16.1Krishna

श्रीभगवानुवाच। अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥

Commentary · Sanskrit

।।16.1।।अध्यायप्रतिपाद्यं दर्शयति -- पुमर्थेति। यद्यपि पूर्वयोरध्याययोः साधनप्रतिपादन एव तात्पर्यं? तथापि तन्न प्रपञ्चितम्। किं नाम बन्धस्वरूपम्। साधनमनुतिष्ठता च तद्विरोधिनां त्यागोऽवश्यं करणीयः। पूर्वाध्याये चनिर्मानमोहाः [15।5] इत्यादिना पुमर्थयोर्ज्ञानमोक्षयोः साधनंयतन्तोऽप्यकृतात्मानः [15।11] इत्यादिना तद्विरोधि च सङ्क्षेपेणोक्तम्? तदुभयमिदानीं प्रपञ्चनीयम्। सुरासुरलक्षणं च तथेति तदनेनाध्यायेन दर्शयतीत्यर्थः।तपो वक्ष्यमाणं इति कश्चित् (शां.) तदसत्?देवद्विजगुरुप्राज्ञ -- [17।14] इत्यादिनोक्तस्यात्र ग्रहणे शौचादेरपि तपोग्रहणेन गृहीतत्वात् पुनरुक्तिप्रसङ्गात्? अतो वक्ष्यमाणान्तर्गतं यदत्र पृथगुच्यते तद्व्यतिरिक्तमेव? तच्च प्रधानस्यैवोपलक्षणत्वोपपत्तेर्नोपवासादीति भावेन सप्रमाणकमाह -- तप इति।

Compare this verse →
16.2Krishna

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्। दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥

Commentary · Sanskrit

।।16.2।।पैशुनाभावोऽपैशुनं च परस्यापराधावचनमिति तदसत्? शिष्यादिदोषानुवादस्य शिक्षार्थस्यापि तत्त्वप्राप्तेरित्याशयेनाह -- पैशुनमिति। राजादेस्तच्छ्रावणम्। परोपद्रवनिमित्तेति दोषेषूपचारः। अनेन परोपद्रवायेति सूचयति। वचः कथनम्। मदात्कारणात्। भीतेरदृष्टिरनुत्पत्तिरिति यावत्। भीतेर्भीतिकारणस्य तथात्वेनादृष्टिरिति वा। बालादीनां भीतेरदर्शनं व्यावर्तयितुंमदात् इत्युक्तम्। अनेन धात्वर्थोऽप्यनुगतः। एतेनासुरलक्षणं दर्पोऽपि व्याख्यातः। अलोलुप्त्वाचापलत्वयोर्भेदं क्रमेण सप्रमाणकं दर्शयति -- लौल्यमिति। लोलुप्त्वपर्यायोऽयमिति अतएवमुक्तम्।

Compare this verse →
16.3Krishna

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता। भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥

Commentary · Sanskrit

।।16.3।।अक्रोधः [16।2] इत्युक्तत्वात् क्षमेति पुनरुक्तिरित्यत आह -- क्षमा त्विति। क्रोधं दोषं अपकारं च न करोतीत्यक्रोधदोषकृत्। शत्रोरपकर्तुः।

Compare this verse →
16.4Krishna

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च। अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥

Commentary · Sanskrit

।।16.4।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
16.5Krishna

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता। मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥

Commentary · Sanskrit

।।16.5।।सम्पदं दैवीमभिजातोऽसि इत्यत्राभिजात उत्तमजन्मा। नायं धातुः सकर्मकः तत्कथं द्वितीया इत्याशङ्क्य अभिलक्ष्य जात इति केचित्(शं.)व्याचक्षते? तदसत्। अर्जुनस्य देवत्वेन देवत्वमुद्दिश्य जन्मायोगादित्याशयवानाह -- दैवीमिति। अनेनैतदाचष्टे -- नायमभिरुपसर्गः? येन तस्य जनिसम्बन्धे द्वितीयानुपपत्तिर्लक्षिसम्बन्धे चोक्तानुपपत्तिः स्यात् किन्तु प्रत्यर्थे लक्षणे कर्मप्रवचनीयः। तथा चकर्मप्रवचनीययुक्ते द्वितीया [अष्टा.2।3।8] उपपद्यते। तथावृक्षमभिवृक्षं प्रति विद्योतते इत्यत्र वृक्षो विद्योतनस्य लक्षणमित्यर्थः। एवं दैवीसम्पज्जातस्य तव लक्षणमित्यर्थः। सम्पद्यते तथा चार्जुनस्य प्राप्तदेवत्वविरोध इति। अत एव सम्पदं दैवीमभिजातस्यअभिजातस्य पार्थ सम्पदमासुरीम् [16।4] इत्येतद्विहायेदं व्याख्यातम्। अर्जुनस्य देवत्वप्रसिद्धेरेतत्साहचर्यात्तत्राऽप्येतदर्थत्वोपपत्तेः।

Compare this verse →
16.6Krishna

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च। दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥

Commentary · Sanskrit

।।16.6।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
16.7Krishna

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः। न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥

Commentary · Sanskrit

।।16.7।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
16.8Krishna

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्। अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥

Commentary · Sanskrit

।।16.8।।न केवलं जगतो मिथ्यात्वादिवदतामसुरत्वंअसत्यमप्रतिष्ठं ते इत्यनेनोच्यते किन्तु जगज्जन्मादिकारणं विष्णुं ये न मन्यन्ते तेषां सर्वेषामपीति भावेनाह -- जगत इति। तद्वैपरीत्येनेति। न विद्यते सत्यमस्येत्यादि। जगतः सत्यं विष्णुरित्यत्र श्रुतिमाह -- तस्येति। तस्य विष्णोः सत्यस्य सत्यमिति। उपनिषद्रहस्यं नाम कथम् प्राणा मूर्तामूर्तं जगदिति यावत्। सत्यमित्युच्यते। तेषां प्राणानामेष विष्णुः सत्यमित्यर्थः। एवं चेज्जगतो मुख्यं सत्यत्वं न भवेत्? अन्यथा निर्धारणायोगादित्यतो मूर्तामूर्तात्मकस्य जगतः सत्यत्वं तावदन्यथा श्रुत्यैव व्याचष्टे -- द्वे वा वेति। रूपे प्रतिमे। तत्र मूर्तं स्थितमिति सदिति चोच्यते। अमूर्तं तु यदिति त्यदिति चोच्यत इत्यर्थः। तथा च सच्च त्यच्च सत्त्यमित्युक्तं भवति। इदानीं जगतः सत्यत्वं विष्णोः श्रुत्या व्याचष्टे -- तस्येति। सादयति विशरणादिकं प्रापयतीति सत्? यामयति नियच्छतीति यं? सच्च तद्यं च सत्त्यमित्यर्थः। प्रतिष्ठेश्वरश्चेति प्रसिद्धमेव।अपरस्परसम्भूतं इत्यस्यापरं परस्मात् सम्भूतमिति व्याख्यानमसत् प्रतिषेधप्रकरणात्। अतः परस्परसम्भूतं न भवतीत्याहुरित्येव व्याख्येयम्। स्यादेवम्? यदि परस्परसम्भवो भगवतोऽभिमतः स्यात् इत्यत आह -- परस्परेति। यद्वाऽनेन परव्याख्यानासाधुत्वमुपपादयति। भगवता परस्परसम्भवस्योक्तत्वात् तद्वचनं कथमासुरं इति। ईश्वराक्षेपे तात्पर्यमिति चेत्? न पुनरुक्तिप्रसङ्गात्।

Compare this verse →
16.9Krishna

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः। प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥

Commentary · Sanskrit

।।16.9।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
16.10Krishna

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः। मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥

Commentary · Sanskrit

।।16.10।।काममाश्रित्य दुष्पूरमिति कामस्य दुष्पूरत्वं किं विशेषणम् नेति ब्रूमः किं तर्हि कामस्य प्रवृत्तिहेतुत्वे हेतुरयमुच्यत इति भावेनाऽऽह -- दुष्पूरो हीति। विशेषणमेव किं न स्यात्। कामस्य दुष्पूरत्वाव्यभिचारादिति भावेनाऽऽह -- पाताल इवेति।

Compare this verse →
16.11Krishna

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः। कामोपभोगपरमा एतावदिति निश्चिताः ॥

Commentary · Sanskrit

।।16.11।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
16.12Krishna

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः। ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥

Commentary · Sanskrit

।।16.12।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
16.13Krishna

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्। इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥

Commentary · Sanskrit

।।16.13।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
16.14Krishna

असौ मया हतः शत्रुर्हनिष्ये चापरानपि। ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥

Commentary · Sanskrit

।।16.14।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
16.15Krishna

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया। यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥

Commentary · Sanskrit

।।16.15।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
16.16Krishna

अनेकचित्तविभ्रान्ता मोहजालसमावृताः। प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥

Commentary · Sanskrit

।।16.16।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
16.17Krishna

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः। यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥

Commentary · Sanskrit

।।16.17।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
16.18Krishna

अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः। मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥

Commentary · Sanskrit

।।16.18।।भगवद्द्वेषस्यात्मपरदेहाधिकरणत्वं कथं इत्यत आह मामिति। कुतो न कारयिता यदि स्यात्तर्हीदानीमकुर्वाणं मामपि कारयतु? कुर्वाणं च निवारयतु? इत्यर्थः। सदाधो नित्यनरकम्।

Compare this verse →
16.19Krishna

तानहं द्विषतः क्रुरान्संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥

Commentary · Sanskrit

।।16.19।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
16.20Krishna

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि। मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥

Commentary · Sanskrit

।।16.20।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
16.21Krishna

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः। कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥

Commentary · Sanskrit

।।16.21।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
16.22Krishna

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः। आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥

Commentary · Sanskrit

।।16.22।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
16.23Krishna

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः। न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥

Commentary · Sanskrit

।।16.23।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
16.24Krishna

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ। ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥

Commentary · Sanskrit

।।16.24।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →