16.1Krishna

श्रीभगवानुवाच। अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥

Commentary · Sanskrit

।।16.1 -- 16.5।।एतद्बुद्ध्वा इत्युक्तम्। बोधश्च नाम श्रुतिमयज्ञानान्तरम् (S श्रुत -- ) इदमित्थम् इत्येवंभूतयुक्तिचिन्ताभावनामयज्ञानोदेयेन (S??N चिन्तामयज्ञानोदयेन) विचारविमर्शपरमर्शादिरूपेण विजातीयन्यक्कारविरहिततद्भावनामयस्वभ्यस्ताकारविज्ञानलाभे सति भवति। यद्वक्ष्यते (S तद्वक्ष्यते N तद्वक्ष्यति) -- विमृश्यैतदशेषेण यथेच्छसी तथा कुरु (XVIII? 63) इति। तत्र श्रुतिमये ज्ञाने गुरुशास्त्रे एव प्राधान्येन प्रभवतः युक्तिचिन्ताभावनामये तु विमर्शक्षमता असाधारणा शिष्यगुणसंपत् ( -- रणशिष्य -- ) प्रधानभूता। अतः अर्जुनस्यास्त्येवासौ इत्यभिप्रायेण वक्ष्यमाणं विमृश्यैतत् इति वाक्यं सविषयं कर्तुं परिकरबन्धयोजनाभिप्रायेण आह भगवान् गुरुः अभयम् इत्यादि।आसुरभागसन्नविष्टा तामसी किल अविद्या। सा प्रवृद्धया दिव्यांशग्राहित्या विद्यया बाध्यते ( प्रवृद्धाया -- विद्याया बध्यते) इति वस्तुस्वभाव एषः। त्वं च विद्यात्मानं दिव्यमंशं सात्त्विकमभिप्रपन्नः तस्मादान्तरीं मोहलक्षणामविद्यां विहाय बाह्याविद्यात्मशत्रुहननलक्षणं (S बाह्यविद्या) शास्त्रीयव्यापारम् अनुतिष्ठ इत्यध्यायारम्भः।तथाहि -- अभयमित्यादि पाण्डवेत्यन्तम्। दिव्यांशस्य इमानि चिह्नानि तानि स्फुटमेवाभिलक्ष्यन्ते (S? स्फुटमेवोपलक्ष्यन्ते)। दमः (S omits दमः) इन्द्रियजयः। चापलं पूर्वापरमविमृश्य यत् करणम्? तदभावः अचापलम्। तेजः आत्मनि उत्साहग्रहणेन मितत्वापाकरणम्। दैवी संपदेषा। सा च तव विमोक्षाय? कामनापरिहारात्। अतस्त्वं शोकं मा प्रापः -- यथा भ्रात्रादीन् हत्वा सुखं कथमश्नुवीय इति। शिष्टं स्पष्टम्।

Translation · English

16.1 See Coment under 16.5

Compare this verse →
16.2Krishna

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्। दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥

16.2 See Coment under 16.5

Compare this verse →
16.3Krishna

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता। भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥

6.3 See Coment under 16.5

Compare this verse →
16.4Krishna

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च। अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥

16.4 See Coment under 16.5

Compare this verse →
16.5Krishna

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता। मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥

16.1-5 It has been stated [at the end of the last chapter] that 'by understanding this' etc. The thing called 'understanding' comes to be [in the following] manner : After the knowledge, born from hearing [the scriptures etc.], there arises a thought-process consisting of the logical analysis, deliberation and deep meditation that take the form 'This (what is taught in the scriptures etc.) is like this'. The above thought-process is of the nature of investigation, critical examination and judgement. From this thought-process one gains a good knowledge of a well practised from i.e., a contemplation of that object, free from the humiliation (influence) of different category. When this is gained, understanding is achieved Hence, it will be declared : 'By critically examining in this way fully, act as you please'. (Ch. XVIII, 63). Here, only the preceptor and the scripture are mainly capable of creating the scriptural knowledge. But in producing reasoning, deliberation and meditation the main cause is the capacity to examine critically a thing and it is a special attribute of the pupil and it is an important one. Therefore, with an idea that this is in Arjuna and with an intention to add a preparatory note to the purposeful statement 'By critically examining this, [act as you please]'; the Bhagavat, the preceptor, says 'Fearlessness etc.' The Ignorance, born of the Tamas (Stand) occupies the devilish side. This is repelled (or removed) by the well augmented wisdom that takes hold of the divine part. This is the nature of things [under estion] 'You (Arjuna) have taken refuge in the divine part viz., wisdom, born of the Sattva (Strand). Therefore shirking off the internal Ignorance in the nature of delusion, you should undertake the action, that has the sanction of the scriptures and that is of the nature of eradicating the external foe having the form of ignorance.' Thus commences the [present] chapter. Hence - Abhayam etc., upto pandava. These are the identification marks of a person of divine parts. [Hence] they are clearly identified. Self-restraint : subduing the sense organs. Thought-lessness : the perfarmance of action without examining the antecedent and the seel; its absence is the absence of thought-lessness. Vital power : the act of casting away [all] limitations by taking hold energy in the Self. [All] this is the divine wealth and this is for your total emancipation, as it destroys craving. Therefore, don't get sorrow like 'Having killed brothers etc., how can I (Arjuna) enjoy pleasure ?' [The idea of] the rest [of passage] is clear.

Compare this verse →
16.6Krishna

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च। दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥

Commentary · Sanskrit

।।16.6।।द्वाविति। एषा दैवी संपदुक्ता अभयम् इत्यादिना।

Translation · English

16.6 Dvau etc. This divine wealth has been described [by the passage] 'Fearlessness' etc. Now the demoniac [wealth], He describes :

Compare this verse →
16.7Krishna

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः। न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥

Commentary · Sanskrit

।।16.7।।आसुरीमाह -- प्रवृत्तिमिति। प्रवृत्तिः -- कुत इदमुत्पन्नमिति। निवृत्तिः क्व प्रलीयते इति।

Translation · English

16.7 Pravrttim etc. Origin : i.e. wherefrom this [universe] is born. Withdrawal : i.e. into what this gets dissolved.

Compare this verse →
16.8Krishna

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्। अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥

Commentary · Sanskrit

।।16.8।।असत्यमिति। न किञ्चित् दृष्टादन्यत् कार्यं विद्यते यत्रेति अकिञ्चित्कम्।

Translation · English

16.8 Asatyam etc. [It] has nothing beyond : Here there is no other thing beyond what is seen.

Compare this verse →
16.9Krishna

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः। प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥

Commentary · Sanskrit

।।16.9 -- 16.12।।एतामित्यादि अर्थसंचयानित्यन्तम्। चिन्ता तेषां प्रलयान्ता अवरितं (ता) संसृतिप्रलयाव्युपरमात्। एतावदितिकामोपभोग एव परं (परमं) कृत्यम् [एषाम्] तन्नाशाच्च परं क्रोधः। अत एवाह कामक्रोधपरायणाः इति।

Translation · English

16.9 See Coment under 16.12

Compare this verse →
16.10Krishna

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः। मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥

Commentary · Sanskrit

।।16.9 -- 16.12।।एतामित्यादि अर्थसंचयानित्यन्तम्। चिन्ता तेषां प्रलयान्ता अवरितं (ता) संसृतिप्रलयाव्युपरमात्। एतावदितिकामोपभोग एव परं (परमं) कृत्यम् [एषाम्] तन्नाशाच्च परं क्रोधः। अत एवाह कामक्रोधपरायणाः इति।

Translation · English

16.10 See Coment under 16.12

Compare this verse →
16.11Krishna

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः। कामोपभोगपरमा एतावदिति निश्चिताः ॥

