15.1Krishna

श्रीभगवानुवाच। ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्। छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥

Commentary · Sanskrit

।।15.1 -- 15.2।।ऊर्ध्वमूलमिति। अधश्चेति। अनेन शास्त्रान्तरेषु यदुच्यते अश्वत्थः सर्वं? स एवोपासनीयः इत्यादि? तस्य भगवद्ब्रह्मोपासा तात्पर्यमित्युच्यते। मूलं प्रशान्तरूपम् (K प्रशान्तं रूपम्)। तत् ऊर्ध्वं? सर्वतो हि निवृत्तस्य तदाप्तिः। छन्दांसि पर्णानि इति -- यथा वृक्षस्य मानत्वफलवत्त्वसरसतादयः (S? फलत्व -- ) पर्णैः सूच्यन्ते? एवं ब्रह्मतत्त्वस्य वेदोपलक्षितशास्त्रद्वारिका प्रतीतिरित्याख्यायते। गुणैः? सत्त्वादिभिः प्रवृद्धाः? देवादिस्थावरान्ततया। तस्य च शुभाशुभात्मकानि कर्माणि अधस्तनमूलानि (?N -- मूलानि यस्य)।

Translation · English

15.1 See Comment under 15.2

Compare this verse →
15.2Krishna

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः। अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥

Commentary · Sanskrit

।।15.1 -- 15.2।।ऊर्ध्वमूलमिति। अधश्चेति। अनेन शास्त्रान्तरेषु यदुच्यते अश्वत्थः सर्वं? स एवोपासनीयः इत्यादि? तस्य भगवद्ब्रह्मोपासा तात्पर्यमित्युच्यते। मूलं प्रशान्तरूपम् (K प्रशान्तं रूपम्)। तत् ऊर्ध्वं? सर्वतो हि निवृत्तस्य तदाप्तिः। छन्दांसि पर्णानि इति -- यथा वृक्षस्य मानत्वफलवत्त्वसरसतादयः (S? फलत्व -- ) पर्णैः सूच्यन्ते? एवं ब्रह्मतत्त्वस्य वेदोपलक्षितशास्त्रद्वारिका प्रतीतिरित्याख्यायते। गुणैः? सत्त्वादिभिः प्रवृद्धाः? देवादिस्थावरान्ततया। तस्य च शुभाशुभात्मकानि कर्माणि अधस्तनमूलानि (?N -- मूलानि यस्य)।

Translation · English

15.1-2 Urdhva-mulam etc. Adhas ca etc. In other scriptural texts it is delcared 'All is the holy Fig-tree; that alone is to be meditated upon'. The present verse tells us this : What is intended by that declaration is only the religious meditation of the Brahman, the Bhagavat. Root : the one with a highly tranil nature. That is high (above) : Becasue it can be attained by him alone who has withdrawn himself from every other [lower] thing. The [Vedic] hymns are the leaves [of it] etc. : Just as the girth, height, the fruits and the taste etc. of a tree are indicated by its leaves, in the same fashion the idea of the Brahman-being is through the scriptures that are included in the 'Vedic hymns'. This is what is narrated here. With Strands : i.e., with the Sattva etc. Well developed : i.e., starting from gods down to the stationary ones. Of this tree, the roots, that are below, are the good and bad actions.

Compare this verse →
15.3Krishna

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा। अश्वत्थमेनं सुविरूढमूलं असङ्गशस्त्रेण दृढेन छित्त्वा ॥

Commentary · Sanskrit

।।15.3 -- 15.5।।न रूपमित्यादि अव्ययं तदित्यन्तम्। तं छित्त्वेति। विशेष्ये क्रियाऽभिधीयमाना सामर्थ्यादत्र विशेषणपदमुपादत्ते दण्डी प्रैष्याननुब्रूयात् इति विधिवत्। तेन अधोरूढानि मूलानि अस्य छिन्द्यादिति। तत् पदं प्रशान्तम् अव्ययं पदं तदेव।

Translation · English

15.3 See Comment under 15.5

Compare this verse →
15.4Krishna

ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः। तमेव चाद्यं पुरुषं प्रपद्ये। यतः प्रवृत्तिः प्रसृता पुराणी ॥

Commentary · Sanskrit

।।15.3 -- 15.5।।न रूपमित्यादि अव्ययं तदित्यन्तम्। तं छित्त्वेति। विशेष्ये क्रियाऽभिधीयमाना सामर्थ्यादत्र विशेषणपदमुपादत्ते दण्डी प्रैष्याननुब्रूयात् इति विधिवत्। तेन अधोरूढानि मूलानि अस्य छिन्द्यादिति। तत् पदं प्रशान्तम् अव्ययं पदं तदेव।

