विषयं वस्तु न दुष्यतीत्यत्र दृष्टान्तस्योक्तत्वात्। संसारसंसारिणोरविद्याकल्पितत्वेनोपपत्तेः। नन्वविद्या संसारसंसारिणौ कल्पयन्ती() आश्रयान्तराभावात्क्षेत्रज्ञाश्रया तस्य त तद्वत्तत्वमेव संसारित्वम्। नचाविद्यावत्त्वमविद्याकृतमनवस्थाप्रसङ्गात्। ननूत्खातदन्तोरगवदविद्या किं करिष्यतीतिचेन्नाहं दुःख्यहं सुखीति तत्कृतस्य दुःखित्वादेः प्रत्यक्षसिद्धत्वादिति चेन्न। क्षेत्रज्ञ आपाद्यामानस्य दोषजातस्य ज्ञेयत्वोपपत्त्या क्षेत्रधर्मत्वेन क्षेत्रज्ञधर्मात्वाभावात्। नच क्षेत्रद्वारा क्षेत्रज्ञस्तत्कृतदोषवत्तया दुष्यति क्षेयेन ज्ञातुः संसर्गे ज्ञेयत्वाभावप्रसंगेन तेन ज्ञातुः संसर्गानुपपत्तेः। ननु धर्मधर्मित्वेन संसर्गेऽपि ज्ञेयत्वे का क्षतिरितिचेत्। अविद्यावत्त्वदुःखित्वादेरात्मधर्मत्वे स्वधर्मस्य च स्वज्ञेयत्वे स्वस्यापि स्वज्ञेयत्वापत्त्या कर्मकर्तृविरोध इति गृहाण। किंच विमतं नात्माश्रितं तज्ज्ञेयत्वात् रुपादिवदित्यनुमानात्। दुःखित्वादेः प्रत्यक्षेणोपलभ्यमानत्वेन ज्ञेयत्वेनात्मधर्मत्वं न संभवति तद्धर्मत्वे वा ज्ञेयत्वम्। किंच महाभूतानीत्यादिना ज्ञेयमात्रस्य क्षेत्रान्तर्भावकथनात् एतद्यो वेत्तीत्युक्त्या क्षेत्रज्ञस्य ज्ञातृत्वानिर्णयाज्ज्ञेयं सर्वं क्षेत्रं ज्ञातैव क्षेत्रज्ञ इत्यवधार्यते। तस्मात्प्रमाणयुक्त्याख्यावष्टभान्तराभावात् केवलाविद्यावष्टम्भात् अविद्यादुःखित्वादेः,क्षेत्रज्ञधर्मत्वं तस्य च प्रत्यक्षोपलभ्यत्वमिति विरुद्धमुच्यते। ननु यया अविद्या विरुद्धमपि निर्वोढुं शक्यते तस्याः स्वातन्त्र्याभावात् चितोऽन्यस्य वास्तववस्तुनोऽविद्यसानत्वात् आविद्यकस्य च विद्यमानत्वेऽपि तस्य तत्कार्यतया तदाश्रयत्वासंभात् अविद्या कस्येति चेत्। किमाश्रयमात्रं पृच्छसि तद्विशेषं वा। आद्ये तस्यादृश्यत्वेन पारतन्त्र्यात् किंचिन्निष्ठैव दृश्यते। तथाच यमाश्रयते तस्यैव सेत्यतो नाश्यमात्रं प्रष्टव्यं तस्योपलभ्यमानमत्वात्। आश्रयविशेषस्योपलभ्यमानत्वादेव। न द्वितीयः। नहि गोमत्युपलभ्यमाने गावः कस्यति प्रश्नो युज्यते। ननु गवां तद्वतश्च प्रत्यक्षत्वात्तसंबन्धोऽपि प्रत्यक्ष इति तत्प्रश्नो यथा निरर्थकः तथाऽविद्यातद्वतोश्च प्रत्यक्षत्वाभावात्प्रश्नानर्थक्याभावात्। दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमिति चेदप्रत्यक्षेणाविद्यावताऽवित्यासंबन्धे ज्ञाते तव किं स्यात्। नन्वविद्याया अनर्थहेतुत्वात् परिहर्तव्या स्यादितिचेत् यस्यास्ति सा स तां परिहरिष्यति। ननु ममैवाविद्या तत्परिहारे मयैव प्रयतितव्यमितिचेत् तर्ह्यविर्यां तद्वन्तं चात्मानं जानासीत्यतः प्रश्नानर्थक्यम्। ननु जानन्नपि तद्विषयप्रत्यक्षाभावात्पृच्छामीतिचेत् अहमविद्यावानविद्याकार्यवत्त्वात् व्यतिरेकेण मुक्तात्मवदित्यनुमानेन चेज्जानासि तर्हि संबन्धग्रहणं कथं। ज्ञातैवात्मा स्वस्याविद्यासंबन्धं जानाति किंवान्यो ज्ञाता। नाद्यः। स्वस्याविद्यां प्रति ज्ञातृत्वकालेऽविद्याश्रयत्वेन गृहीतत्वात् तज्ज्ञातृत्वेनैवोपयुक्तस्यात्मनः कर्मकर्तृविरोधात्तस्याः स्वात्मनि संबन्धग्रहासंभवात्। न द्वितीयः। अनवस्थाप्रसङ्गात्। तथा चाविद्यादिकं ज्ञेयं ज्ञेयमेव ज्ञाता च ज्ञातैवातोऽविद्यादुःखित्वार्धैर्न ज्ञातुः क्षेत्रज्ञस्य किंचिद्दुष्यति। ननु दोषवत्क्षेत्रज्ञातृत्वमेवात्मनो दोष इतिचेत् किं ज्ञातृत्वं ज्ञानक्रियाकर्तृत्वं उत ज्ञानस्वरुपत्वम्। नाद्यः। तदनभ्युपगमेन तत्प्रयुक्तदोषाभावात्। द्वितीयं यथोष्णतामात्रेण व्हनेस्तापे तापयितृत्वोपचारस्तथा विज्ञानस्वरुपस्याऽविक्रियात्मनो विज्ञातृत्वोपचाराददोष इत्यलं विस्तरेण।
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्। स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥
।।13.4।।इदं शरीरमित्यादिनोपदिष्टस्य क्षेत्राध्यायार्थस्य संग्रहश्लोकं प्रतिपत्तिसौकर्यार्थमुपन्यस्याति -- तदिति। इदं शरीरमिति यन्निर्दिष्टं तत्तदा परामृशति। यच्चेदं निर्दिष्टं क्षेत्रं स्वरुपतो जडं स्तावरजंगमादिभेबैर्भिन्नं दृश्यत्वादिस्वभावं तत्। यादृक् च स्वकीयैधर्मैः यादृशं यत्प्रकारकं च यद्विकारि ये विकारा अस्य तत्। यतो यस्माच्च यत्कार्यमुत्पद्यत इति शेषः। यतश्च प्रकृतिपुरुषसंयोगाद्भवति। यदिति यैः स्तावरजंगमादिभेदैर्भिन्नमिति त्वाचार्यैर्यच्चेत्यस्मिन्नुक्तस्य यत्पदार्थस्यान्तर्भावाद्यत्पदवैयर्थ्यमभिप्रेत्य न व्याख्यातम्। अत्र चकाराः सर्वे समुच्चायार्थाः। सच क्षेत्रज्ञो यः निर्दिष्टः स्वरुपतः सच्चिदानन्दस्वभावः यत्प्रभावाः प्रभावा शक्तयो यस्य स तद्यथोक्तविशेषणविशिष्टक्षेत्रज्ञयाथात्म्यं समासेन संक्षेपेण मे मम वाक्यात् श्रृणु श्रुत्वाऽवधारयेत्यर्थः।
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्। ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥
।।13.5।।श्रोतृप्ररोचनाय क्षेत्रक्षेत्रज्ञयाथात्म्यं स्तौति -- ऋषिभिरिति। ऋषिभिर्वसिष्ठादिभिर्वासिष्ठातौ बहुधा बहुप्रकारं गीतं कथितम्। न केवलमाप्तोक्तमेव क्षेत्रादियाथात्म्ये प्रमाणमपितु छन्दांसीत्याह। छन्दोभिऋःगादिभिर्विविधैः शाखामेदेन नानाप्रकारैः पृथग्विवेकतो गीतम्। उक्तार्थे श्रुतिस्मृती प्रमाणमभिधाय युक्तमाह -- ब्रह्मेति। ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणिः तैः पद्यते ज्ञायते ब्रह्मेति तानि पदान्युचयन्ते तैरेवं क्षेत्रक्षेत्रज्ञयाथात्म्यं गीतं इत्यनुवर्तते। आत्मेत्येवोपासीतेत्येवमादिभिर्हि ब्रह्मसूत्रपदैः आत्मा ज्ञायते हेतुमद्भिर्युक्तियुक्तैः विनिश्चितेः न संशयरुपैः निश्चितप्रत्ययोत्पादकैः इति भाष्ये। आदिपदात्यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति? सत्यं ज्ञानमनन्तं ब्रह्म? तत्त्वमसि? ब्रह्मविदाप्नोति परं? न स वेद यथा पशुः इत्यादीनि सूत्रपदानि गृह्यन्ते। तथैच ब्रह्मसूत्राणि च तानि पदानीति भाष्योक्तलघुभूतकर्मधारयं विहाय ब्रह्मसूत्राणि च पदानि चेति समासो न प्रदर्शनीयः फलाभावात्। हेतुमद्भिर्युक्तियुक्तैःसदेव सोभ्येदमग्र आसीत्?कथमसतः सज्जायेत इति। तथाको ह्येवानयात्कः प्राण्यात् यदेश आकाश आनन्दो न स्यात्? एष ह्येवानन्दयति?अन्नेन सोम्य शुङ्गेनापोमूलमन्विच्छ अद्भिः सोभ्य शुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः प्रजाः इत्यादिभिः। यद्वाअथातो ब्रह्मजिज्ञासा इत्यादीन्यपि सूत्राण्यत्र गृहीतानि। अन्यथा छन्दोभिरित्यादिना पौनरुक्त्यादिति मत्वा विशिनष्टि। हेतुमद्भिरिति। यत् ऋष्यादिभिर्गीतं तत्सामासेन श्रृण्वित्यन्वयः।
महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च। इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥
।।13.6।।एवं क्षेत्रादियाथात्म्यस्तुत्याभिमुखीकृतायार्जनाय किं तदिति जिज्ञासवे यथोद्देशं क्षेत्रं निर्दिशति -- महाभूतानीति। सर्बविकारव्यापकत्वान्महान्ति च तानि भूतानि सूक्ष्माणि अहंप्रत्ययरुपोहंकारः महाभूतकारण बुद्धिरध्वसायलक्षणाहंकारकारणं न व्यकतव्यक्तं अव्याकृतमीश्वरशक्तिर्मायामायां तु प्रकृतिं विद्यात्?मम माया दुरत्यया इत्युक्ता। एवशब्दोऽवधारणार्थः। एतावत्येवाष्टधा भिन्ना प्रकृतिरित्यर्थः। चकारः मूलप्रकृत्या सह तन्मात्रादिभेदानां समुच्चयार्थः। इन्द्रियाणि दश श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि ज्ञानोत्पादकत्वाज्ज्ञानेन्द्रियाणि पञ्च? वाक्पाणिपादपायुपस्थाख्यानि कर्मनिर्वर्तकत्वात्मकर्मेन्द्रियाणि पञ्च एकं एकादशं संकल्पविकल्पात्मकं मनः पञ्चेन्द्रियाणां गोचराः विषयाः शब्दस्पर्शरुपरसगन्धाख्यगुणविशिष्टानि स्थूलभूतानीत्यर्थः। तान्येतानिमूलप्रकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त।,षोडशकस्तु विकारः इति वादिनः सांख्याश्चतुर्विशतितत्त्वानि व्याचक्षते।