Commentary · Sanskrit

।।16.9 -- 16.12।।एतामित्यादि अर्थसंचयानित्यन्तम्। चिन्ता तेषां प्रलयान्ता अवरितं (ता) संसृतिप्रलयाव्युपरमात्। एतावदितिकामोपभोग एव परं (परमं) कृत्यम् [एषाम्] तन्नाशाच्च परं क्रोधः। अत एवाह कामक्रोधपरायणाः इति।

Translation · English

16.11 See Coment under 16.12

Compare this verse →
16.12Krishna

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः। ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥

Commentary · Sanskrit

।।16.9 -- 16.12।।एतामित्यादि अर्थसंचयानित्यन्तम्। चिन्ता तेषां प्रलयान्ता अवरितं (ता) संसृतिप्रलयाव्युपरमात्। एतावदितिकामोपभोग एव परं (परमं) कृत्यम् [एषाम्] तन्नाशाच्च परं क्रोधः। अत,एवाह कामक्रोधपरायणाः इति।

Translation · English

16.9-12 Etam etc. upto arthasancayam : Their anxiety ends only at the time of dissolution i.e. never ceases, becaue the rise and dissolution never end. This much alone : For them the highest goal to be achieved is but the gratification of desires, and when this (aim) is just ruined, there arises anger. Hence the Lord says 'Devoted to their craving and anger'.

Compare this verse →
16.13Krishna

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्। इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥

Commentary · Sanskrit

।।16.13 -- 16.16।।इहमद्येत्यादि अशुचौ इत्यन्तम्। अनेकचित्ता (A अनेकचिन्ताः N अनेकचित्तविभ्रान्ताः) इतिनिश्चयाभावात्। अशुचौ निरये? अवीच्यादौ? जन्ममरणसन्ताने च।

Translation · English

16.13 See Coment under 16.16

Compare this verse →
16.14Krishna

असौ मया हतः शत्रुर्हनिष्ये चापरानपि। ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥

Commentary · Sanskrit

।।16.13 -- 16.16।।इहमद्येत्यादि अशुचौ इत्यन्तम्। अनेकचित्ता (A अनेकचिन्ताः N अनेकचित्तविभ्रान्ताः) इतिनिश्चयाभावात्। अशुचौ निरये? अवीच्यादौ? जन्ममरणसन्ताने च।

Translation · English

16.14 See Coment under 16.16

Compare this verse →
16.15Krishna

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया। यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥

Commentary · Sanskrit

।।16.13 -- 16.16।।इहमद्येत्यादि अशुचौ इत्यन्तम्। अनेकचित्ता (A अनेकचिन्ताः N अनेकचित्तविभ्रान्ताः) इतिनिश्चयाभावात्। अशुचौ निरये? अवीच्यादौ? जन्ममरणसन्ताने च।

Translation · English

16.15 See Coment under 16.16

Compare this verse →
16.16Krishna

अनेकचित्तविभ्रान्ता मोहजालसमावृताः। प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥

Commentary · Sanskrit

।।16.13 -- 16.16।।इहमद्येत्यादि अशुचौ इत्यन्तम्। अनेकचित्ता (A अनेकचिन्ताः N अनेकचित्तविभ्रान्ताः) इतिनिश्चयाभावात्। अशुचौ निरये? अवीच्यादौ? जन्ममरणसन्ताने च।

Translation · English

16.13-16 Idam adya etc. upto asucau. Endowed with many thoughts etc. For, they do not have any conviction. Into the hell and what is foul : in the [hell] Avici and the like and in the regular succession of birth and death.

Compare this verse →
16.17Krishna

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः। यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥

Commentary · Sanskrit

।।16.17 -- 16.20।।आत्मसंभाविता इत्यादि गतिमित्यन्तम्। यज्ञैर्यजन्ते नाम? निष्फलमित्यर्थः। क्रोधेन हि सर्वं नश्यतीत्यर्थः। यद्वा नामयज्ञैः? संज्ञामात्रेणैव (S? omit एव) ये यज्ञाः तैः (S? omit तैः)। अथवा -- नामार्थं प्रसिद्ध्यर्थं ये यज्ञाः ( omits ये यज्ञाः) -- येन (S omits येन) यज्ञयाजी अयम् इति व्यपदेशो जायते -- ते दम्भपूर्वका एव? न तु फलन्ति। क्रोधादिरूषितत्वादेव लोकान् द्विषन्तो मामेव द्विषन्ति। अहं वासुदेवो हि सर्वावासः। आत्मनि च द्वेषवन्तः आत्मनो ( आत्मने) ह्यहितं निरयपातहेतुम् आचरन्ति (S उपाचरन्ति)। तांश्चाहम् आसुरीष्वेव योनिषु क्षिपामि।