Translation · English

15.4 See Comment under 15.5

Compare this verse →
15.5Krishna

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः। द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्- गच्छन्त्यमूढाः पदमव्ययं तत् ॥

Commentary · Sanskrit

।।15.3 -- 15.5।।न रूपमित्यादि अव्ययं तदित्यन्तम्। तं छित्त्वेति। विशेष्ये क्रियाऽभिधीयमाना सामर्थ्यादत्र विशेषणपदमुपादत्ते दण्डी प्रैष्याननुब्रूयात् इति विधिवत्। तेन अधोरूढानि मूलानि अस्य छिन्द्यादिति। तत् पदं प्रशान्तम् अव्ययं पदं तदेव।

Translation · English

15.3-5 Na rupam., upto avyayam tat. Cutting this [tree] etc. Here the action [of cutting] mentioned with regard to the alified one [viz৷৷ the tree] appropriates for itself, the place (or word) of alification [viz. the root below], just as in the case of the injunction : 'Let the man-with-stick recite the Praisa hymns. By this way [we get the meaning] : 'Let him cut off the roots tha are grown below. That Abode : The absolutely Tranil One. The changeless Abode is nothing but That.

Compare this verse →
15.6Krishna

न तद्भासयते सूर्यो न शशाङ्को न पावकः। यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥

Commentary · Sanskrit

।।15.6।।न तदिति। सूर्यादीनां तत्रानवकाशः। तेषां कालाद्यवच्छेदात्? वेद्यत्वात्? करणोपकारकत्वात्। तस्य तु दिक्कालाद्यनवच्छेदात्? वेदकत्त्वात्? करणप्रवर्तकत्वात्? तदतीतत्त्वात्।

Translation · English

15.6 Na tat etc. There is no scope for the sun etc., in [illumining] That. For, they are conditioned by time etc., because they are objects of knowledge, [and] because they are the helpers of the sense organs. On the other hand, That [Absolute] is unrestricted by space, time etc. It is the knower, the one inducer of the sense organs and also the one transcending them.

Compare this verse →
15.7Krishna

ममैवांशो जीवलोके जीवभूतः सनातनः। मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥

Commentary · Sanskrit

।।15.7।।ममेति। ब्रह्मण एवायमंश इति। अज्ञानधर्मतया परिपूर्णस्य असंवेदनात् चेतनताऽनिवृत्तेश्च अंशत्वमुपचरितम् न (?N omit न) पुनर्वस्तुतः अंशवत्तोपपद्यते। प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तः इति हि श्रुतिः (N श्रुतेः)। एषैव च औपचारिकता यथावसरं योजनीया इति न विप्रतिपत्तव्यम्।

Translation · English

15.7 Mama etc. The individual Soul is a portion just of the Brahman only : Because, due to the attribute (or, nature) viz., the nescience, the Self does not realise Its all pervaisveness and because the Consciousness is also not absent, It is figuratively referred to as portion [of the Brahman]. For, a real apportioning is not possible [in the Absolute]. For the scripture also says : 'In the case of the Brahman (the Absolute), even the particular manifestation (or a particular space) does not preclude Its all-comprehensive nature'. This figurative usage may be resorted to wherever reired. Hence there is no room for any difference of opinion.

Compare this verse →
15.8Krishna

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः। गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥

Commentary · Sanskrit

।।15.8।।शरीरमिति। अवाप्नोति? गृह्णाति। उत्क्रामति त्यजति एतैः सह। यथा वायुः सर्वगतो विश्रान्तिधाम पार्थिवं प्राप्य ततो गन्धमानीय स्थानान्तरे तत्सहित एव संक्रामति? एवं जीवः पुर्यष्टकेन सह।

Translation · English

15.8 Sariram etc. Attains to : seizes. Goes up : abandones along with them. Just as the wind, going everywhere reaches an abode of rest made of earth and carrying away thence an odour enters just with that into another place, in the same way does the individual Soul together with the octad of cities. So far the association of the individual Soul with them ( the sense organs etc.) at both the stages of creation and of withdrawal has been described. Now it is being decided that It acts only in association with them even at the stage of existence which consists of acts like standing, sitting, contemplating etc. and which is a stage of receiving objects-

Compare this verse →
15.9Krishna

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च। अधिष्ठाय मनश्चायं विषयानुपसेवते ॥