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः। एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥
।।13.7।।एवं क्षेत्रस्वरुपनिर्देशेनैव तत्क्षेत्रं यच्च यादृक्चेति व्याख्यायेच्छादीनामात्मविकारत्वानिवृत्तये क्षेत्रविकारत्वनिरुपणेन यद्विकारीत्येतन्नरुपयन्नात्मगुणा इति यानाचक्षते वैशेषिकास्तेऽपि क्षेत्रधर्मा एव नतु क्षेत्रज्ञस्येत्याशयेनाह -- इच्छेति। इच्छा पर्वोपलब्धसुखहेतुसजातीये हेतौ उपलभमाने इदं मे स्यादिति स्पृहा। तथानुभूतदुःखहेतुसजातीये हेतावुपलभमाने इदं मे मा भूदिति चित्तवृत्तिर्द्वेषः। तथा प्रसन्नत्वात्मकमनुकूलं सुखं प्रतिकूलात्मकं देहेन्द्रियाणआं संहतिः संघातः। तस्मिन्नभिव्यक्तान्तःकरणवृत्तिरात्मचैतन्याभासानुविद्धा चेतना ययावसादप्राप्तानि देहेन्द्रियाणि ध्रियन्ते सा घृतिः। इच्छादिग्रहणं संकल्पविकल्पाद्यन्तःकरणधर्मोपलक्षणार्थम्। तथाच श्रुतिः -- कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्नीर्धीर्भीरित्येतत्सर्वं मन ए इति। तथा चेच्छादीनां ज्ञेयत्वाज्ज्ञेयान्तःकरणधर्मत्वप्रतिपादनेन श्रुत्या सर्वज्ञेन भगवता च वैशेषिकमतस्य हेयत्वं बोधितम्। क्षेत्रनिरुपणमुपसंहरति। एतत्क्षेत्रं सविकारं विकारेण महदादिना तद्विकारेण चेच्छादिना सहितं समासेन सेक्षेपेणोदाहृत्मुक्तं। यस्य क्षेत्रभेदजातस्य संहतिरिदं शरीरं क्षेत्रमित्युक्तं तत्क्षेत्रं महाभूतादिभेदभिन्नं धृत्यन्तं विरक्तस्य ज्ञानाधिकाराय वैराग्यार्थं व्याख्यातमित्यर्थः।
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्। आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥
।।13.8।।सप्रभावं क्षेत्रज्ञं यत्तदित्यादिना निरुपयितुं यस्मिन्त्सत्यममृतत्वसाधनक्षेत्रज्ञज्ञानायोग्योऽधिकृतो भवति तं तत्त्ज्ञानसाधनगणं आयुर्वै घृतमितिवज्ज्ञानममानित्वादिलक्षणं विदधाति -- अमानित्वमित्यादिना। विद्यमानाविद्यमानुणैरात्मनः श्लाघनं मानित्वं तद्वर्जितत्त्वममानित्वं? पूजालाभाद्यर्थ स्वधर्मानुष्ठानप्रकटीकरणं दम्भित्वं तस्याभावोऽदम्भित्वं? कायादिभिः प्राणिनामपीडनं अहिंसा? परापराधप्राप्तौ चित्तस्याविकृतता क्षान्तिः? आर्जवं ऋजुभावोऽवक्रत्वं? आचार्यस्य मोक्षासाधनोपदेष्टुः कायादिना शुश्रूषादिप्रयोगेण सेवनमाचार्योपासनं? शौचं कायमलानां मृज्जलाभ्यां प्रक्षालनं? अन्तश्च रागादिमलानां मोक्षप्रतिपक्षभावनयापनयः शौचम्। तथाच स्मृतिःशौचं हि द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा। मृज्जालाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथान्तरं इति। मोक्षामार्गे प्रवृत्तस्यानेकान्तरायप्राप्तावपि तन्निवृत्त्यर्थं प्रयत्नपुरःसरं तत्रैव कृतव्यवसायित्वं स्थैर्यम्? आत्मोपकारत्वादात्मनो हेहेन्द्रियादिसंघातस्य स्वभावेन सर्वतः प्रवृत्तस्य सर्वस्मान्मोक्षप्रतिकूलमार्गात्प्रतिरुध्य सन्मार्गे स्थापनमात्मविनिग्रहः। अमानित्वादीनामेतज्ज्ञानमिति प्रोक्तमित्यनेन संबन्धः।
इन्द्रियार्थेषु वैराग्यमनहंकार एव च। जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥
।।13.9।।किंचैहिकामुष्मिकेन्द्रियार्थेषु शब्दादिविषयेषु रागाभावो वैराग्यम्। अहं सर्वोत्तम इति मनसि प्रादुर्भूतो गर्वोऽहंकारस्तदभावोऽनहंकारः। गर्वस्योक्तानुक्तनाशकत्वादनहंकारस्यावश्यसंपाद्यत्वद्योतनार्थ अयोगव्ययवच्छेदार्थ एवकारः। समुच्चयार्थश्चकारः। तेनामानित्वादीनां विंशतिसंख्याकानां समुच्चितो योग एव ज्ञानमिति प्रोक्तं नत्वेकस्याप्यभाव इत्यर्थ इति केचित्। आचार्यैस्तु सुगमत्वादव्ययार्थः सर्वत्र न प्रदर्श्यते। जन्ममृत्युजराव्याधिदुःखदोषानुर्दशनं जन्मादिषु दुःखान्तेषु प्रत्येकं दोषानुदर्शनम्। यद्वा दुःखान्येव दोषो दुःखदोषस्तस्य जन्मादिषु दर्शनमालोजनं जन्मादयो दुःखनिमित्तत्वाद्दुःखं दुःखानि पुनः स्वरुपेणैव दुःखमित्येवं जन्मादिषु दुःखदोषानुदर्शनाद्देहेन्द्रियादिविषयाणां भोगेषु वैराग्यमुपजायते। ततश्चात्मदर्शनाय प्रत्यगात्मनि करणानां प्रवृत्तिर्भवतीत्येवं ज्ञानहेतुत्वाज्जन्मादिषु दुःखदषानुदर्शनं ज्ञानमुच्यते। तथाचोक्तं विष्णुपुराणे -- आध्यात्मिकादि मैत्रेय ज्ञात्वा तापत्रयं बुधः। उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम्। आध्यात्मिको वै द्विविधः शारीरो मानसस्तथा। शारीरो बहुभिर्मेदैर्भिद्यते श्रयतां च सः। शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः। गुल्मार्शःश्वासश्वयथुच्छर्द्यादिभिरनेकधा। तथाक्षिरोगातीसारकुष्ठाङ्गमयसंज्ञिकैः। भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि। इत्येवमादिकैर्भेदैस्तापो ह्यात्धात्मिकः स्मृतः। मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः। सरीसृपाद्यैश्च नृणां जन्यते चाधिभोतिकः। शीतोष्णवातवर्षाम्बुविद्युदादिसमुद्भवः। तापो द्विजवरश्रेष्ठ कथ्यते चाधिदैविकः। गर्भजन्मजराज्ञानमृत्युनारकजं तथा। दुःखं सहस्त्रोशो भेदैर्भिद्यते मुनिसत्तम्। सुकुमारतुनुर्गर्भे जन्तुर्बहुमलावृते। उल्बसंवेष्टितो भग्नपृष्ठग्रीवास्थिसंहतिः। अत्यम्लकटुतीक्ष्णोष्णलवणैर्मार्तुभोजनैः। अतितापिभिरत्यर्थ वर्धमानातिवेदनः। प्रसारणाकुञ्चनादेर्नाङ्गानां प्रभुरात्मनः। शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः। निरुच्छ्वासः सचैतन्यः स्मरञ्जन्मशतान्यथ। आस्ते गर्भेऽतिदुःखेन निजकर्मनिबनधनः। जायमानः पुरीषासृङ्यूत्रशुक्राविलाननः। प्राजापत्येन वातेन पीज्यमानावस्थिबन्धनः। अधोमुखो वै क्रियते प्रबलैः सूतिमारुतैः। क्लेशैर्निष्कान्तिमाप्नोति क्रकचैरिव दारितः। पूतिव्रणान्निःपतितो धरायां कृमिको यथा। जराजर्जरदेहश्च शिथिलावयवः पुमान्। विगलच्धीर्णदशनो वलीस्त्रायुशिरावृतः। दुरप्रनष्टनयनो व्योमान्तर्गततारकः। नासाविवरनिर्यातलोमपुञ्जश्र्चलद्वपुः। प्रकटीकृतस्थिर्नतपृष्टास्थिसंहतिः। उत्सन्नजढराग्नित्वाल्पाहारो विचेष्टितः। कृच्छ्रचंक्रमणोत्थानशयनासनचेष्टितः। मन्दीभवच्छ्रोत्रनेत्रः स्त्रवल्लालाविलाननः आपन्नैस्तः समस्थैश्च करणऐर्मरणोन्मुखः। तत्क्षणेऽप्यनुभूतानामस्तार्ताखिलवस्तुनाम्। सकृदुच्चरिते वाक्ये समुद्भूतमहाश्रमः। श्वासकासमहायामममुद्भूतप्रजागरः। अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी। भृत्यात्मपुत्रदाराणामवमानास्पदीकृतः। संस्मरन्योवने दीर्घं निश्वसत्यतितापितः।,एवमादीनि दुःखानि जरायामनुभूय वै। मरणे यानि दुःखानि जरायामनुभूय वै। मरणै यानि दुःखानि प्राप्नोति श्रृणु तान्यपि। श्वथग्रीवाङ्गिस्तोऽथ व्याप्तो वेपथुना भृशम्। मुहुर्ग्लान्या परवशो मुहुर्ज्ञानलवान्वितः। हिरण्यधान्यकास्योग्रैश्छिद्यमानास्तिबन्धनः। एते कथं भविष्यन्ति ममेति ममताकुलः। मर्मभिद्भिर्महारोगैः क्रकचैरिव दारुणैः। शरैरिवान्तकास्योग्रेश्छिद्यमानास्थिबन्धनः। विवर्तमानताराक्षिर्हस्तं पादं मुहुः क्षिपन्। संशुष्यमाणताल्वौष्ठकण्ठो घुरघुरायते। निरुद्धकण्ठो दोषौघैरुदानश्वासपीडितः। तापेन महता व्याप्तस्तृषा चार्तस्तथा क्षुधा। कल्शादुत्क्रान्तिमाप्नोति याम्यकिंकरपीडितः। ततश्च यातनादेहं क्लेशेन प्रतिपद्यते। एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम्।।35।। इत्यादि भाष्यस्योपलक्षणार्थत्वेन जन्मादिषु दुःखदोषयोरनुदर्शनं जन्ममृत्युजराव्याधिदुःखदोषाणामनुदर्शनमिति वा। दोषश्च वातपित्त श्लेष्ममलमूत्रादिपरिपूर्णत्वेन कायजुगुप्सतत्वरुपः दैन्यादिरुपश्चेत्यपि बोध्यम्।
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु। नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥
।।13.10।।किंचासक्तिः सङ्निमितेषु विषयेषु प्रीततिमात्रस्याभावः। अनभिष्वङ्गः अन्यस्मिन्पुत्रादौ सुखिनि वा जीवति मृते वाहमेव सुखी दुःखी च जीवामि मरिष्यामीति चेति। पुत्रादिषु तादात्म्यभावनालक्षणस्याभिष्वङ्गस्याभाव। आदिपदादन्यदप्यत्यन्तेषं दासपश्वादिकं गृह्यते। इष्टा नामनिष्टानां चोपपत्तिषु प्राप्तिषु नित्यं सर्वदा समचित्तत्वं इष्टोपपत्तिषु हर्षस्यानिष्टोपपत्तिषु कोपस्य च वर्जनं तच्चैतन्त्रयमपि ज्ञानान्तरङ्गसाधनत्वाज्ज्ञानमित्यर्थः।
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी। विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥
।।13.11।।किंच मयि परमेश्वरेऽनन्ययोगेन नान्यो भगवतो वासुदेवात्परोऽस्त्यतः स एव नो गतिरित्येवं निश्चिताऽव्यभिचारिणी बुद्धिरनन्ययोगोऽपृथक्समाधिस्तेन भजनं भक्तिः केनापि कारणेन न व्यभिचरणशीलाऽव्यभिचारिणई। सा च ज्ञानान्तरङ्गसाधनत्वाज्ज्ञानम्।येषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मानुपयान्ति ते।वासुदेवे भगवति भक्तियोगः प्रयोजितः। जनयत्याशु वैराग्यं ज्ञानं यत्तदहैतुकम् इत्युक्तेः। विविक्तं स्वभावतः संस्कारेण वा अशुच्यादिभिः सर्पव्याघ्रादिभिश्च वर्जितं वननदीतटदेवालयादिदेशं सेव्रितं शीलमस्येति विविक्तदेशसेवी तस्य भावो विविक्तदेशसेवित्वम्। यतो विविक्तात्मभावनाचित्तप्रसादहेतुभूतेषु विविक्तदेशेषु सिध्यत्यतो विविक्तदेशसेवित्वं ज्ञानसाधनत्वाज्ज्ञानम्। तथाच श्रुतिःसमे शुौ शर्करवह्निवालुकाविवर्जिते शब्दजलाशयादिभिः। मनोकूले नतु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत् इति। जनानां प्राकृतानां विषयलम्पटानां अविनीतानां कालहोन्मिषितचित्तानां संसत्समवायस्तत्रारतिरप्रीतिर्नतु संस्कारवतां विनीतानां तत्त्वविदां संसदि। तस्याः ज्ञानोपकारकत्वात्। तथाचोक्तंसङ्गः सर्वात्मना हेयः स चेत्यक्तुं न शक्यते। स सद्भिः सह कर्तव्यः सन्तः सङ्गस्य भषजम् इति।
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्। एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥
।।13.12।।किंचात्मानधिकृत्य प्रवृत्तमात्मानात्मविवेकज्ञानमध्यात्मज्ञानं तस्मिन्नित्यभावो नित्यत्वं सततं तत्रैव निष्ठावत्त्वमध्यात्मज्ञाननित्यत्वम्। अमानित्वादिसाधनानां यत्नेन साधितानां प्रकर्षपर्यन्तत्वमिमित्तं तत्त्वज्ञानम्। तदिति सर्वनाम। सर्वं च ब्रह्म तस्य नाम तदिति तस्य ब्रह्मणो भावो याथात्म्यं तस्य ज्ञानं तत्त्वज्ञानंसत्य ज्ञानमनन्तं ब्रह्म? एकमेवाद्वितीयं? नेह नानास्ति किंचन? वाचारम्भणं विकारो नामधेयम् इति श्रुत्युक्तस्य ब्रह्मजगतो याथात्म्यस्य ज्ञानं तत्त्वज्ञानमिति वा तस्यार्थः प्रयोजनं सर्वानर्थनिवृत्तिपरमानन्दप्राप्तिस्वरुपो मोक्षस्तस्य दर्शनम्।न स पुनरावर्तते? इति श्रुत्यायद्गत्वा न निवर्तन्ते तद्धाम परमं मम इति स्मृत्या च तस्यैव नित्यत्वबोधनात्।तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पिण्यचितो लोकः क्षीयते इत्यादिश्रुत्या प्रत्यक्षादिना च धर्मार्थकामानामनित्यत्वागममाच्च मोक्षएव सर्वोत्कृष्टत्वात्परमपुरुषार्थः स च तत्त्वज्ञानस्य फलं नान्यस्य।तरति शोकमात्मवित्तमेव विदित्वादिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय इत्यादिश्रुतेतरित्येवं तत्त्वज्ञानार्तालोचने हि तत्साधनानुष्ठाने प्रवृत्तिर्भवति। एतदमानित्वादितत्त्वज्ञानार्थदर्शनान्तं विंशतिसंख्याकं ज्ञानसाधनत्वाज्ज्ञानमिति प्रोक्तं श्रुतिस्मृतीहासपुराणादिषु प्रकर्षेणोक्तं कथितम्। अतोऽस्माद्यथोक्तादन्यथा च। जन्ममृत्युराव्याधिदुःखदोषाप्रदर्शनम्। तथासक्तिरभिष्वङ्गः पुत्रदारगृहादिषु। नित्यं चासमचित्तत्वमिष्टानिष्टोपपत्तिषु। मयि नानन्ययोगेन भक्तिरव्यभिचारिणी। विकीर्णदेशसेवित्वमरतिर्जनसंसदि। नाध्यात्मज्ञानित्यत्वं ज्ञानार्थादर्शनं तथा। इत्येतज्ज्ञेयज्ञानं हेयं संसारकारणम्। तथा चैतत्परित्यागेन संसारोपरमायामानित्वादिकमुपेयमिति भावः।
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते। अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥
।।13.13।।यथोक्तज्ञानसाधनेन ज्ञानशब्दितेन ज्ञेयं किमित्याकाङ्क्षायामाह -- ज्ञेयमिति। उक्तज्ञानसाधनपरिपाकलब्धसाक्षात्कारवृत्तिविषयं ज्ञेयं। नचैवमन्तःकरणवृत्तिविषयत्वेन ब्रह्मणो दृश्यत्वं तस्य वृत्तिविषयत्वेन ज्ञेयत्वेऽपि फलविषयत्वाभावेन दृश्यत्वाभावात्। तथाच श्रुतिःस वेत्ति वेद्यं न च तस्यास्ति वेत्ता? विज्ञातारमरे केन विजानीयात् इत्याद्या। ज्ञेयं यत्तत्प्रकर्षेण यथावत् वक्ष्यामि। फलप्रदर्शनेन श्रोतारं रोजयन्नभिमुखीकरोति। यज्ज्ञेयं ज्ञात्वाऽमृतमपुनरावृत्तिलक्षणं मोक्षमश्रुते। मुक्तो भवतीत्यर्थः। किं तदित्यत आह। अनादिमत् आदिरस्यास्तीत्यादिमत् नादिमदनादिमत् परं निरतिशयं ब्रह्म ज्ञेयमित्यर्थः। यत्तु अनादिमदिति च्छेदे बहुव्रीहिणोक्तेऽर्थे मतुप,आनर्थक्यप्रसङ्गादुक्तार्थानामप्रयोगीदितिन्यायात् मत्परमिति च्छेदः। अहं वासुदेवाख्या परा शक्तिर्यस्य तस्मत्परमित्यर्थ इति तन्न। न सत्तन्नासदुच्यत इति सर्वविशेषप्रतिषेधेन विजिज्ञापयितत्वेन विशिष्टशक्तिमत्त्वप्रदर्शनस्य विप्रतिषिद्धत्वेनोक्तार्थासंभवात्। तस्मान्मतुपो बहुब्रीहिसमानार्थत्वेऽप्यतिशायने नित्ययोगे वा श्लोकपूरणार्थः प्रयोगः। ननु मम विष्णोः परं निर्विशेषं रुपं मत्तः सगुणात् ब्रह्मणः परमिति वा। यद्वा आदिमच्च ततः परं चादिमत्परे कार्यकारणे ताभ्यामन्यदनादिमत्परिमित्येवं मतुपः सार्थकत्वसंभवे किमित्याचार्यैरेवमुक्तमिति वा। यद्वा आदिमच्च ततः परं चादिमत्परे कार्यकारणे ताभ्यामन्यदनादिमत्परामित्येवं मतुपः सार्थकत्वसंभवे किमित्याचार्यैरेवमुक्तमिति चेत् परमिति विशेषणादेव सगुणात्परस्य निर्विशेषस्य लाभेन मत्पदवैयर्थ्यं मत्तः सगुणात् ब्रह्मणः परमिति वा। यद्वा आदिमच्च ततः परं चादिमत्परे कार्यकारणे ताभ्यामन्यदनादिमत्परमित्येवं मतुपः सार्थकत्वसंभवे किमित्याचार्यैरेवमुक्तमिति चेत् परमिति विशेषणादेव सगुणात्परस्य निर्विशेषस्य लाभेन मत्पदवैय्त्यं मत्तः परतरं नान्यदित्यादिना विरोधं परपदस्य पूर्वनिपातापत्तिं कार्यकारणान्यत्वस्य न सदित्यादिविशेषणेऽन्तर्भावं चाभिप्रेत्येति गृहाण। एतेनानादिमत्परिमित्येकं पदम्। अनादिर्माया तद्वतो मायावच्छिन्नादनाद्यज्ञानवतो जीवात्परं निर्मायज्ञानकृतजीवत्वोपाधिरहितं चेत्येवमादि यत्किंचित्कल्पमस्मदादिभिः क्रियमाणमपि हेयं परमिति विशेषणैवोक्तार्थस्य लाभेनानादिमत्पदस्य वैयर्थ्यात्। अनादिमत्परं ब्रह्म ज्ञेयमृतत्वफलं मयोच्यत इति प्ररोजनेनाभिमुखीकृत्याह। सत् कार्यमभिव्यक्तनामरुपत्वात् असत् कारणं तद्विपर्ययात्। तथा च तज्ज्ञेयं सन्नोच्यते नाप्यसदुच्यते। ननु ज्ञेयं वक्ष्यामिति महता कण्ठवेणोद्धुष्य न सत्तन्नासदुच्यत इत्यननुरुपमुक्तमितिचेन्न। स्वयंज्योतीरुपस्य परब्रह्मणः विधिमुखेनोपदेशायोगादध्यस्तातद्धर्मनिवृत्तये निषेधद्वारोपदेशस्य श्रुतिषु प्रसिद्धेरारेपितविशेषनिषेधरुपस्य प्रवचनस्य प्रतिज्ञानुरुपत्वात्। तथाच श्रुतयःअथात आदेशो नेतिनेति? अस्थूलमनणु? अपूर्वमनपरम् इत्यादयः। एवंच ज्ञेयस्य ब्रह्मणो वाचो गोचरत्वात् श्रुत्यादौ निषेधमुखेनैवोपदेशो नत्विदं तदिति विधिमुखेनेति भावः। ननु ब्रह्मणोऽस्तिशब्दावाच्यत्वे नास्तिशब्दवाच्यशशविषाणवन्नास्तित्वप्रसङ्ग इति चेन्न। शशश्रृङ्गवद्ब्रह्मणो नास्तिधीविषयत्वाभावात्। ननु सर्वासां बुद्धीनामस्तिनास्तिनास्तित्वानुगतत्वेन ब्रह्मणोऽन्यतरबुद्य्धविषयत्वेनानिर्वाच्यत्वं दुर्वारमितिचेन्न। इन्द्रियग्राह्यघटादेरुभयबुद्धिविषयाद्विलक्षणस्यातीन्द्रियस्य ब्रह्मणस्तदविषत्वेति शब्दैकप्रमाणगम्यत्वेन ज्ञेयत्वानपायात्। किंच गौरश्व इति वा जातितः? पचति पठतीति वाक्रियातः? शुक्लः कृष्ण इति वा गुणतो? धनी गोमानिति वा संबन्धतः सर्वो गवादिशब्दोऽर्थ प्रत्याययति। ननु ब्रह्म जात्यादिमदतो न सदादिशब्दावाच्य। तथाच श्रुतःअगोत्रमवर्णं? निष्क्रियं शान्तं? केवलो निर्गुणश्च? एकमेवाद्वितीयम् इत्याद्याः। तथाचाविषत्वादात्मत्वात्केनापि शब्देन मुख्यया वृत्त्या ब्रह्म नोच्यत इति युक्तम्।यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इत्यादिश्रुतिभ्यश्च।तं त्वौपनिषदं पुरुषं पृच्छामि इत्यत्र तु निषेधमुखोपदेशेनोपनिषत्प्रतिपाद्यमित्यर्थ इत्यविरोधः। यत्तु पूरणार्थात्पृ़ इत्यस्माद्धातो परशब्दव्युत्पत्तेः परं पूर्णं त्रिविधपरिच्छेदशून्यं। ननु देशकालवस्तूनामद्वैतमतेऽसत्त्वात्कुतस्तत्कृतच्छेद इत्याशङ्क्याविद्याविलासत्वं देषां वक्तुं ब्रह्म विशिनष्टि -- अनादिमदिति। अनादि अज्ञानं तद्वत्तसंबन्धीत्यर्थः। तेन देशादीनां संभव इति भावः। नन्वयं शान्तिकर्मणि वेदालोदयः यदज्ञानमेवानादिदितीयमङ्गीक्रियत इत्याशङ्क्याज्ञानं विशिनष्टि -- न सदिति। तदज्ञानं न सदुच्यते बाध्यतया सत्त्वेनानिरुपणात्। तथा नासदुच्यते अपरोक्षतया प्रतीतेरस्तस्यानर्वचनात्। भुजंगेनेव रज्जुर्नाज्ञानेन ब्रह्म सद्वितीयमिति भावः। यद्वास्मिन्व्याख्याने द्वितीयनकारवैयर्थ्याद्ब्रह्मैव विशेषणीयं तद्ब्रह्म न सन्नासदिति नोच्यतेऽनिर्वचनीयं न भवति। सत्त्वेन निरुपणादतोऽर्थादनाद्यज्ञानमेवानिर्वचनीयमित्यर्थ इति तच्चिन्त्यम्। ज्ञेयप्रवचनं प्रतिज्ञायाज्ञाननिरुपणस्यानौचित्यात्। अज्ञानवतो जीवस्य ज्ञातत्वेन ज्ञेयत्वाभावात् ब्रह्म विशेषणीयमिति पक्षे तत्सदुच्यते इत्येतावतैव निर्वाहेऽवशिष्टस्य वैयर्थ्यापत्तेःनासदासीन्नो सदासीत् इत्यादिश्रुत्या विरोधापत्तेश्चेति दिक्।
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्। सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥
।।13.14।।ननु सर्व विशेषरहितस्य वागाद्यगोचरस्य सच्छब्दाविषयत्वादसत्त्वाशङ्कायां न सदित्यनेन संक्षेपतः समाहितायामपि प्रत्यक्त्वेनेन्द्रियप्रवृत्त्यादिहेतुत्वेन कल्पितद्वैतसत्तास्फूर्तिप्रदत्वेन च ज्ञेयस्यास्तित्वं प्रतिपादयन्नादौ यथाऽचेतनानां रथादीनां चेतनाधीना प्रवृत्तिस्तथा सर्वप्राणिकरणानामचेतनानां तच्च प्रत्यक्चैतन्यं ब्रह्मैवेति विस्तरेण तदाशङ्कानिवृत्त्यर्थमाह। सर्वतः सर्वत्र पाणयो हस्ताः पादाश्च यस्य तत् ज्ञेयं तथा तद्यपि पाण्यदीनां देहस्थत्वेनात्मधर्मत्वं तथापि करणप्रवृत्तिश्चेतनाधिष्ठानपूर्विका प्रेक्षापूर्वकप्रवृत्तित्वात् रथादिप्रवृत्तिवदिति सर्वप्राणिकरणोपाधिभिः क्षेत्रज्ञास्तित्वं विभाव्यते। ननूक्तरीत्या चेतनास्तित्वमिद्धावपि कथं क्षेत्रज्ञास्तित्वमितिचेत् चेतन एव क्षेत्रोपाधितः क्षेत्रज्ञ इत्युच्यते इत्यतस्तदस्तित्वं क्षेत्रज्ञास्तित्वमेव। ननु क्षेत्रोपाधितश्चैतन्यस्य क्षेत्रज्ञत्वेऽपिपाण्यादिमत्त्वं कथमितिचेत्। क्षेत्रस्य पाण्यादिभिरनेकधाभिन्नत्वेन तदुपाधितः क्षेत्रज्ञस्यापि पाण्यादिमत्तायाः सुवचत्वात्। न सत्तन्नासदुच्यत इति निर्विशेषत्वेन ज्ञेयत्वोक्तिस्तु क्षेत्रोपाधिकृतस्य विशेषजातस्य मिथ्यात्वात्। क्षेत्रज्ञस्य तदपनयेन सुवचा। ननु पाण्यादिमत्त्वस्यैवोपाधिकृतस्य मिथ्यात्वात् ज्ञेयप्रवचनाधिकारे तदुक्तिरपार्थेति चेन्न। ज्ञेयास्तित्वबोधनाय ज्ञेयधर्मवत्परिकल्प्यतथाभूतपाण्याद्युक्तेः सार्थकत्वात्। तदुक्तं संप्रदायविद्भिःअध्यारोपापवादाभ्यां निष्प्ररञ्चं प्रपञ्चयते इति। सर्वतोक्षीणि शिरांसि मुखानि च यस्य तत्। सर्वतः,श्रुतिः श्रवणेन्द्रियमस्त्यस्य तत् पाणिपादमुखवत्त्वमवशिष्टकर्मेन्द्रियवत्त्वस्याक्षिश्रुतिमत्त्वं चावशिष्टज्ञानेन्द्रियत्त्वस्य मनोबुद्य्धादिमत्त्वस्य चोपलक्षणम्। सर्वत्र सर्वदेहावयवत्वेन गम्यमानाः पाणिपादातयो ज्ञेयस्य परमात्मनः सन्निधिमात्रेण प्रवर्तनसमर्थस्य सत्त्वं निमीत्तीकृत्य स्वकार्यवन्तो भवन्तीत्यतो ज्ञेयसद्भावलिङ्गानि ज्ञेयस्येत्युपचारत उच्यते। लोके सर्वप्राणिसमुदाये सर्वं चराचरं सत्तादिनाध्यासिकसंबन्धेनावृत्य संव्याप्य तिष्ठति निर्विशेषामेव स्थितिं लभते नतु चलति। अध्यारोपितसविशेषप्रपञ्चने स विशेषत्वं नैव लभत इत्यर्थः।
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्। असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥
।।13.15।।अपाधिभूतपाण्यादीन्द्रियाध्यारोपणं विना ज्ञयस्य साक्षादेव तद्वत्ताभ्रमनिरासायाह -- सर्वेति। सर्वाणि च तानीन्द्रियाणि श्रोत्रवागादीनि बुद्धीन्द्रियकर्मेन्द्रियाणि ज्ञेयोपाधित्वस्य तुल्यत्वात् अन्तःकरणोपाधिद्वारेणैव श्रोत्रादीनामप्युपाधित्वाच्च सर्वेन्द्रिग्रहणेनान्तःकरणे बुद्धिमनसी अपि गृह्येते। तताजान्तःकरणबहिःकरणव्यापार उपलक्ष्यते इति श्रुत्यर्थः। व्यापृतमेव ब्रह्मेति भ्रमनिराकरणायाह। सर्वेन्द्रियविवर्जितं विशेषेण कालत्रयेऽपि सर्वकरणरहितमतो न करणव्यापारैः वस्तुतो व्यापृतं तज्ज्ञेयमित्यर्थः। ननुअपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः। स वेत्ति वेद्यं नच तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तरम् इत्यादिमन्त्रेण साक्षादेव ज्ञेयस्य वेगवद्विहरणादिक्रियावत्ताप्रतीत्या कुचोऽस्य करणव्यापारैः व्यापृतत्वमेव न व्याख्यायत इतिचेत्। ध्यायतीवेतिश्रुत्यनुसारेण मन्त्रस्यापि सर्वेन्द्रियोपाधिगुणानुगुण्यभजनशक्तिमत् ज्ञेयमत्येव प्रदर्शनार्थत्वेनान्धो मणिमविन्ददित्यादिमन्त्रार्थवादवदस्यार्थवादस्य श्रुतेः साक्षादेव चवादिक्रियावत्त्वरुपेऽर्थे तात्पर्याभावेन प्रकृतेः प्रतिकूलताया अभावात्। सर्वकरणविवर्जितत्वादक्तं सर्वसङ्गविनिर्मुक्तंअसङ्गो हीति श्रुतेः। वस्तुतः सर्वसङ्गविवर्जितमपि सर्वाधिष्टानमित्याह। सर्वभृच्चैव स्वसत्तामात्रेणाधिष्ठानतया सर्वं पुष्णातीत्यर्थः। तथाचायं प्रयोगः। विमतं सत्यध्यस्तं प्रत्येकं तदनुविद्धधीबोध्यत्वात् प्रत्येकं चन्द्रानुविद्धधीबोध्यचन्द्रभेदवदिति। तथाच सर्वस्यापि व्यावहारिकप्रातिभासिकपदार्थजातस्य निरास्पदत्वाभावात् विचार्यमाणँ तस्य सदास्पदत्वात् सर्वभृज्ज्ञेयमित्यर्थः। सर्वाधिष्ठानत्वेऽपि वस्तुतस्तस्य निर्गुणत्वमाह। निर्गुणं गुणऐः सत्त्वरजस्तमोभिः शून्यं तज्ज्ञेयम्। यद्यप्येवं तथापि मायाय गुणभोक्तृ च। गुणानां सत्त्वादीनां शब्दारिद्वारेण सुखदुःखमोहाकारेण परिणतानां भोक्तृ उपलब्धृ ज्ञेयं ब्रह्मेत्यन्वयः।
बहिरन्तश्च भूतानामचरं चरमेव च। सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥
।।13.16।।इतोऽपि ज्ञेयस्य ब्रह्मणोऽस्तित्वं ज्ञातव्यमित्याशयेनाह -- बहिरिति। त्वक्पर्यन्तं देहमात्मत्वेनाविद्याकल्पितमपेक्ष्य तमेवावाधिं कृत्वा बहिरुच्यते। तता प्रत्यगात्मानमपेक्ष्य देहमेवावधिं कृत्वान्तरुच्यते। तथाच भूतेभ्यो बहिर्बाह्यं विषयाद्यात्मकं भूतानां चराचराणामन्तर्मध्ये प्रत्यग्भूतं ज्ञेयमित्यर्थः। मध्ये प्राप्तमभावं वारयति। अचरं चरमेवच। यन्मध्ये भूतात्मकनानाविधदेहात्मना भासमानमपि तदेव ज्ञेयं यता रज्जौ भासमानः सर्पो रज्जुरेव तथासति ज्ञेये भासमानं ज्ञेयमेवेत्यर्थः। यद्येवं तर्हि सर्वैरिदमिति किमर्थं न विज्ञेयमिति चेत्तत्राह। शूक्ष्मत्वात्तदविज्ञेयं। यथा आम्रादिगते रुपे चक्षुषा दृश्यमानेऽप्ययोग्यत्वात्तत्स्थिं रसादि तेन न दृश्यते तथा सर्वात्मकमपि ज्ञेयं सर्वस्मिञ्ज्ञातेप्याकाशवदतीन्द्रित्वात् तज्ज्ञेयमविज्ञेयम्। एतेन घटादिज्ञानेन ब्रह्मज्ञानमपि स्यात् घटाद्यात्मकत्वाद्ब्रह्मण इति शङ्कापि निरस्ता। अतएवाविदुषां तत्प्राप्तिसाधनशून्यानामविज्ञाततया दूरस्थं वर्षसहस्त्रकोट्याप्यप्राप्यत्वात्। अन्तिके च तत्। विदुषां तुआत्मैवेदं सर्वं ब्रह्मैवेदं सर्वम् इत्यादिप्रमाणतो नित्यविज्ञाततया स्वात्मभूतत्वाद्य्ववधानरहितमित्यर्थः। तथाच श्रुतिःतदेजति तन्नैजति तद्दूरे तद्विन्तिके। तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः। दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् इत्याद्या।