Translation · English

16.17 See Coment under 16.20

Compare this verse →
16.18Krishna

अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः। मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥

Commentary · Sanskrit

।।16.17 -- 16.20।।आत्मसंभाविता इत्यादि गतिमित्यन्तम्। यज्ञैर्यजन्ते नाम? निष्फलमित्यर्थः। क्रोधेन हि सर्वं नश्यतीत्यर्थः। यद्वा नामयज्ञैः? संज्ञामात्रेणैव (S? omit एव) ये यज्ञाः तैः (S? omit तैः)। अथवा -- नामार्थं प्रसिद्ध्यर्थं ये यज्ञाः ( omits ये यज्ञाः) -- येन (S omits येन) यज्ञयाजी अयम् इति व्यपदेशो जायते -- ते दम्भपूर्वका एव? न तु फलन्ति। क्रोधादिरूषितत्वादेव लोकान् द्विषन्तो मामेव द्विषन्ति। अहं वासुदेवो हि सर्वावासः। आत्मनि च द्वेषवन्तः आत्मनो ( आत्मने) ह्यहितं निरयपातहेतुम् आचरन्ति (S उपाचरन्ति)। तांश्चाहम् आसुरीष्वेव योनिषु क्षिपामि।

Translation · English

16.18 See Coment under 16.20

Compare this verse →
16.19Krishna

तानहं द्विषतः क्रुरान्संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥

Commentary · Sanskrit

।।16.17 -- 16.20।।आत्मसंभाविता इत्यादि गतिमित्यन्तम्। यज्ञैर्यजन्ते नाम? निष्फलमित्यर्थः। क्रोधेन हि सर्वं नश्यतीत्यर्थः। यद्वा नामयज्ञैः? संज्ञामात्रेणैव (S? omit एव) ये यज्ञाः तैः (S? omit तैः)। अथवा -- नामार्थं प्रसिद्ध्यर्थं ये यज्ञाः ( omits ये यज्ञाः) -- येन (S omits येन) यज्ञयाजी अयम् इति व्यपदेशो जायते -- ते दम्भपूर्वका एव? न तु फलन्ति। क्रोधादिरूषितत्वादेव लोकान् द्विषन्तो मामेव द्विषन्ति। अहं वासुदेवो हि सर्वावासः। आत्मनि च द्वेषवन्तः आत्मनो ( आत्मने) ह्यहितं निरयपातहेतुम् आचरन्ति (S उपाचरन्ति)। तांश्चाहम् आसुरीष्वेव योनिषु क्षिपामि।

Translation · English

16.19 See Coment under 16.20

Compare this verse →
16.20Krishna

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि। मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥

Commentary · Sanskrit

।।16.17 -- 16.20।।आत्मसंभाविता इत्यादि गतिमित्यन्तम्। यज्ञैर्यजन्ते नाम? निष्फलमित्यर्थः। क्रोधेन हि सर्वं नश्यतीत्यर्थः। यद्वा नामयज्ञैः? संज्ञामात्रेणैव (S? omit एव) ये यज्ञाः तैः (S? omit तैः)। अथवा -- नामार्थं प्रसिद्ध्यर्थं ये यज्ञाः ( omits ये यज्ञाः) -- येन (S omits येन) यज्ञयाजी अयम् इति व्यपदेशो जायते -- ते दम्भपूर्वका एव? न तु फलन्ति। क्रोधादिरूषितत्वादेव लोकान् द्विषन्तो मामेव द्विषन्ति। अहं वासुदेवो हि सर्वावासः। आत्मनि च द्वेषवन्तः आत्मनो ( आत्मने) ह्यहितं निरयपातहेतुम् आचरन्ति (S उपाचरन्ति)। तांश्चाहम् आसुरीष्वेव योनिषु क्षिपामि।