Commentary · Sanskrit

।।15.9 -- 15.11।।एवं सृष्टौ संहारे च एतैः साहित्यमस्योक्त्वा स्थितावपि स्थानासनमननादिरूपायां (N ममतादि) विषयग्रहणात्मिकायां ( omits स्थितावपि -- त्मिकायाम्) तत्सहितस्यैवास्य व्यापार इति निश्चीयते -- श्रोत्रमित्यादि अचेतस इत्यन्तम्। मनः इत्यनेनान्तःकरणमुपलक्ष्यते। अत एव शरीरस्थितियोगात्तिष्ठन्तम् शरीरान्तरग्रहणाय उत्क्रामन्तम् विषयान्वा भुञ्जानं मूढा न पश्यन्ति? अप्रबुद्धत्त्वात्। प्रबुद्धास्तु सर्वत्रैव बोधरूपमेव अनुसंदधाना (S??N -- रूपमनुसंदधानाः) जानन्त्येव? इत्यलुप्तमसमाधयः? तेषां यत्नपरत्त्वात्। ,अकृतात्मनां तु यत्नोऽपि न फलाय? अपरिपक्वकषायत्त्वात्। न हि शरदि सलिलादिसामग्रीसंमर्देऽपि धान्यबीजानि उप्यमानानि फलसंपदे अलम्। अत एव सामग्री एव सा अस्य न भवति। अन्यदेव किल,(S omits किल) मधुमाससंभृतजलधरपटलीप्रेरितमम्भः काचिदेव च सा भूः? यस्यां शिशिरविवशीकृतायां,(S??N शिशिरवशविवशी -- ) रविकरस्पर्शेनैव कान्तिः। एवम् अकृतात्मनां यत्नो न सकलाङ्गपरिपूर्णत्वमायाति (?N परिपूर्णः कर्तुमायाति)। अत एव प्राप्याप्युपायं पारमेश्वरदीक्षादि,( परमेश्वर) ये तथाविधक्रोधमोहादिग्रन्थिसन्दर्भगर्भीकृतान्तर्दृशः ( सन्दर्भीकृतान्तर्दृशः) ? तेषु उपाय एव साकल्यं न भजतीति मन्तव्यम्। यदुक्तम् (S??N तदुक्तम्) -- क्रोधादौ दृश्यमाने हि दीक्षितोऽपि न मुक्तिभाक्। इति।

Translation · English

15.9 See Comment under 15.11

Compare this verse →
15.10Krishna

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्। विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥

Commentary · Sanskrit

।।15.9 -- 15.11।।एवं सृष्टौ संहारे च एतैः साहित्यमस्योक्त्वा स्थितावपि स्थानासनमननादिरूपायां (N ममतादि) विषयग्रहणात्मिकायां ( omits स्थितावपि -- त्मिकायाम्) तत्सहितस्यैवास्य व्यापार इति निश्चीयते -- श्रोत्रमित्यादि अचेतस इत्यन्तम्। मनः इत्यनेनान्तःकरणमुपलक्ष्यते। अत एव शरीरस्थितियोगात्तिष्ठन्तम् शरीरान्तरग्रहणाय उत्क्रामन्तम् विषयान्वा भुञ्जानं मूढा न पश्यन्ति? अप्रबुद्धत्त्वात्। प्रबुद्धास्तु सर्वत्रैव,बोधरूपमेव अनुसंदधाना (S??N -- रूपमनुसंदधानाः) जानन्त्येव? इत्यलुप्तमसमाधयः? तेषां यत्नपरत्त्वात्। अकृतात्मनां तु यत्नोऽपि न फलाय? अपरिपक्वकषायत्त्वात्। न हि शरदि सलिलादिसामग्रीसंमर्देऽपि धान्यबीजानि उप्यमानानि फलसंपदे अलम्। अत एव सामग्री एव सा अस्य न भवति। अन्यदेव किल,(S omits किल) मधुमाससंभृतजलधरपटलीप्रेरितमम्भः काचिदेव च सा भूः? यस्यां शिशिरविवशीकृतायां,(S??N शिशिरवशविवशी -- ) रविकरस्पर्शेनैव कान्तिः। एवम् अकृतात्मनां यत्नो न सकलाङ्गपरिपूर्णत्वमायाति (?N परिपूर्णः कर्तुमायाति)। अत एव प्राप्याप्युपायं पारमेश्वरदीक्षादि,( परमेश्वर) ये तथाविधक्रोधमोहादिग्रन्थिसन्दर्भगर्भीकृतान्तर्दृशः ( सन्दर्भीकृतान्तर्दृशः) ? तेषु उपाय एव साकल्यं न भजतीति मन्तव्यम्। यदुक्तम् (S??N तदुक्तम्) -- क्रोधादौ दृश्यमाने हि दीक्षितोऽपि न मुक्तिभाक्। इति।

Translation · English

15.10 See Comment under 15.11

Compare this verse →
15.11Krishna

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्। यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥

Commentary · Sanskrit

।।15.9 -- 15.11।।एवं सृष्टौ संहारे च एतैः साहित्यमस्योक्त्वा स्थितावपि स्थानासनमननादिरूपायां (N ममतादि) विषयग्रहणात्मिकायां ( omits स्थितावपि -- त्मिकायाम्) तत्सहितस्यैवास्य व्यापार इति निश्चीयते -- श्रोत्रमित्यादि अचेतस इत्यन्तम्। मनः इत्यनेनान्तःकरणमुपलक्ष्यते। अत एव शरीरस्थितियोगात्तिष्ठन्तम् शरीरान्तरग्रहणाय उत्क्रामन्तम् विषयान्वा भुञ्जानं मूढा न पश्यन्ति? अप्रबुद्धत्त्वात्। प्रबुद्धास्तु सर्वत्रैव,बोधरूपमेव अनुसंदधाना (S??N -- रूपमनुसंदधानाः) जानन्त्येव? इत्यलुप्तमसमाधयः? तेषां यत्नपरत्त्वात्। अकृतात्मनां तु यत्नोऽपि न फलाय? अपरिपक्वकषायत्त्वात्। न हि शरदि सलिलादिसामग्रीसंमर्देऽपि धान्यबीजानि उप्यमानानि फलसंपदे अलम्। अत एव सामग्री एव सा अस्य न भवति। अन्यदेव किल,(S omits किल) मधुमाससंभृतजलधरपटलीप्रेरितमम्भः काचिदेव च सा भूः? यस्यां शिशिरविवशीकृतायां,(S??N शिशिरवशविवशी -- ) रविकरस्पर्शेनैव कान्तिः। एवम् अकृतात्मनां यत्नो न सकलाङ्गपरिपूर्णत्वमायाति (?N परिपूर्णः कर्तुमायाति)। अत एव प्राप्याप्युपायं पारमेश्वरदीक्षादि,( परमेश्वर) ये तथाविधक्रोधमोहादिग्रन्थिसन्दर्भगर्भीकृतान्तर्दृशः ( सन्दर्भीकृतान्तर्दृशः) ? तेषु उपाय एव साकल्यं न भजतीति मन्तव्यम्। यदुक्तम् (S??N तदुक्तम्) -- क्रोधादौ दृश्यमाने हि दीक्षितोऽपि न मुक्तिभाक्। इति।

Translation · English

15.9-11 Srotram etc. upto asetasah. Mind : the internal organ is hery implied. Hence, due to His association of the bodily existence, when He remains [in the body], or rises up to seize another body, or enjoys the sense objects - at that time the deluded persons do not perceive Him, because they are not well enlightened. But, considering everything as manifestation of the [Self] awareness, the highly enlightened men recognize Him. Thus they are men of unbroken contemplation. Because they are engrossed in their exertion. But in the case of those who have not mastered their self (mind), even their effort does not yield any fruit, because their passion has not yet been fully decayed. Indeed the seeds of corn, sown during the autumnal season are not capable of yielding a rich harvest, even though the means like water etc., get collected together. Therefore, it (the water etc.) does not constitute a collection of means. Indeed totally different is the water sent forth by the mass of clouds that had been filled up in the month of Madhu. Altogether different is the earth that had been under the grip of the Cold-season (Sisira) and has (now) brilliance by the simple touch of the sun-rays. In the same way, the effort of the men of uncontrolled self, never gets to the stage of fulfilment of all reisities . That is why those who, even after receiving the means like the inititation etc. necessary for the realisation of the Supreme Lord, continue to have their inner vision filled with the collection of the knots (granthi) of anger, bewilderment etc., in the manner as before-in their case, even the means does never bear any fruit. This must be borne in mind. For, it is has been said : 'When anger etc., are seen, then even the initiated one never gets emancipation'.

Compare this verse →
15.12Krishna

यदादित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥

Commentary · Sanskrit

।।15.12 -- 15.14।।यदादित्येत्यादि चतुर्विधमित्यन्तम्। अर्कादितेजस्त्रयरूपतया दशमाध्यायसूचितसृष्टिस्थितिसंहार [कर्तृत्व] प्रकटीकरणे श्रीगुरवः प्राहुः (?N श्रीगुरवस्त्त्वाहुः) -- भूतपञ्चकस्य समस्तव्यस्ततया यल्लोकधारकत्वं ( लोकद्वयाधारकत्वं च) तद्भगवत एव माहेश्वर्यमित्येतदनेन [उक्तमिति]। तथाहि -- रवितेजसः प्रकाशकत्वं धारकत्वं च तेजोधराद्वयतादात्म्यात्। तदेतदुक्तम् यदादित्यगतम् इति गामाविश्य च इति चार्धद्वयेन। चान्द्रं तेजः प्रकाशकं पोषकं च? धराजलतेजोयोगात् (K. omits धरा)। तदुक्तम् यच्चन्द्रमसि इत्यनेन भागेन पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः (?N omit चौषधीः -- त्मकः) इति चार्धश्लोकेन। वाह्नं तु तेजः प्रकाशनशोषणदहनस्वेदनपचनात्मकं पृथिव्यप्तेजोवायुयोगात्। तदेतदिहोक्तम् (N तदेवेहोक्तम्) यच्चाग्नौ इत्यनेन? अहं वैश्वानरः इत्यनेन च (S??N इति श्लोकेन च)। नभस्तु बोधावकाशरूपतया सर्वगतमेव।

Translation · English

15.12 See Comment under 15.14

Compare this verse →
15.13Krishna

गामाविश्य च भूतानि धारयाम्यहमोजसा। पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥

Commentary · Sanskrit

।।15.12 -- 15.14।।यदादित्येत्यादि चतुर्विधमित्यन्तम्। अर्कादितेजस्त्रयरूपतया दशमाध्यायसूचितसृष्टिस्थितिसंहार [कर्तृत्व] प्रकटीकरणे श्रीगुरवः प्राहुः (?N श्रीगुरवस्त्त्वाहुः) -- भूतपञ्चकस्य समस्तव्यस्ततया यल्लोकधारकत्वं ( लोकद्वयाधारकत्वं च) तद्भगवत एव माहेश्वर्यमित्येतदनेन [उक्तमिति]। तथाहि -- रवितेजसः प्रकाशकत्वं धारकत्वं च तेजोधराद्वयतादात्म्यात्। तदेतदुक्तम् यदादित्यगतम् इति गामाविश्य च इति चार्धद्वयेन। चान्द्रं तेजः प्रकाशकं पोषकं च? धराजलतेजोयोगात् (K. omits धरा)। तदुक्तम् यच्चन्द्रमसि इत्यनेन भागेन पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः (?N omit चौषधीः -- त्मकः) इति चार्धश्लोकेन। वाह्नं तु तेजः प्रकाशनशोषणदहनस्वेदनपचनात्मकं पृथिव्यप्तेजोवायुयोगात्। तदेतदिहोक्तम् (N तदेवेहोक्तम्) यच्चाग्नौ इत्यनेन? अहं वैश्वानरः इत्यनेन च (S??N इति श्लोकेन च)। नभस्तु बोधावकाशरूपतया सर्वगतमेव।

Translation · English

15.13 See Comment under 15.14

Compare this verse →
15.14Krishna

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥

Commentary · Sanskrit

।।15.12 -- 15.14।।यदादित्येत्यादि चतुर्विधमित्यन्तम्। अर्कादितेजस्त्रयरूपतया दशमाध्यायसूचितसृष्टिस्थितिसंहार [कर्तृत्व] प्रकटीकरणे श्रीगुरवः प्राहुः (?N श्रीगुरवस्त्त्वाहुः) -- भूतपञ्चकस्य समस्तव्यस्ततया यल्लोकधारकत्वं ( लोकद्वयाधारकत्वं च) तद्भगवत एव माहेश्वर्यमित्येतदनेन [उक्तमिति]। तथाहि -- रवितेजसः प्रकाशकत्वं धारकत्वं च तेजोधराद्वयतादात्म्यात्। तदेतदुक्तम् यदादित्यगतम् इति गामाविश्य च इति चार्धद्वयेन। चान्द्रं तेजः प्रकाशकं पोषकं च? धराजलतेजोयोगात् (K. omits धरा)। तदुक्तम् यच्चन्द्रमसि इत्यनेन भागेन पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः (?N omit चौषधीः -- त्मकः) इति चार्धश्लोकेन। वाह्नं तु तेजः प्रकाशनशोषणदहनस्वेदनपचनात्मकं पृथिव्यप्तेजोवायुयोगात्। तदेतदिहोक्तम् (N तदेवेहोक्तम्) यच्चाग्नौ इत्यनेन? अहं वैश्वानरः इत्यनेन च (S??N इति श्लोकेन च)। नभस्तु बोधावकाशरूपतया सर्वगतमेव।

Translation · English

15.12-14 Yad aditya-etc. upto caturvidham. While clarifying the role [of the Lord] as the Creator, Sustainer and Destroyer - a role that has been indicated in the Tenth Chapter - by [the description of Him as identical with] the triple luminories like the sun etc., our venerable preceptor has rightly said : The present passage declares that the power, the pentad of elements has [both] collectively and individually, to sustain the world, is the Absolute power of the Bhagavat Himself. For instance : The sunlight has the power of illumining and sustaining, because the twin elements of the fire and the earth are one [with the Bhagavat]. This has been started by the twin hemistitches '[That light] which is found in the sun etc.' and 'And by penetrating the earth etc.' The moon-light is illumining and nourishing because of its assoication of the elements of the earth, the water and the fire [with the Bhagavat]. That has been stated by the portion '[That light] which is in the moon' and by the hemistitch 'Being the sapful moon I nourish all plants'. The light of fire is, however, of the nature of illumining, parching, burning, sweating and ripening (or cooking). It is so because of the association of the elements, the earth, the water, the fire and the wind [with the Bhagavat]. The same has been said here by the portion, '[That light] which is in the fire' and also by the [entire verse] 'I, being the digestive fire etc.' But the [element] ether is no doubt all pervaisve (inclusive), because it is of the form of room which is nothing but awareness. Therefore, having so far explained the nature [of the Absolute Self] as the object of knowledge, now, with a view to show the Self to be conscious of the freedom that remains as a background (or substratum) of that very nature of object of knowledge; to be of transcending nature; to be the Supreme Lord; to be independent in all knowledges; and to be the Creator of all; [the Lord] says -