अविभक्तं च भूतेषु विभक्तमिव च स्थितम्। भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥
।।13.17।।किंचेतोऽपि ज्ञेयास्तित्वमित्याह। अविभक्तं विभागशून्यं प्रतिदेहं व्योमवदेकं तद्भेदे मानाभावाद्भिन्नत्वे च घटवदनात्मत्वापातात्। तथाच श्रुतिःएकमेवाद्वितीयं नेह नानास्ति किंचन। मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति इत्याद्या। तेन प्रतिदेहं भिन्न आत्मेति सांख्यादिमतं श्रुतिस्मृतिविरुद्धं नादर्तव्यम्। कथं तर्हि भेदबुद्धिरित्याशंक्य कल्पनयेत्याह। भूतेषु सर्वप्राणिषु विभक्तमिव च स्थितं मिथ्याभूतभेदवत्प्रतीतं जलमात्रेषु चन्द्रावद्देहेष्वेव विभाव्यमानत्वात्।एकएव तु भूतात्मा भूतेभूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् इतिश्रुतेः। एव ज्ञेयस्य प्रत्यगात्मत्वेनास्तित्वमभिधाय परमेश्वरात्मनास्तित्वमाह। भूतभर्तृ च स्थितिकाले तज्ज्ञेयं। भूतानि बिभार्ति धारयति पालयति चेति तत्प्रलयकाले तदेव ग्रसिष्णु ग्रसनशीलं उत्पत्तिकाले प्रभविष्णु प्रभवनशीलं यथा कल्पितसर्पादीनां स्थितिकाले रज्जवादिरेव तान्बभर्ति। बाधकाले च ग्रसिष्णुरुत्पत्तिकाले च प्रभविष्णुरित्यर्थः। तेन कार्यकारणत्वस्य वस्तु त्वाद्द्वतमिति न शङ्कनीयम्।
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते। ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥
।।13.18।।सर्वत्र विद्यमानं सन्नोपलभ्यते चेज्ज्ञेयं तर्हि तम इति भ्रमनिवृत्त्यर्थमाह -- ज्योतिषमिति। ज्योतिषामादित्यादीनां बुद्य्धादीनामपि तज्ज्ञेयं ज्योतिस्तेषामात्मचैतन्यज्योतिरिद्धदीप्तिमत्त्वात्।येन सूर्यस्तपति तेजसेद्धः?न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोयमग्निः। तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति।यदादित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्दि मामकम् इत्यादिश्रुतिस्मृतिभ्यः ज्ञेयस्य ज्योतिःस्वरुपत्वेऽपि,तमःस्पष्टत्वभ्रमं वारयति। तमसो ज्ञानात्परमसंस्पृष्टमुच्यते।अदित्यवर्ण तसमः परस्तात् इत्यादिश्रुतिभिः कथ्यत इत्यर्थः। किंच ज्ञाततेऽनेनेति ज्ञानममानित्वादि। ज्ञेयं यत्तत्प्रवक्ष्यामीत्यादिनोक्तं ज्ञेयमेव सत् ज्ञातं ज्ञानफलमिति ज्ञानगम्यमुच्यते। ज्ञायमानं तु ज्ञेयम्। अतो ज्ञेयपदेन ज्ञानगम्यत्वान्न पौररुक्त्यम्। ज्ञानं ज्ञेयं ज्ञानगम्यमित्येतन्त्र्यं सर्वस्य प्राणिजातस्य हृदि बुद्धौ विष्ठितं विशेषेण स्थितं। धिष्ठितमिति पाठस्त्वाचार्यैरनादृतत्वादपपाठः। दुःसंपादनबुद्य्धा प्राप्तावसादस्य ज्ञानादेः पकटीकरणार्तं ज्ञानादेः दुःसंपादनबुद्य्धा प्राप्तावसादस्यार्जुनस्याश्वसनार्थे वा ज्ञेयप्रवचनोत्तरं भगवतेदमुक्तं हृदि विष्ठितमिति। बुद्धावेव तेषामनुभूयमानत्वात्। ननु तदेव वृत्तावभिव्यक्तं संविद्रूपं ज्ञानं रुपाद्याकारेण ज्ञेयं सर्वस्य प्राणिजातस्य हृदि बुद्धौ विष्ठितं सर्वत्र सामान्येन स्थितमपि विशेषरुपेण तत्र स्थितमभिव्यक्तजीवरुपेणान्तर्यामिरुपेण चेत्याचार्यैः कुतो न व्याख्यामिति चेत्सुगमत्स्वोक्तार्थे स्वरसाधिक्यादुक्तार्थस्य बहिरन्तश्च भूतानामित्यादावन्तर्भावाच्चेति गृहाण। अन्तर्भावप्रकारश्च बहिर्भुतेभ्यो बाह्यं रुपाद्याकारमन्तर्भूतानां हृदि अभिव्यक्तजीवरुपेणान्तर्यामिरुपेण च स्थितं ज्योतिषामपि तज्जयोतिर्वृत्त्याभिव्यक्तसंविदादिरुपेण बुद्य्धादीनां प्रकाशकमित्येवंरित्या बोध्यः।
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः। मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥
।।13.19।।प्रतिज्ञातार्थमुपपाद्योपसंहरति -- इतीति। इत्येवं क्षेत्रं महाभूतादिधृत्यन्तं? तथा ज्ञानममानित्वादि तत्त्वज्ञानार्तदर्शनावसानं? ज्ञेयं च ज्ञेयं यत्तदित्यादि तमसः परमुच्यत इत्येवमन्तमुक्तं। हृदि सर्वस्य विष्ठितमित्यन्तमित्याधुनिकानामुक्तस्तु नादर्तव्या। ज्ञानादेर्ज्ञेयप्रवचनपरत्वेऽस्वरसस्योक्तत्वात्। वसिष्ठादिभिर्यद्विस्तरेण गीतं तत्समासतः संक्षेपतो मया प्रतिपादितं एतावानेव सर्ववेदार्थो गीतार्थश्चातः संक्षिप्य भगवतोपसंहृत्योक्तः। यथोक्तसम्यग्दर्शने कोऽधिकारित्यत आह। मयि सर्वेश्वरे सर्वज्ञे परमगुरौ भगवति वासुदेवे यच्छ्रणोति स्पृशति पश्यति आस्वादयति जिघ्रति वा सर्वेमेव श्रीभगवान्वासुदेव इत्येवं ग्रहाविष्टबुद्धितया समर्पितसर्वात्मभावो मद्भक्तः एतादृशः सन्नेतद्यथोक्तं क्षेत्रज्ञानज्ञयानां याथात्म्यं विज्ञाय मद्भवाय परमात्मभावाय मोक्षायोपपद्यते योग्यो भवतीत्यर्थः।
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि। विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥
।।13.20।।सप्तमे ईश्वरस्य द्वे प्रकृती परापरे क्षेत्रक्षेत्रज्ञलक्षणे उपन्यस्य एतद्योनीनि भूतानित्युक्तं तत्र प्रकृतिद्वयनिरुपणार्थमारब्धेऽस्मिन्नध्याये इदं शरीरमिति द्वाभ्यां क्षेत्रक्षेत्रलक्षणप्रकृतिद्वयस्वरुपं निर्दिश्य तत्क्षेत्रं यच्च यादृक्चेत्यादिना तत्प्रतिपादितं? ततो महाभूतानीत्यादिना यच्च यादृक्चेति प्रतिपाद्य सच यो यत्प्रभावश्चेति पुरुष इति द्वाभ्यां प्रतिपादयितुमादौ एतद्योनीनि भूतानिति निरुपणाय प्रतिज्ञातं यद्विकारि यतश्च यदिति प्रतिपादयति -- प्रकृतिमिति द्वाभ्याम्। प्रकृतिरीश्वरस्य हि विकारकारणशक्तिस्त्रिगुणात्मिका मायामायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं।देवी ह्येषा गुणमयी मम माया दुरत्यया िति श्रुतिस्मृतिभ्यां पुरुषः क्षेत्रज्ञलक्षणा परा प्रकृतिः तौ प्रकृतिपुरुषावुभावपि अनादी एव नतु सादी इति विद्धि। नैक्सायपि सादित्त्वमिति द्रढयितुमुभावपीत्युक्तं। न विद्यते आदिः कारणं ययोस्तावनादी। ईश्वरस्य नित्यत्वात्तत्प्रकृत्योरपि तथात्वेन भवितुं युक्तम्। संसारोत्पादनोपयुक्तमनादित्वं ययोस्ताभ्यां प्रकृतिभ्यामीश्वरस्य जगदुत्पत्तिस्थतिप्रलयहेतुत्वसंपत्त्या तद्वयवत्त्वमेव तस्येश्वरत्वम्। ननु प्रकृतिपुरुषोरनादित्वे तयोरेव जगत्कर्तृत्वं नेश्वरस्य तयोरादिमत्त्वे त्वीश्वरस्य तत्कर्तृत्वं सिध्यतीत्यतो न अनादीति तत्पुरुषसमासो वक्तव्य इतिचेन्न। प्रकृतिपुरुषोरुत्पत्तेः प्रागीशितव्याभावादीश्वरस्यानीश्वरत्वप्रशङ्गात्। संसारस्य निर्निमित्तत्वे मुक्तानामपि संसारापत्तेरनिषेधादनिर्मोक्षप्रसघङ्गेन शास्त्रानर्थक्यप्रसङ्गात्। तदुतयात्पर्वं बन्धस्याभावेन तन्निवृत्त्यात्मनो मोक्षास्याभावात् बन्धमोक्षाभावप्रसङ्गाच्च। प्रकृतिपुरुषयोरनादित्वे विकाराणआं गुणानां च प्रकृतिकार्यत्वादात्म नो निर्विकारत्वं निर्गुणत्वं च सिध्यति। इदमेवाभिप्रेत्याह। इदमेवाभिप्रेत्याह। विकारन्वक्ष्यमाणान् बुद्य्धादिदेहेन्द्रियान्तान् गुणांस्चैव सुखदुःखमोहप्रत्ययाकारपरिणतान् सत्त्वरजस्तमःसंज्ञान् प्रकृतिसंभवान् त्रिगुणात्मिकमायापरिणामान् विद्धि जानीहि। पुरुषं च वित् हि विद्धीति पुरुषादिशब्दावृत्त्या उत्तरार्धस्तविद्धीत्यस्य संबन्धेन योज्यम्। तेन नित्यज्ञानस्वरुपस्य विवक्षितत्वात्पुरुषशब्दस्य कार्यकरणसंघाते प्रसिद्धेस्तस्य च सादित्वात्कथमनादित्मिति शङ्का न प्रभवतीति क्लिष्टकल्पना तु पूर्वं महता प्रयत्नेन संघातात्पुरुषवैलक्षण्यप्रतिपादनादस्याः शङ्कयाया एवाभावात्सर्वज्ञैराचार्यैः कथं कर्तव्येति तदकरणातेषां न्यूनता न शङ्कनीया।
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते। पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥
।।13.21।।के पुनर्विकारा गुणाश्च प्रकृतिसंभवा इत्याकाङ्क्षायां तान्यदर्शयन् प्रकृतेः संसारहेतुत्वं दर्शयति -- कार्येति। कार्यं शरीरम्। कार्यग्रहणेन शरीरारम्भकाणि भूतानि विषयाश्च गृह्यन्ते। करणानि देहस्थानि। ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं मनो बुद्धिरहंकारश्चेति त्रयोदश। करणग्रहणेन करणाश्रितत्वात्सुघदुःखमोहात्मका गुणा गृह्यन्ते। तेषां कार्यकरणानां कर्तत्वे उत्पादकत्वे प्रकृतिरारम्भकत्वेन हेतुः कारणमुच्यते। एवं कार्यकरणकर्तृत्वेन संसारस्य कारणं प्रकृतिरुक्ता। कार्यकारणकर्तृत्वे इति पाठेप्ययमेवार्थः। यद्वा एकादशेन्द्रियाणि प़ञ्चविषयाः षोडशविकाराः कार्यं महानहंकारो भूततन्मात्राणि पञ्चेति सप्तप्रकृतिविकृतयः कारणं तेषां कर्तत्वे हेतुः प्रकृतिरुच्यते इत्यर्थः। एवमपरप्रकृतेः संसारकारणत्वं प्रदर्श्य,परप्रकृतेस्तत्कारणत्वं दर्शयति। पुरुषः जीवः क्षेत्रज्ञः सुखदुःखानां भोग्यानां भोक्तृत्वे उपलब्धृत्वे हेतुरुच्यते। तथाच कार्यकारणसुखदुःस्वरुपेण हेतुफलात्मना प्रकृतेः परिणामाभावे पुरुषस्य च चेतनस्य तदुपलब्धृत्वेऽसति संसारो न संभवतीत्यतः प्रकृतिपुरुषयोः कार्यकारणकर्तृत्वेन सुखदुःभोक्तृत्वेन च संसारकारणत्वमिति। संसारश्च सुखदुःखभोगः पुरुषस्य च सुखदुःखानां भोक्तृत्वं संसारित्वं। अन्ये तु यथाभाष्यं व्याख्यातमित्युक्त्वा वर्णयन्ति। यद्वा पुरुषस्य कार्यत्वे कारणत्वे कर्तत्वे च प्रकृतिरेव पुरुषतादात्म्यं प्राप्ता हेतुर्भवति। तथा प्रकृतेः सुखदुःखभोक्तृत्वे स्वच्छायाप्रदाने पुरुषः कारणं कार्यत्वादयः प्राकृतदेहेन्द्रियबुद्धिधर्माः सन्तश्चिदात्मन्यारोप्यन्ते गौरोहममुष्य पुत्रोऽहं काणोऽहं खञ्जोऽहं करोभ्यमकार्षमहमिति तथा चिच्छायापन्ना बुद्धिः तेचयाम्यहं सुखदुःखादीनुपालमे इति मन्यत। सायं प्रकृतिपुरुषोरन्योन्यधर्माध्यासः संसारस्य कारणमित्युपपादितं भवति। सांख्याभिमतं पुरुषस्य भोक्तृत्वमपि निरस्तं भवति। अन्यथा प्रकृतिः कर्त्री पुरुषो भोक्तेति कर्तृत्वभोक्तृत्वयोर्वैयदिकण्यमापद्येत। नच भोक्तुर्निर्विकारित्वमपि वक्तुं शक्यमिति। अत्रेदमवधेयम्। यथा मूलं व्याख्यानकर्तृ़णां सर्वज्ञानां भाष्कृतां व्याख्याने सांख्यमतस्येश्वरानधिष्ठितं जडं प्रधानं कर्तृ चेतनश्च भोक्तेत्येवंरुपस्य नास्ति प्रवेशः प्रकृतिरीश्वरस्य हि विकारकारणशक्तिस्त्रिगुणात्मिका माया पुरुषः जीवः क्षेत्रज्ञ इत्येवं तैरुक्तत्वात्। उत्तरश्लोके पुरुषो भोक्ता प्रकृतिस्थः प्रकृतावविद्यालक्षणायां स्थिति इत्यादिवक्ष्यमाणत्वाच्च। तताचाविद्यैक्याध्यासादात्मनो भोक्तृत्वेन संसारित्वमिति वस्तुतो निर्विकारत्वं दुर्निवारम्। यद्यपि प्रकृतिस्थस्य कर्तृत्वभोक्तृत्वे तथापि कर्तृत्वे उपाधिप्राधान्यात्पृकृतेः कर्तृत्वमुच्यते। भोक्तृत्वे तूपहितस्य प्राधान्याज्जीवस्य भोक्तृत्वमतो न वैयधिकरण्यदोषोऽपीत्यादिसर्वं भाष्यादेव लभ्यत इत्यतोऽध्याहारेण क्लिष्टकल्पनया च भाष्यातिरिक्तव्याख्यानप्रदर्शनं नोचितमिति। एतेन कार्यं यज्ञब्रह्महत्यादि कारणं पुरोडाशखङ्गादि कर्तृत्वं साधनप्रयोक्तृत्वं तच्च तच्चेति द्वन्द्वे एकवद्भावः। हेतुः प्रकृतिरुच्यते एवं चेत्प्रकृतेरेव स्वर्गनरकादि भवेन्न जीवस्य। तथाच बन्धाभावान्न मोक्षे जीवानां प्रयत्नः स्यादित्यत आह। पुरुषइत्यादिकाः पूर्वोत्तरप्रकरणानुरोधविनिर्मुक्ता भाष्यबहिर्भूताः कल्पना निराकृता वेदितव्याः।
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्। कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥
।।13.22।।पुरुषस्य सुखदुःखभोक्तृत्वलक्षणसंसारित्वं किंनिमित्तमितिचेत् अविद्यैक्याध्यासनिमित्तमित्याह -- पुरुष इति। हि यस्मात्पुरुषो प्रकृतावविद्यालक्षणायां स्थितस्तदैक्याध्यासं प्राप्तस्तस्मात्सुखी दुःखी मूढः पण्डितोऽहमित्येवं प्रकृते जातान्सुखदुःखमोहाकाराभिव्यक्तान् गुणान्सत्त्वादीन् भुङ्क्ते उपलभते। प्रकृतिस्थस्तत्कार्ये देहे तादात्म्येन स्थित इति त्वाचार्यैः देहतादात्म्यस्याप्यविद्यातादात्म्याध्यासायत्तत्वं मुख्यार्थत्यागापत्तिं चाभिप्रेत्य न व्याख्यातम्। भोक्तृत्वलक्षणे संसारित्वे प्रकृतिस्थत्वं कारणमुक्त्वा जन्मनः प्रधानं कारणमाह -- कारणामिति। अस्य पुरुषस्य भोक्तुः सत्यश्चासत्यश्च योनयः सद्योनयोदेवादियोनयः असद्योनयः पश्वादियोनयः। योनिद्वयनिर्देशसामर्थ्यान्मध्यवर्तिन्यः सदसद्योनयो मनुष्ययोनयोपि द्रष्टव्याः। तासु जन्मानि तेषु विषयभूतेषु गुणेषु गुणसङ्गः गुणेषु सुखदुःखमोहात्मकेषु विषयेषु भूज्यमानेषु यस्तादात्म्यभाव आसीक्तिर्वा स एव सत्यायामप्यविद्यायां प्रधानं कारणमित्यर्थः।स यथाकामो भवति तत्कतुर्भवति यत्कतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसंपद्यते इति श्रुतेः। सदसद्योनिजन्मनस्तस्य संसारस्य गुणसङ्गः कारणमिति संसारपदमध्याहृत्य वा व्याख्यायेयम्। गुणसङ्गः सत्त्वरजस्तमोगुणात्मकप्रकृतितादात्म्याभिमान इति तु प्रकृतिमात्मत्वेन गतः प्रकृतिस्थ इत्यनेन पौररुक्त्यमभिप्रेत्याचार्यैर्न व्याख्यातम्। गुणैः शुभाशुभकर्मकारिभिरिन्द्रियैः सङ्गस्य विषयसङ्गाधीनत्वमभिप्रेत्य न प्रदर्शितम्।इन्द्रियेभ्यः परा ह्यर्था इति श्रुतेः। अन्ये तु यद्वा प्रकृतिस्थो विद्वान्वा गुणान् भुङ्क्ते। पश्वादिभिश्चाविशेषादितिन्यायात्। तत्किं विद्वानिवाविद्वानपि कुतो न मुच्यते। अविद्वानिव विद्वानपि कुतो न बध्यत इत्याशङ्क्याह -- कारणमिति। गुणेषु देहेन्द्रियविषयेषु सङ्गः अहमिदं ममेदमित्यभिनिवेशः स एव जन्म कारणं विदुषां तु तदभावान्न जन्म। समानेऽपि देहसंबन्धे यदा यक्षो देहाभिमानं धत्ते तदा स एव देहपीडया पीड्यते नतु देहपतिर्जीवः। यदात्वयं देहाभिमानं धत्ते तदा नेतर इति प्रसिद्धम्। सङ्गस्य बन्धकत्वं नतु सांनिध्यमात्रं बन्धकं अतो विद्वदविदुषो समानेपि देहसंबन्धे संगतदभावकृतो महाविशेष इति भाव इति वर्णयन्ति। भाष्यकारैस्तु प्रकृतिं पुरुषं चैव विद्य्धनादी उभावपीत्युपक्रमानुरोधेन पुरुषशब्दार्थप्रदर्शनसामञ्जस्यभिप्रेत्यामर्थो न प्रदर्शितः।
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः। परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥
।।13.23।।पुरुषमेव साक्षान्निर्दिशति -- उपद्रष्टेति। यथा ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तटस्थोऽन्यो व्यापृतो यज्ञविद्याकुशलस्तद्य्वापारगुणदोषणामीक्षिता तथा कार्यकरणानां व्यापारवतां समीपे स्थितः सन् स्वयव्यापृतो द्रष्टा सन्निधिमात्रेण तेषां साक्षी। यद्वा देहचक्षुर्मनोबुद्य्धात्मानो द्रष्टारः तेषां बाह्यो द्रष्टा देहस्तत आरभ्यान्तरतमश्च प्रत्यक्समीप आत्मा द्रष्टा यतः परतरो नास्ति द्रष्टा सोऽतिशयमामीप्येन द्रष्टृत्वादुपद्रष्टा स्यात्। यज्ञोपद्रषश्टृवद्वा सर्वविषयीकरणादुपद्रष्टा। ये स्वयं कुर्वन्तो व्यापारवन्तो भवन्ति तेषु कुर्वत्सु यास्तेषां क्रियास्तासु पार्श्वस्थस्य परितोषोऽनुमननमनुमोदनं तस्य संनिधिमात्रेण कर्ता अमुमन्ता? कार्यकरणप्रवृत्तिषु स्वयमप्रवृत्तोऽपि प्रवृत्त इव तदनुकूलो विभाव्यते तेन वानुमन्ता? स्वव्यापारेषु प्रवृत्तान् तत्साक्षिभूतः कदाचिदपि न निवारयतीति वाऽनुमन्ता? देहेन्द्रियमनोबुद्धीनां,संहतानां चैतन्यात्मपारार्थ्येन निमित्तभूतेन चैतन्याभासानां स्वरुपावधारणस्य चैतन्यात्मकृत्वात् भर्तात्मोच्यते। भोक्ता नित्यचैतन्यस्वरुपेण बुद्धेः सुखदुःखमोहात्मिकान् प्रत्ययान्सर्वविषयविषयान् विभक्ततयोपलब्धातो भोक्ता आत्मोच्यते सर्वात्मत्वात्स्वन्त्रत्वाच्च। महांश्चासावीश्वरश्चेति महेश्वरः देहादिबुद्य्धन्तानां प्रत्गात्मत्वेनाविद्यया प्रकल्पितानां परम उपद्रष्टृत्वादिलक्षण आत्मेति परमात्मा इत्यनेन शब्देन चाप्युक्तः श्रुतौ कथितः। यः परमात्मा श्रुतावुक्तः स एव देहेस्मिन् पुरुषः परः अव्यक्तादुत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृत इति वक्ष्यमाणः। श्रुतिःसाक्षी चेता केवलो निर्गुणश्चएष भूताधिपतिरेष लोकेश्वर एष लोकपालःईशानं भूतभव्यस्यतस्सृष्ट्वा तदेवानुप्राविशत?अनेन जीवेनात्मनानुप्रविश्य नामरुपे व्याकरवाणिअव्यक्तात्पुरुषः परः इत्याद्या।