Translation · English

16.17-20 Atmasambhavitah etc. upto gatim. They pretend to perform sacrifices : The meaning is that their sacrifice is fruitless. Indeed all is ruined because of their anger. Or, namayjna [may mean] 'the sacrifices which are in name only'. Or, it [may denote] those sacrifices that are performed for one's name sake i.e., for one's reputation, because of which one gets the appellation as 'He is performer of [such and such] sacrifices' These sacrifices, performed out of hypocricy alone, do not , however fetch any fruit. Becasue these persons are rugged with anger etc., they hate people and by that they hate Me only [in fact]. For, I, the Vasudeva (the Universal Soul), dwell every-where. Entertaining hatred towards their own Soul, they perform action, that is hostile to themselves, and responsible for their own fall into the hells. These persons I hurl into nothing but the demoniac wombs.

Compare this verse →
16.21Krishna

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः। कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥

Commentary · Sanskrit

।।16.21 -- 16.22।।त्रिविधमिति। एतैरिति। यत कामादिकं त्रयं (N त्रितयम्) नरकस्य द्वारं? तस्मात् एतत्,त्यज़ेत्।

Translation · English

16.21 See Coment under 16.22

Compare this verse →
16.22Krishna

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः। आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥

Commentary · Sanskrit

।।16.21 -- 16.22।।त्रिविधमिति। एतैरिति। यत कामादिकं त्रयं (N त्रितयम्) नरकस्य द्वारं? तस्मात् एतत् त्यज़ेत्।

Translation · English

16.21-22 Trividham etc. Etaih etc. Because the traid of desire etc., constitute the gate to the hell, therefore one should avoid that. What has been stated should not be neglected on the assumption that it is [based on] the human word. On the other hand, there is the authority of the eternal scripture on this subject. This is said [here] –

Compare this verse →
16.23Krishna

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः। न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥

Commentary · Sanskrit

।।16.23 -- 16.24।।न चैतत् पुरुषवचनमित्यनादरणीयम्? अपि तु अनादिशास्त्रमत्र प्रमाणम् इत्युच्यते -- यः शास्त्रविधिमिति। तस्मादिति। शास्त्रविधिं त्यजत स्वमनीषयैव कार्याकार्यविचारं कुर्वतः प्रत्युत नरकपातः। तस्मात् आत्मबुद्ध्या (S??N add शास्त्रमननुसृत्य after आत्मबुद्ध्या) कार्याकार्यव्यवस्थां मा कार्षीः इति तात्पर्यम् [इति]।

Translation · English

16.23 See Coment under 16.24

Compare this verse →
16.24Krishna

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ। ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥

Commentary · Sanskrit

।।16.23 -- 16.24।।न चैतत् पुरुषवचनमित्यनादरणीयम्? अपि तु अनादिशास्त्रमत्र प्रमाणम् इत्युच्यते -- यः शास्त्रविधिमिति। तस्मादिति। शास्त्रविधिं त्यजत स्वमनीषयैव कार्याकार्यविचारं कुर्वतः प्रत्युत नरकपातः। तस्मात् आत्मबुद्ध्या (S??N add शास्त्रमननुसृत्य after आत्मबुद्ध्या) कार्याकार्यव्यवस्थां मा कार्षीः इति तात्पर्यम् [इति]।

Translation · English

16.23-24 Yah sastravidhim etc. Tasmat etc. On the other hand, a fall into the hell is [inevitable] for a person who rejects the scriptural injunctions and makes, using his own intellect, an analysis as to what is to be done and what is not to be done. Therefore, don't make a decision with your intellect about what is to be done and what is not to be done.-This is what is intended to be conveyed here.

Compare this verse →