Compare this verse →
15.15Krishna

सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनञ्च। वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥

Commentary · Sanskrit

।।15.15।।अत एव बोध्यरूपतामुक्त्वा तद्बोध्यस्वरूपपृष्टपतितस्वातन्त्र्यबोधस्वभावमात्मानं परस्वभावं परमेश्वररूपं (?N परमेश्वरस्वरूपं) सर्वज्ञानस्वतन्त्रं सर्वकर्तारं दर्शयितुमाह -- सर्वस्येति। सर्वस्य वेद्यस्य यत् हृत् समस्ताहरणस्वतन्त्रबोधस्वभावं? तत्र अहमिति यो विमर्शः तत एव अपूर्वाभासनामयं ( अपूर्वावभासना -- ) ज्ञानं विश्वमहासृष्टिरूपम् अयं घट एव इति सर्वात्मकभावखण्डनासारं विकल्पज्ञानात्मकमपोहनं (?N विकल्पनाज्ञाना -- ) पाशवसृष्टिरूपमायामयप्रमात्रुचितम् स्मरणं च संस्कारशेषतां नीतस्य संहृतस्य पुनरवभासनात्मकमिति। इयता समस्तज्ञानानि संहृतानि इति सर्वज्ञतापूर्वकं स्वातन्त्र्यरूपं कर्तृत्वमुक्तम्। सर्वैरिति -- संभूय किल सर्वशास्त्राणां परमेशतत्त्वमेव निरूप्यम्। वेदवेदान्तकर्तृत्वेन कर्मफलतत्संबन्धादिद्वारतया अशेषविशेषनिर्माणे? तदुन्मूलनेन पुनः स्वरूपप्रतिष्ठापने ( -- प्रतिष्ठा भगवत एव) भगवत एव स्वातन्त्र्यमिति विश्वकर्तृत्वमुक्तम्। अन्ये तु अपोहनम् अनेन अकृतेन (S??N अन्येनाकृतेनेदं) इदं भवति इति व्यतिरेकबुद्धिः। वेदान्तं करोति इत्यात्मसाद्भावेन (?N सद्भावेन)। एवं (N एतं) वेदम्।

Translation · English

15.15 Sarvasya etc. The heart (core) of all obejcts is the Awareness which has the freedom of drawing in all [beings within itself] In it exists [as identical with it] the I-consciousness. From This are born (1) the faculty knowing, which is illumining anything new - a faculty which is (hence) in the form the mighty creation of the universe; (2) he faculty of differentiating, like fancying 'This is nothing but a pot', which fancying is in essence a sort of limiting Its status of being everything; which is suitable for the perceiver, full-of-Illusion in the form of creating a bonded Soul; and (3) also the faculty of remembrance which is the faculty of reilluminating what has been reduced ot mental impression and has been [thus] with-drawn. These [three] are inclusive of all [sorts of] knowledge. Thus [the Lord's primary] doership, which is nothing but the sovereignty of will and which presupposes His ominscience, has been taught [in this verse here]. By means of all [the Vedas] etc. : Indeed nothing, but the Supreme Lord is to be explained and proved by all the scriptures. [The description of the Lord] as the author of the Vedas and the ends of the Vedas (Upanisads) amounts to say this :- The Bhagavat alone has got the sovereign freedom in creating the entire universe, through the medium for the actions, their results, their [mutual] connections etc., and in re-establishing it on His (or its) own nature after rooting it out. Thus the Lord's creatorship with regard to the universe is explained. Others say : The word apohanam denotes the faculty of excluding (viz), 'This results from this non-performance.' [Again Vedantakrt] means : 'He effects the final part of the Vedas' i.e৷৷ by absorbing them into Himself. Similarly [with] 'the Vedas' too.