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह। सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥
।।13.24।।क्षेत्रज्ञं तापि मां विद्वीत्युपन्यस्तमात्मतत्त्वं व्याख्यायोपसंहृतमिदानीं शुद्धार्थयोरैक्यरुपात्मतत्त्वस्य प्रागुक्तस्य ज्ञानं फलोक्त्या स्तौति -- यइति। एवं यथोक्तेन प्रकारेण पुरुषं जीवेश्वरादिसर्वकल्पनाधिष्ठानं यो वेत्ति उक्तलक्षणः पुरुषोऽहमिति साक्षाज्जानाति प्रकृतिं चानद्यनिर्वाच्यां सर्वानर्थोपाधिभूतां गुणैः स्वविकारैः सह प्रागुक्तैकत्वगोचरया विद्यया।ञभावमापादितां यो वेत्तीति संबन्धः। स सर्वथा वर्णाश्रमधर्मानुल्लङ्घ्य प्रवर्तमानोऽपि भूयः पुनः पतितेऽस्मिञशरीरे देहान्तराय न जायते नोत्पद्यते। आवर्तमानो जन्मालावनपि सर्वथा भूयो नाभिजायत इति कल्पना तु भाष्यबहिर्भूता नादर्तव्या। आवर्तमान इत्याद्युक्तेः फलाभावात्।क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेब्रह्म वेद ब्रह्मैव भवतितस्य तावदेव चिरं यावन्न विमोक्ष्येइषीकातूलवच्च सर्वकर्माणि प्रदह्यन्ते?यथैधांसि समिद्धोऽग्निर्मस्मसात्कुरुतेऽर्जुने। ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथाबीजान्यग्नयुपदग्धानि न रोहन्ति यथा पुनः। ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संपद्यते पुनः।।अविद्याकामक्लेशबीजनिमित्तानां फलारम्भकाणां जन्मान्तराङ्कुरारम्भसामर्थ्यवतां कर्मणां ज्ञानग्मिनोक्तबीजदाहे सति जन्माङ्करारम्भसामर्थ्य न घटते इति श्रुतिस्मृतियुक्तभिरुक्तम्। विदुषो जन्माभावमभिप्रेत्य भगवतोक्तं न स भूयोभिजायत इति। एतेन ज्ञानोत्पत्तेः प्राक्कृतानां कर्मणामुत्तरकालभाविनामति क्रान्तोनेकजन्मकृतानां च फलमदत्त्वा प्रारब्धकर्मवन्नाशो न युक्तः।नाभूक्तं क्षीयते कर्म कल्पकोटिशतैरपि इत्यादिवचनात्। तस्मान्त्रिप्रकाराण्यपि कर्माणि त्रीणि जन्मामि संहतानि वा सर्वाण्येकं जन्मारभेरन्। अन्यथा कृतविप्रणाशे सर्वत्रानाश्वासप्रशङ्गः शास्त्रानर्थक्यं च स्यादीति शङ्का प्रत्युक्ता। सर्वकर्माणीति विशेषणात्। सर्वेषां कर्मणां दाहस्य वक्तुं युक्तत्वात्। ननु ज्ञानोत्पत्त्युत्तरकालकृतानां सर्वकर्मणां ज्ञानसहभावित्वात्तेन दाहोऽस्तु नत्वन्येषाम्। तथाच न विशेषणवैयर्थ्यमिति चेन्न। संकोचे मानाभावात्। प्रारब्धकर्मणां मुक्तेषुवत्प्रवृत्तफलत्वात्तत्साम्यमनारब्धवेगेषुवदन्येषां कर्मणां न युज्यत इत्यतः पतितेऽस्मिन्विद्वच्छरीरे न स भूयोभिजायत इति युक्तमेवोक्तमिति सिद्धम्।
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना। अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥
।।13.25।।एवं तत्त्वंपदार्थौ संशोध्य प्रतिपादितमिदानीमात्मदर्शनोपायविकल्पान्यथाधिकारं प्रतिपादयति -- ध्यानेनेति। केचिदुत्तमाधिकारिणो योगिनः एतज्जन्मनि जन्मान्तरे वा कृताभ्यां श्रवणममनाभ्यामसंभावनादिदोषनिर्मुक्ताः शब्दादिविषयेभ्यः श्रोत्रादीनि करणानि मनस्युपसंहृत्य मनश्च पत्गात्मन्येकाग्रं विधाय तैलधारावत्संतताविच्छिन्नप्रत्ययेन निदिध्यासनापरपर्यायेण ध्यानेनात्मनि बुद्धौ आत्मानं प्रत्यक्वेतनमात्मना ध्यानसंस्कृतेनान्तःकरणेन पश्यन्ति साक्षात्कुर्वन्ति। आत्मनि देहे इति व्याख्याने तूक्तार्थापेक्षया सामञ्जस्यं चिन्त्यम्। अन्ये मध्यमाधिकारिणः। श्रवणमननपरायणा इमे सत्त्वरजस्तमांसि गुणाः सविकाराः अनात्मानं मिथ्याभूतास्तद्य्वापारसाक्षिभूतोऽपिणामी नित्यो गुणविलक्षणो विभुः सच्चिदानन्दघन आत्मेति वेदान्तविचारजन्येन चिन्तनात्मकेन सांख्येन योगेन ध्यानोत्पत्तिद्वारा आत्मन्यात्मानमात्मना पश्यन्तीति पूर्ववत्। अपरे मन्दाधिकारिणः कर्मैव योगार्थत्वगुणेन योगस्तेन कर्मयोगेन ईश्वरार्पणबुद्य्धानुष्ठीयमानेन सत्त्वशुद्धश्रवणमननध्यानापरोक्षज्ञानोत्पत्तिद्वारेणात्मन्यात्मानमात्मना पश्यन्तीति पूर्ववत्।
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते। तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥
।।13.26।।मन्दतरानाह। अन्येतु। तुशब्दः पूर्वेभ्यो वैलक्षण्यद्योतनार्थः। एषु विकल्पेषु अन्यतरेणाप्येवं यथोक्तमात्मानमजानन्तः श्रुतिपरायणाः श्रुतिः श्रवणं परमयनं मोक्षमार्गप्रवृत्तौ परं साधनं येषां केवलं परोपदेशप्रमाणाः स्वयं विवेकररिताः अन्येभ्य आचार्येभ्य इदमेव चिन्तयतेति वदद्य्भः श्रुत्वा श्रद्दधानाः सन्तस्तदेवोपासते चिन्तयन्ति तेऽपि च मृत्युयुक्तं संसारं अतितरन्त्येवातिक्रामन्त्येव। चकारः पूर्वोक्तसमुच्चयार्थः। तेप्यतितरन्ति पूरवोक्तास्त्रयः तरन्तीति किमु वक्तव्यमिति कैमुत्यन्यायबोधनार्थोऽपिशब्दः तेषामुक्तमादित्वाभावेऽपि संसारातितरणे संशयो नास्तीत्यवधारणार्थः।
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्। क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥
।।13.27।।अत्र क्षेत्रज्ञं चापि मां विद्धीति क्षेत्रज्ञेश्वरैकत्वविषयं ज्ञानं मोक्षसाधनं यज्ज्ञात्वामृतमश्रुत इत्युक्तं तत्र हेतुमाह -- यावदिति। यत्किंचित्सत्त्वं वस्तु स्थावरजंगमं संजायते समुत्पद्यते तत्सर्वं क्षेत्रक्षेत्रज्ञयोः संयोगाज्जायत इत्येवं विद्धि जानीहि। एतज्ज्ञातुं योग्योऽसीति सूचयन्नाह -- हे भरतर्षभेति। ननु क्षेत्रक्षेत्रज्ञयोः संयोगादिति भगवतोक्तं न संगच्छते,क्षेत्रस्याकाशवन्निरवयवत्वेन क्षेत्रेण रज्जवेव घटस्यावयवसंश्लेषद्वारकस्य संबन्धविशेषस्य संयोगस्यासंभवात्। तन्तुपटयोरिव क्षेत्रक्षेत्रज्ञयोरितरेतरकार्यकारणभावानभ्युपगमेन लक्षणया समवायलक्षणस्याप्यसंभवात्। तमः प्रकाशवद्विस्वभावयोस्तादात्म्यासंभवाच्चेति? चेन्न। रज्जुशुक्तिकादीनां तद्विवेकज्ञानाभावादध्यारोपितसर्परजतादिसंयोगवत् विषयविषयिणोर्भिन्नस्वभावयोः क्षेत्रक्षेत्रज्ञयोरितरेतरतद्धर्माध्यासलक्षणस्य संयोगस्य क्षेत्रक्षेत्रज्ञस्वरुपविवेकाभावनिबन्धनस्य संभवात्। तथाच यथाशास्त्रं मुञ्जादिवेषीकां यथोक्तलक्षणात्क्षेत्रात् यथोक्तलक्षणं क्षेत्रज्ञं विभज्य निरस्तसर्वोपाधिमीश्वराभिन्नं यः पश्यति क्षेत्रं च मायानिर्मितहस्तिस्वप्नद्रष्टवस्तुगन्धर्वनगरद्विचन्द्ररज्जूरगवदसदेव सदिवाभासत इत्येवं निश्चितविज्ञानी यस्तस्य सभ्यग्दर्शनेन जन्महेतोः मिथ्याज्ञानस्यापगमान्मोक्ष उपपद्यते नत्वन्यस्येत्यतो युक्तमुक्तं य एवं वेत्तीत्यादि।
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥
।।13.28।।न स भूयोभिजायत इत्यनेन सभ्यग्दर्शनफलमविद्यादिसंसारबीजनिवृत्तिद्वारेण ज्माभाव उक्तो जन्मकारणं चाविद्यानिमित्तकक्षेत्रक्षेत्रसंयोग उक्तः। अतः सर्वथापि सर्वानर्थमूलभूतस्याज्ञानस्य निवर्तकं सभ्यग्दर्शनमुक्तमप्यतिसूक्ष्मार्थस्य पुनः पुनर्वचनेनाधिकारिभेदानुग्रहं मत्वा शब्दान्तरेण पुनराह -- सममिति। सर्वेषु ब्रह्मादिस्थावरान्तेषु भूतेषु भवनधर्मकेषु प्राणिषु परस्परमत्यन्तविषमेष्वनेकेषु समं तिष्ठन्तं निर्विशेषमेवं स्थितिं कुर्वन्तं परमेश्वरं देहेन्द्रियाद्यात्मानमपेक्ष्य परमश्चासावीशनशीलश्च तं विनश्यत्सु सर्वेषां भावविकारणां जन्मोत्तरभावित्वात् नाशेन षट्भावविकारा गृह्यन्ते। सर्वभाविकारवत्सु अविनश्यन्तं सर्वविकाररहितं। तथाचसर्वभूतेब्योऽत्यन्तविलक्षणं प्रत्यगभिन्नं परमेश्वरं यः पश्यति स एव पश्यति नतु विपरीतदर्शी। यताऽनेकचन्द्रदर्श्यपेक्षया एकचन्द्रदर्शी विशिष्यते तथा विभक्तानेकात्मविपरीतदर्शिभ्यो यथोक्तात्मदर्श्यपीत्यर्थः।
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम्। न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥
।।13.29।।श्रोतृप्ररोचनाय यथोक्तं सभ्यग्दर्शनं फलवचनेन स्तौति -- सममिति। सर्वत्र समं तुल्यतयावस्तितं ईश्वरमुक्तलक्षणं समं पश्यन् उपलभमानः। हि यस्मादात्मना स्वेनैव स्वात्मानं न हिनस्तिहिंसां न करोति ततस्तस्मात्परां प्रकृष्टां मोक्षाख्यां गतिं याति प्राप्नोति। मुच्यत इत्यर्थः। अयमर्थः -- सर्वो ह्यज्ञोऽत्यन्तप्रसिद्धं साक्षादपरोक्षमप्यात्मानं तिरस्कृत्यानात्मानमात्मत्वेन परिगृह्य तमपि धर्माधर्मौ कृत्वोपात्तमात्मानं हत्वाऽन्यमात्मानमुपादत्ते तमपि हत्वाऽन्यमित्येवमुपात्तमुपात्तमात्मानं हन्तीत्यात्महा उत्यते।असूर्या नाम ते लोका अन्धेन तमसावृताः। तांस्ते प्रत्याभिगच्छन्ति ये केचात्महनो जनाः।अन्यथा सन्तमात्मानं योऽन्यथा प्रतिपद्यते। किं तेन न कृतं पापं चोरेणात्मापहारिणा इत्यादि श्रुतिस्मृतिभ्यां परमार्थात्माप्यविद्वद्भिरविद्यया हत इव। अतः सर्वेऽप्यविद्वांस आत्महन एवोच्यन्ते। यस्त्वितरो यथोक्तात्मदर्शी स उभयथाप्यात्मना आत्मानं न हिनस्ति ततो याति परां गतिम्। एतेन कश्चिदपि प्राणी स्वयं स्वमात्मानं नैव हिनस्तीत्यतो प्राप्तं हननं किमिति प्रतिषिध्यत इति शङ्का प्रत्युक्ता। आत्मशब्दस्य स्वस्मिन्मुख्यत्वादुक्तार्थे स्वरसाधिक्याच्चात्मना देहादिनात्मानं। यद्वा ऐक्यात्मदर्शित्वात्स्वात्मानमिवान्यमप्यात्मानं न हिनस्ति सर्वत्र दयालुर्भवतीति व्याख्यानमाचार्यैर्न प्रदर्शितम्।
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः। यः पश्यति तथात्मानमकर्तारं स पश्यति ॥
।।13.30।।ननु सुखदुःखादिभिः गुणैर्धर्माधर्माख्यैः स्वकर्मभिश्च वैलक्षण्यात्प्रतिदेहं भेदे तद्विशिष्टेष्वतामसु साभ्यदर्शनमनुपपन्नमिति चेत्तत्राह। प्रकृतिस्त्रिगुणात्मिका भगवतो माया।मायां तु प्रकृतिं विद्यात् इति श्रुतेः। तयैव च कर्माणि वाङ्यनःकायारभ्याणि क्रियमाणानि सर्वशः सर्वप्रकारैः। सर्वप्रकारत्वे च काम्यत्वनिषिद्धत्वादिना प्रकारबाहुल्यं यः पश्यति तथात्मानं क्षेत्रज्ञमकर्तारं सर्वोपाधिशून्यमेकं यः पश्यति स पश्यति परमार्थदर्शीति पूर्ववत्। निर्गुणस्याकर्तुर्निर्विशेषस्याकाशस्येव भेदे प्रमाणानुपपत्तेरित्यर्थः।
यदा भूतपृथग्भावमेकस्थमनुपश्यति। तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥
।।13.31।।प्रकृतेर्विकाराणां च सांख्यवत्पुरुषादन्यत्वप्रसक्तिं निराकुर्वन्पुनरपि तदेव सम्यग्दर्शनं शब्दान्तरेण प्रपञ्चयति -- यदेति। यदा यस्मिन्काले भूतानां पृथग्भावः पृथक्त्वमेकस्थमेकस्मिन्नात्मनि प्रकृत्यादिसमस्तप्रपञ्चाधिष्ठाने प्रत्यगभिन्ने ब्रह्माणि सद्रूपे स्तितं कल्पितस्याधिष्ठानानतिरेकादात्मानतिरिक्तमनु शास्त्राचार्योपदेशात्पश्चात्पश्यतिआत्मैवैदं सर्वं? सर्वं खल्विदं ब्रह्म नेहनानास्ति किंचन? अहं ब्रह्मास्मि इति साक्षात्करोति ततएव परमात्मन एव विस्तारंयतो वा इमानि भूतानि जायन्ते? आनन्दाद्य्धवे खल्विमानि भूतानि जायन्ते? तस्माद्वा एतस्मादात्मन आकाशः संभूतः? तदैक्षत? तत्तेजोऽसृजत इति सर्वप्रपञ्चविस्तारमनुपश्यति तदा तस्मिन्काले ब्रह्म संपद्यते। ब्रह्मैव भवतीत्यर्थः।ब्रह्म वेद ब्रह्मैव भवति इति श्रुतेः। एकस्यामेवेश्वरशक्तिरुपायां प्रकृतौ स्थितं प्रलयेऽनुपश्यति। तत एव च तस्या एव प्रकृतेः सकाशाद्भूतानां विस्तारं सृष्टिसमयेऽनुपश्यतीति तूक्तप्रसक्त्यनिरासं ब्रह्म संपद्यते इति कथनानुपपत्तिं चाभिप्रेत्याचार्यैर्न व्याख्यातम्।
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः। शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥
।।13.32।।नन्वेकस्यात्मनः सर्वत्र समवस्थितत्वेन देहादिगतकर्तृत्वादिमत्त्वं प्राप्तं पवित्रस्यापि गङ्गाजलादेः अपवित्रप्राण्युतरान्तरदोषेण दोषवक्त्ववदिति तत्राह -- अनादित्वादीति। अयं परमात्माव्ययोऽपक्षयरहितः कूटस्थ इत्यर्थः। तत्र,व्ययस्त्रिविधः स्वभावतो वा? अवयवद्वारको वा गुणाद्वारको वा। स्वतस्तु परब्रह्मणो न संभवतीति कथयितुं परमात्मेत्युक्तम्। द्वितीयासंभवे हेतुमाह -- अनादित्वादिति। आदिः कारणं नास्ति तदनादि। घटादेरादिमत्त्वेन सावयवत्वाद्य्वयो दृष्टः? आत्मनस्तवनादित्वेन निरवयवत्वादवयवद्वारको व्ययो न संभवतीत्यर्थः। तृतीयं निराकरोति -- निर्गुणत्वादिति। तथा सगुणो गुणव्ययाद्य्वेति अयंतु निर्गुणत्वान्न व्येति। गुणद्वारकोऽस्य व्ययो न संभवतीत्यर्थः। यत एवमतः शरीरस्थोपि शरीरेष्वात्मन उपलब्धिधर्मवतीति शरीरस्थ उच्यते। सर्वगतत्वेन सर्वात्मत्वेन च देहादौ स्थितोऽपि स्वतो देहात्मना वा न करोति कूटस्थात्वाद्देहादेश्च तस्मिन्कल्पितत्वादित्यर्थः। कर्तृत्वाभावादेव कर्मफलेन न लिप्यते। कुन्त्युत्पन्नशरीरस्थस्यापि तव कर्तृत्वं लेपश्च नास्तीति संबोधनाशयः। ननु एवं यः शरीरस्थः करोति लिप्यते च स कः किमुक्तलक्षणादकर्तुरलिप्तादात्मनोऽन्यः किंचाऽनन्यः। नाद्यः तत्त्वमसि? क्षेत्रज्ञं चापि मां विद्धीति क्षेत्रज्ञेश्वरैकत्वप्रतिपादनानुपप्तिप्रसङ्गात्। द्वितीये परमात्मनः कर्तत्वाद्यभावेन प्रतीयमानस्य कर्तृत्वादेरधिकरणं वाच्यम्। तथाच सर्वथेदं दुरुपपादमितिचेन्न। स्वभावस्तु प्रवर्तत इत्यविद्यामात्रस्वभावो हि करोति लिप्यत इति व्यवहारदशायामाविद्यकस्य कर्तृत्वादेर्भगवतैव निरुपितत्वात्। एवंच प्रत्यगभिन्ने ब्रह्मण्याविधकं कर्तृत्वादि न पारमार्थिकमिति भगवता प्रोक्ते औपनिषदे परमार्थसांख्यदर्शने दुर्विज्ञयत्वात् सांख्यवैसेषिकादिभिभ्रान्तिजन्यय पूर्वोक्तशङ्क्या परित्यक्ते स्थितानां ज्ञाननिष्ठानामविद्यापरिकल्पितकर्तृत्वाद्यपगमेन मोक्षप्राप्तिः नत्वन्यस्मिन् शुक्तिरुप्यकल्पे सांख्यादिपरिकल्पितते निष्टावतामिति।
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते। सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥
।।13.33।।कर्तृत्वाभावान्न लिप्यत इत्युक्तं तत्र दृष्टान्तमाह -- यथेति। सर्वत्र देहादौ गतं स्थितमप्याकाशं खं यथा सौक्ष्भ्यात् सूक्ष्मत्वादसङ्गस्वभावत्वात् देहादिगतकर्तृत्वादिभिर्न लिप्यते न संबध्यते तथा सर्वत्र सर्वस्मिन्नवस्थितः आत्मा देहे देहधर्मैर्न लिप्यत इत्यर्थः।
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः। क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥
।।13.34।।प्रकाशरुपत्वाच्च प्रकाशयधर्मैर्न लिप्यत इति दृष्टान्तेनाह -- यथेति। यथा एको रविः सूर्यः कृत्स्त्रं सर्वमिमं प्रत्यक्षादिनानुभूयमानं लोकं प्रकाशयति अवभासयंश्चावभास्यधर्मैर्न लिप्यते। तथा महाभूतादिधृत्यन्तं सर्वं क्षेत्रमेकः क्षेत्री प्रत्यगाभिन्नः परमात्मा प्रकाशयति प्रकाशयंश्च प्रकाश्यधर्मैरेकः परमात्मा न लिप्यत इत्यर्थः। तथाच श्रुतिःसूर्यो यथा सर्वलोकस्य चक्षुर्ने लिप्यते चाक्षुषैर्बाह्यदोषैः। एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःकेन बाह्यः इति। यथा एकएव भरतः स्वनाम्ना भवदादीन्प्रकाशयति तथेति सूचयन्नाह -- भारतेति।
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा। भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥
।।13.35।।अध्यायार्थं सफलमुपसंहरति। क्षेत्रक्षेत्रज्ञयोरुक्तप्रकारेण व्याख्यातयोरेवं यथा प्रदर्शितप्रकारेणान्तरमितरेतरवैलक्ष्ण्यविशेषं कौटस्थ्यपरिणामादिलक्षणं शास्त्राचार्योपदेशजनितमात्मप्रत्यक्षं ज्ञानं चक्षुस्तेन ज्ञानचक्षुषा भूतानां प्रकृतिरविद्यालक्षणाऽव्यक्ताख्या तस्या भूतप्रकृतेः परमार्थात्मविद्यया मोक्षमभावगमनं ये विदुर्जानन्ति ते परं परमार्थतत्त्वं ब्रह्म यान्ति गच्छन्ति पुर्देहं नाददत इत्यर्थः। तदनेन त्रयोदशाध्यायेनामानित्यवादिकं निरुपयता तन्निष्ठस्य क्षेत्रक्षेत्रयाथात्म्यविज्ञानवतः सर्वानर्थनिवृत्त्या परिपूर्णपुरुषार्थसिद्धिरितिवदता तत्त्वंपदयोरैक्यं प्रतिपादितम्।क्षेत्रक्षेत्रयाथात्म्यं सभ्यग्येन प्रकाशितम्। वन्दे तं परमात्मानं शंररं कृष्णमद्वयम्।।1।।इति श्रीपरमहंसपरिव्राजकाचार्यबालस्वामिश्रीपादशिष्यदत्तवंशावतंसरामकुमारसूनुधनपतिविदुषा विरचितायां श्रीगीताभाष्योत्कर्षदीपिकायां त्रयोदशोऽध्यायः।।13।।