Compare this verse →
15.16Krishna

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥

Commentary · Sanskrit

।।15.16 -- 15.18।।द्वावित्यादि पुरुषोत्तम इत्यन्तम्। द्वाविमौ पुरुषौ इति ग्रन्थेनेदमुच्यते -- लोके तावदप्रबुद्धस्वभावोऽपि सर्वः पृथिव्यादिभूतारब्धशरीरम् आत्मानं चेतनं क्षररूपं जानाति इति लोकस्य मूढत्वात् द्वैतधीर्न निवर्तते। अहं तु सकलानुग्राही द्वैतग्रन्थिं विभिद्य सकललोकव्यापकतया वेद्य इति। क्षरमतीतः? भूतानां जडत्वात्। अक्षरमतीतः? आत्मनोऽप्रबुद्धत्वे सर्वव्यापकत्वखण्डनात्। पुरुषोत्तमो लोके वेदेऽपि सः उत्तमः पुरुषः इत्यादिभिर्वाक्यैः स एव परमात्मा अद्वयः एवमुच्यते।

Translation · English

15.16 See Comment under 15.18

Compare this verse →
15.17Krishna

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥

Commentary · Sanskrit

।।15.16 -- 15.18।।द्वावित्यादि पुरुषोत्तम इत्यन्तम्। द्वाविमौ पुरुषौ इति ग्रन्थेनेदमुच्यते -- लोके तावदप्रबुद्धस्वभावोऽपि सर्वः पृथिव्यादिभूतारब्धशरीरम् आत्मानं चेतनं क्षररूपं जानाति इति लोकस्य मूढत्वात् द्वैतधीर्न निवर्तते। अहं तु सकलानुग्राही द्वैतग्रन्थिं विभिद्य सकललोकव्यापकतया वेद्य इति। क्षरमतीतः? भूतानां जडत्वात्। अक्षरमतीतः? आत्मनोऽप्रबुद्धत्वे सर्वव्यापकत्वखण्डनात्। पुरुषोत्तमो लोके वेदेऽपि सः उत्तमः पुरुषः इत्यादिभिर्वाक्यैः स एव परमात्मा अद्वयः एवमुच्यते।

Translation · English

15.17 See Comment under 15.18

Compare this verse →
15.18Krishna

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥

Commentary · Sanskrit

।।15.16 -- 15.18।।द्वावित्यादि पुरुषोत्तम इत्यन्तम्। द्वाविमौ पुरुषौ इति ग्रन्थेनेदमुच्यते -- लोके तावदप्रबुद्धस्वभावोऽपि सर्वः पृथिव्यादिभूतारब्धशरीरम् आत्मानं चेतनं क्षररूपं जानाति इति लोकस्य मूढत्वात् द्वैतधीर्न निवर्तते। अहं तु सकलानुग्राही द्वैतग्रन्थिं विभिद्य सकललोकव्यापकतया वेद्य इति। क्षरमतीतः? भूतानां जडत्वात्। अक्षरमतीतः? आत्मनोऽप्रबुद्धत्वे सर्वव्यापकत्वखण्डनात्। पुरुषोत्तमो लोके वेदेऽपि सः उत्तमः पुरुषः इत्यादिभिर्वाक्यैः स एव परमात्मा अद्वयः एवमुच्यते।

Translation · English

15.16-18 Dvav imau etc. upto Purusottamah. What has been stated in the passage 'There are two persons in the world etc.', is this : The body organism is made of the earth and other elements. In the world every person, unitelligent by nature, takes the body for the Self and [hence] views the Soul to be of perishing nature. Hence, the sense of duality does not come to an end with regard to the worldly persons, because of their delusion. But I am (the I-consciousness is) the One favouring all, and by cutting the daulity-knot I am to be realised as the One pervading all. (I) have transcended the perishing : Since the elements are insentient. (I) have transcended the nonperishing : Since the omnipresence [of the Self] is cut off (not comprehended) when the Self is not properly realised. In the world and in the Veda too I am acclaimed as the Highest of Persons : The Self same Supreme Self, admitting no duality, is described in this manner with the sentences 'He is he Highest Person' and the like.

Compare this verse →
15.19Krishna

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्। स सर्वविद्भजति मां सर्वभावेन भारत ॥

Commentary · Sanskrit

।।15.19।।यो मामिति। एवं जानानः सर्वमयं मामेव ब्रह्मतत्त्वमुपासीनः सर्वं मन्मयत्वेन विदन् सर्वेम भावेन मूर्तिक्रियाज्ञानात्मकेन मामेव भजते यत् पश्यति तत् भगवन्मूर्तितयेत्यादि। तथा च मयैव शिवशक्त्यविनाभावस्तोत्रे -- तव च काचन (N का किल) न स्तुतिरम्बिके सकलशब्दमयी किल ते तनुः।निखिलमूर्तिषु मे भवदन्वयो मनसिजासु बहिष्प्ररासु (?N बहि प्रसरासु) च।।इति विचिन्त्य शिवे शमिताशिवे जगति जातमयत्नवशादिदम्।स्तुतिजपार्चनचिन्तनवर्जिता न खलु काचन कालकलापि (?N कालकलास्ति) मे।।इति।

Translation · English

15.19 Yo mam etc. He, who knows Me thus i.e., he who meditates exclusively on Me as identical with all, and to be the very Brahman - he realises all to be identical with Me and adores (or experiences) Me alone with his entire being viz., his form, action and thought. [That is to say], whatever he perceives, he experiences it as the form of the Bhagavat ; and so on. Hence [it has been said] by myself (Ag.) in the Sivasaktyavinabhavastotra as : O Mother (Goddess) ! Our praise to You is unusual one ; all (uttering) sounds constitute Your body indeed; in my entire body and in all [my] mental and external activities there is Your association. O Siva, O Alleviator of what is inauspicious ! When I fully contemplate in this manner, then it has been accomplished in the world, without any effort [of mine], that for me there is indeed not even a small fraction of time without praise, recitation [of hymns], worship and contemplation [of Yours].

Compare this verse →
15.20Krishna

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ। एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥

Commentary · Sanskrit

।।15.20।।इतीति। गुह्यतमं? सर्वाद्वयप्रतिपादकत्वात्। एतदेव बुद्ध्वा बुद्धिमत्त्वं? न तु व्यवहारबुद्ध्या। एतेन च ज्ञातेनैव कृतकृत्यता? न तु कृतेनापि शत्रुविजयार्थाहरणस्त्र्युपभोगादिना ( omits शत्रु)। चकारः अद्भुतद्योतकः। कृतेन (N एतेन) हि कृतकृत्यता दृष्टा? एतेन तु ज्ञातेनैवेति (?N ज्ञानेनैवेति) चित्रम्। इतिशब्देन शास्त्रस्य समाप्तिः सूचिता? वक्तव्यस्य परिपूर्णतया समाप्तत्वात्। तथा हि -- षोडशाध्यायेन शिष्यस्य अर्जुनस्य केवलं योग्यता प्रतिपाद्यते। न तु उपदिश्यते किञ्चित्। दैवी ह्येवंविधा संपत्? आसुरी चाविद्यामयी? एतादृशी (S? तादृशी) संपत् त्वं च विद्यामयीं दैवीं संपदमभिप्राप्तः इत्येतावति हि तात्पर्यम्। यद्वक्ष्यति मा शुचः संपदं दैवीम् इति। अत एव पूर्वं विद्याविद्यासंघट्टनिरूपणावसरे ( संबद्धनिरूपण N संघध्व (र्ष) -- ) देवासुरसंग्रामच्छलेन विद्याविद्ययोः संघर्षः इति सूचितम्। एवं च शिष्यस्वरूपे प्राधान्येन निरूप्यमाणे प्रसंगतः अन्यदप्युक्तम्? इत्यध्यायद्वयं भविष्यति। उपदेशस्त्वित एव परिसमाप्तः। सर्वभावेन हि परमेश्वरभजनम् आवेशरूपं प्राप्यम् ( प्राप्तम्)। तदर्थं चान्यत् सर्वमित्युक्तं प्राक्। सर्वमाहेश्वरस्वरूपावेश एव,हि परमं शिवम् इति।

Translation · English

15.20 Iti etc. The most secret [scripture] : Because it explains the oneness of all. One becomes a man of wisdom by knowing this only and not by the knowledge of worldly affairs. One becomes a man of success by just understanding this, and not even by the deeds like the total victory over the foes, earning wealth, enjoying women and so on. The word ca 'also' indicates a wonder. Has it not been witnessed that [always] one becomes a man of success by what has been accomplished ? But it is strange that [in the present case one becomes a man of success] by just what has been realised. The word iti 'thus' indicates the conclusion of the treatise. For, what is to be taught has come to an end completely. That is why in the Sixteenth Chapter the eligibility of the pupil, Arjuna, is exclusively dealt with; and nothing new is taught. The intention [of that chapter] is to say only this much : 'The divine wealth is just of that nature; but the devilish wealth born of illusion is of this nature; you (Arjuna) are however endowed with the divine wealth of wisdom'. Hence [the Lord] is going to say 'Don't worry. [You are endowed] with the divine wealth' (XVI, 5). That is why earlier in the context of explaining the clash between the wisdom and ignorance this has been indicated [by me (Ag.)]: 'It is the confrontation between the wisdom and ignorance that has been detailed under the pretext of [describing] the wars between the gods and devils.' So, while dealing essentially with the ality of a pupil, other subjects are mentioned incidentally. So also the pair of chapters (Ch. XVII & XVIII) would follow. But the teaching [proper] has come to an end completely here itself. For what is to be achieved is nothing but serving (attaining) the Absolute Lord-the serving, which is of the nature of total absorption into Him by one's entire being. All other things are only to achieve this end. This has been explained earlier. The Supreme Happiness is indeed nothing but a complete absorption into the Supreme Lord by one's entire being.

Compare this verse →